१. पंसुकूलिकङ्गकथावण्णना

२४. गहपतिदानचीवरन्ति एत्थ दायकभावेन समणापि उक्कट्ठस्स गहपतिपक्खंयेव पविट्ठाति दट्ठब्बं. ‘‘पब्बजितो गण्हिस्सती’’ति ठपितकं सिया गहपतिचीवरं, न पन गहपतिदानचीवरन्ति तादिसं निवत्तेतुं दानग्गहणं. अञ्ञतरेनाति एत्थ समादानवचनेन ताव समादिन्नं होतु, पटिक्खेपवचनेन पन कथन्ति? अत्थतो आपन्नत्ता. यथा ‘‘देवदत्तो दिवा न भुञ्जती’’ति वुत्ते ‘‘रत्तियं भुञ्जती’’ति अत्थतो आपन्नमेव होति, तस्स आहारेन विना सरीरट्ठिति नत्थीति, एवमिधापि भिक्खुनो गहपतिदानचीवरे पटिक्खित्ते तदञ्ञचीवरप्पटिग्गहो अत्थतो आपन्नो एव होति, चीवरेन विना सासने ठिति नत्थीति.

एवं समादिन्नधुतङ्गेनातिआदिविधानं पंसुकूलिकङ्गे पटिपज्जनविधि. सुसाने लद्धं सोसानिकं. तं पन यस्मा तत्थ केनचि छड्डितत्ता पतितं होति, तस्मा वुत्तं ‘‘सुसाने पतितक’’न्ति. एवं पापणिकम्पि दट्ठब्बं. तालवेळिमग्गो नाम महागामे एका वीथि. अनुराधपुरेति च वदन्ति. डड्ढो पदेसो एतस्साति डड्ढप्पदेसं, वत्थं. मग्गे पतितकं बहुदिवसातिक्कन्तं गहेतब्बन्ति वदन्ति. ‘‘द्वत्तिदिवसातिक्कन्त’’न्ति अपरे. थोकं रक्खित्वाति कतिपयं कालं आगमेत्वा. वाताहतम्पि सामिकानं सतिसम्मोसेन पतितसदिसन्ति ‘‘सामिके अपस्सन्तेन गहेतुं वट्टती’’ति वुत्तं. तस्मा थोकं आगमेत्वा गहेतब्बं.

‘‘सङ्घस्स देमा’’ति दिन्नं, चोळकभिक्खावसेन लद्धञ्च लद्धकालतो पट्ठाय ‘‘समणचीवरं सिया नु खो, नो’’ति आसङ्कं निवत्तेतुं ‘‘न तं पंसुकूल’’न्ति वुत्तं. न हि तं तेवीसतिया उप्पत्तिट्ठानेसु कत्थचि परियापन्नं. इदानि इमिनाव पसङ्गेन यं भिक्खुदत्तिये लक्खणपत्तं पंसुकूलं, तस्स च उक्कट्ठानुक्कट्ठविभागं दस्सेतुं ‘‘भिक्खुदत्तियेपी’’तिआदि वुत्तं. तत्थ गाहेत्वा वा दीयतीति सङ्घस्स वा गणस्स वा देन्तेहि यं चीवरं वस्सग्गेन पापेत्वा भिक्खूनं दीयति. सेनासनचीवरन्ति सेनासनं कारेत्वा ‘‘एतस्मिं सेनासने वसन्ता परिभुञ्जन्तू’’ति दिन्नचीवरं. न तं पंसुकूलन्ति अपंसुकूलभावो पुब्बे वुत्तकारणतो, गाहेत्वा दिन्नत्ता च. तेनाह ‘‘नो गाहापेत्वा दिन्नमेव पंसुकूल’’न्ति. तत्रपीति यं गाहेत्वा न दिन्नं भिक्खुदत्तियं, तत्रपि येन भिक्खुना चीवरं दीयति, तस्स लाभे, दाने च विसुं विसुं उभयत्थ आदरगारवानं सब्भावतो, तदभावतो च भिक्खुदत्तियस्स एकतोसुद्धि उभतोसुद्धि अनुक्कट्ठता होन्तीति इममत्थं दस्सेतुं ‘‘यं दायकेही’’तिआदि वुत्तं, पादमूले ठपेत्वा दिन्नकं समणेनाति अधिप्पायो. यस्स कस्सचीति उक्कट्ठादीसु यस्स कस्सचि. रुचियाति छन्देन. खन्तियाति निज्झानक्खन्तिया.

निस्सयानुरूपपटिपत्तिसब्भावोति उपसम्पन्नसमनन्तरं आचरियेन वुत्तेसु चतूसु निस्सयेसु अत्तना यथापटिञ्ञातदुतियनिस्सयानुरूपाय पटिपत्तिया विज्जमानता. आरक्खदुक्खाभावोति चीवरारक्खनदुक्खस्स अभावो पंसुकूलचीवरस्स अलोभनीयत्ता. परिभोगतण्हाय अभावो सविसेसलूखसभावत्ता. पासादिकताति परेसं पसादावहता. अप्पिच्छतादीनं फलनिप्फत्ति धुतङ्गपरिहरणस्स अप्पिच्छतादीहियेव निप्फादेतब्बतो. धुतधम्मे समादाय वत्तनं यावदेव उपरि सम्मापटिपत्तिसम्पादनायाति वुत्तं ‘‘सम्मापटिपत्तिया अनुब्रूहन’’न्ति. मारसेनविघातायाति मारस्स, मारसेनाय च विहननाय विद्धंसनाय. कायवाचाचित्तेहि यतो संयतोति यति, भिक्खु. धारितं यं लोकगरुना पंसुकूलं, तं को न धारये, यस्मा वा लोकगरुना पंसुकूलं धारितं, तस्मा को तं न धारयेति योजना यंतंसद्दानं एकन्तसम्बन्धिभावतो. पटिञ्ञं समनुस्सरन्ति उपसम्पदमाळे ‘‘आम भन्ते’’ति आचरियपमुखस्स सङ्घस्स सम्मुखा दिन्नं पटिञ्ञं समनुस्सरन्तो.

इति पंसुकूलिकङ्गकथावण्णना.