८. अनुस्सतिकम्मट्ठाननिद्देसो

मरणस्सतिकथा

१६७. इदानि इतो अनन्तराय मरणस्सतिया भावनानिद्देसो अनुप्पत्तो. तत्थ मरणन्ति एकभवपरियापन्नस्स जीवितिन्द्रियस्स उपच्छेदो. यं पनेतं अरहन्तानं वट्टदुक्खसमुच्छेदसङ्खातं समुच्छेदमरणं, सङ्खारानं खणभङ्गसङ्खातं खणिकमरणं, रुक्खो मतो लोहं मतन्तिआदीसु सम्मुतिमरणञ्च, न तं इध अधिप्पेतं.

यम्पि चेतं अधिप्पेतं, तं कालमरणं अकालमरणन्ति दुविधं होति. तत्थ कालमरणं पुञ्ञक्खयेन वा आयुक्खयेन वा उभयक्खयेन वा होति. अकालमरणं कम्मुपच्छेदककम्मवसेन.

तत्थ यं विज्जमानायपि आयुसन्तानजनकपच्चयसम्पत्तिया केवलं पटिसन्धिजनकस्स कम्मस्स विपक्कविपाकत्ता मरणं होति, इदं पुञ्ञक्खयेन मरणं नाम. यं गतिकालाहारादिसम्पत्तिया अभावेन अज्जतनकालपुरिसानं विय वस्ससतमत्तपरिमाणस्स आयुनो खयवसेन मरणं होति, इदं आयुक्खयेन मरणं नाम. यं पन दूसीमारकलाबुराजादीनं विय तङ्खणञ्ञेव ठानाचावनसमत्थेन कम्मुना उपच्छिन्नसन्तानानं, पुरिमकम्मवसेन वा सत्थहरणादीहि उपक्कमेहि उपच्छिज्जमानसन्तानानं मरणं होति, इदं अकालमरणं नाम. तं सब्बम्पि वुत्तप्पकारेन जीवितिन्द्रियुपच्छेदेन सङ्गहितं. इति जीवितिन्द्रियुपच्छेदसङ्खातस्स मरणस्स सरणं मरणस्सति.

१६८. तं भावेतुकामेन रहोगतेन पटिसल्लीनेन ‘‘मरणं भविस्सति, जीवितिन्द्रियं उपच्छिज्जिस्सती’’ति वा, ‘‘मरणं मरण’’न्ति वा योनिसो मनसिकारो पवत्तेतब्बो. अयोनिसो पवत्तयतो हि इट्ठजनमरणानुस्सरणे सोको उप्पज्जति विजातमातुया पियपुत्तमरणानुस्सरणे विय. अनिट्ठजनमरणानुस्सरणे पामोज्जं उप्पज्जति वेरीनं वेरिमरणानुस्सरणे विय. मज्झत्तजनमरणानुस्सरणे संवेगो न उप्पज्जति मतकळेवरदस्सने छवडाहकस्स विय. अत्तनो मरणानुस्सरणे सन्तासो उप्पज्जति उक्खित्तासिकं वधकं दिस्वा भीरुकजातिकस्स विय. तदेतं सब्बम्पि सतिसंवेगञाणविरहतो होति. तस्मा तत्थ तत्थ हतमतसत्ते ओलोकेत्वा दिट्ठपुब्बसम्पत्तीनं सत्तानं मतानं मरणं आवज्जेत्वा सतिञ्च संवेगञ्च ञाणञ्च योजेत्वा ‘‘मरणं भविस्सती’’तिआदिना नयेन मनसिकारो पवत्तेतब्बो. एवं पवत्तेन्तो हि योनिसो पवत्तेति, उपायेन पवत्तेतीति अत्थो. एवं पवत्तयतोयेव हि एकच्चस्स नीवरणानि विक्खम्भन्ति, मरणारम्मणा सति सण्ठाति, उपचारप्पत्तमेव कम्मट्ठानं होति.

१६९. यस्स पन एत्तावता न होति, तेन वधकपच्चुपट्ठानतो, सम्पत्तिविपत्तितो, उपसंहरणतो, कायबहुसाधारणतो, आयुदुब्बलतो, अनिमित्ततो, अद्धानपरिच्छेदतो, खणपरित्ततोति इमेहि अट्ठहाकारेहि मरणं अनुस्सरितब्बं.

तत्थ वधकपच्चुपट्ठानतोति वधकस्स विय पच्चुपट्ठानतो. यथा हि इमस्स सीसं छिन्दिस्सामीति असिं गहेत्वा गीवाय चारयमानो वधको पच्चुपट्ठितोव होति, एवं मरणम्पि पच्चुपट्ठितमेवाति अनुस्सरितब्बं. कस्मा? सह जातिया आगततो, जीवितहरणतो च. यथा हि अहिच्छत्तकमकुळं मत्थकेन पंसुं गहेत्वाव उग्गच्छति, एवं सत्ता जरामरणं गहेत्वाव निब्बत्तन्ति. तथा हि नेसं पटिसन्धिचित्तं उप्पादानन्तरमेव जरं पत्वा पब्बतसिखरतो पतितसिला विय भिज्जति सद्धिं सम्पयुत्तखन्धेहि. एवं खणिकमरणं ताव सह जातिया आगतं. जातस्स पन अवस्सं मरणतो इधाधिप्पेतमरणम्पि सह जातिया आगतं. तस्मा एस सत्तो जातकालतो पट्ठाय यथा नाम उट्ठितो सूरियो अत्थाभिमुखो गच्छतेव, गतगतट्ठानतो ईसकम्पि न निवत्तति. यथा वा नदी पब्बतेय्या सीघसोता हारहारिनी सन्दतेव वत्ततेव ईसकम्पि न निवत्तति, एवं ईसकम्पि अनिवत्तमानो मरणाभिमुखोव याति. तेन वुत्तं –

‘‘यमेकरत्तिं पठमं, गब्भे वसति माणवो;

अब्भुट्ठितोव सो याति, स गच्छं न निवत्तती’’ति. (जा. १.१५.३६३);

एवं गच्छतो चस्स गिम्हाभितत्तानं कुन्नदीनं खयो विय, पातो आपोरसानुगतबन्धनानं दुमप्फलानं पतनं विय, मुग्गराभिताळितानं मत्तिकभाजनानं भेदो विय, सूरियरस्मिसम्फुट्ठानं उस्सावबिन्दूनं विद्धंसनं विय च मरणमेव आसन्नं होति. तेनाह –

‘‘अच्चयन्ति अहोरत्ता, जीवितमुपरुज्झति;

आयु खीयति मच्चानं, कुन्नदीनंव ओदकं. (सं. नि. १.१४६);

‘‘फलानमिव पक्कानं, पातो पपततो भयं;

एवं जातान मच्चानं, निच्चं मरणतो भयं.

‘‘यथापि कुम्भकारस्स, कतं मत्तिकभाजनं;

खुद्दकञ्च महन्तञ्च, यं पक्कं यञ्च आमकं;

सब्बं भेदनपरियन्तं, एवं मच्चान जीवितं’. (सु. नि. ५८१-५८२);

‘‘उस्सावोव तिणग्गम्हि, सूरियुग्गमनं पति;

एवमायु मनुस्सानं, मा मं अम्म निवारया’’ति. (जा. १.११.७९);

एवं उक्खित्तासिको वधको विय सह जातिया आगतं पनेतं मरणं गीवाय असिं चारयमानो सो वधको विय जीवितं हरतियेव, न अहरित्वा निवत्तति. तस्मा सह जातिया आगततो, जीवितहरणतो च उक्खित्तासिको वधको विय मरणम्पि पच्चुपट्ठितमेवाति एवं वधकपच्चुपट्ठानतो मरणं अनुस्सरितब्बं.

१७०. सम्पत्तिविपत्तितोति इध सम्पत्ति नाम तावदेव सोभति, याव नं विपत्ति नाभिभवति, न च सा सम्पत्ति नाम अत्थि, या विपत्तिं अतिक्कम्म तिट्ठेय्य. तथा हि –

‘‘सकलं मेदिनिं भुत्वा, दत्वा कोटिसतं सुखी;

अड्ढामलकमत्तस्स, अन्ते इस्सरतं गतो.

‘‘तेनेव देहबन्धेन, पुञ्ञम्हि खयमागते;

मरणाभिमुखो सोपि, असोको सोकमागतो’’ति.

अपिच सब्बं आरोग्यं ब्याधिपरियोसानं, सब्बं योब्बनं जरापरियोसानं, सब्बं जीवितं मरणपरियोसानं, सब्बोयेव लोकसन्निवासो जातिया अनुगतो, जराय अनुसटो, ब्याधिना अभिभूतो, मरणेन अब्भाहतो. तेनाह –

‘‘यथापि सेला विपुला, नभं आहच्च पब्बता;

समन्ता अनुपरियेय्युं, निप्पोथेन्ता चतुद्दिसा.

‘‘एवं जरा च मच्चु च, अधिवत्तन्ति पाणिने;

खत्तिये ब्राह्मणे वेस्से, सुद्दे चण्डालपुक्कुसे;

न किञ्चि परिवज्जेति, सब्बमेवाभिमद्दति.

‘‘न तत्थ हत्थीनं भूमि, न रथानं न पत्तिया;

न चापि मन्तयुद्धेन, सक्का जेतुं धनेन वा’’ति. (सं. नि. १.१३६);

एवं जीवितसम्पत्तिया मरणविपत्तिपरियोसानतं ववत्थपेन्तेन सम्पत्तिविपत्तितो मरणं अनुस्सरितब्बं.

१७१. उपसंहरणतोति परेहि सद्धिं अत्तनो उपसंहरणतो. तत्थ सत्तहाकारेहि उपसंहरणतो मरणं अनुस्सरितब्बं, यसमहत्ततो, पुञ्ञमहत्ततो, थाममहत्ततो, इद्धिमहत्ततो, पञ्ञामहत्ततो, पच्चेकबुद्धतो, सम्मासम्बुद्धतोति. कथं? इदं मरणं नाम महायसानं महापरिवारानं सम्पन्नधनवाहनानं महासम्मतमन्धातुमहासुदस्सन दळ्हनेमि निमिप्पभुतीनम्पि उपरि निरासङ्कमेव पतितं, किमङ्गं पन मय्हं उपरि न पतिस्सति?

महायसा राजवरा, महासम्मतआदयो;

तेपि मच्चुवसं पत्ता, मादिसेसु कथाव काति.

एवं ताव यसमहत्ततो अनुस्सरितब्बं.

कथं पुञ्ञमहत्ततो?

जोतिको जटिलो उग्गो, मेण्डको अथ पुण्णको;

एते चञ्ञे च ये लोके, महापुञ्ञाति विस्सुता;

सब्बे मरणमापन्ना, मादिसेसु कथाव काति.

एवं पुञ्ञमहत्ततो अनुस्सरितब्बं.

कथं थाममहत्ततो?

वासुदेवो बलदेवो, भीमसेनो युधिट्ठिलो;

चानुरो यो महामल्लो, अन्तकस्स वसं गता.

एवं थामबलूपेता, इति लोकम्हि विस्सुता;

एतेपि मरणं याता, मादिसेसु कथाव काति.

एवं थाममहत्ततो अनुस्सरितब्बं.

कथं इद्धिमहत्ततो?

पादङ्गुट्ठकमत्तेन, वेजयन्तमकम्पयि;

यो नामिद्धिमतं सेट्ठो, दुतियो अग्गसावको.

सोपि मच्चुमुखं घोरं, मिगो सीहमुखं विय;

पविट्ठो सह इद्धीहि, मादिसेसु कथाव काति.

एवं इद्धिमहत्ततो अनुस्सरितब्बं.

कथं पञ्ञामहत्ततो?

लोकनाथं ठपेत्वान, ये चञ्ञे अत्थि पाणिनो;

पञ्ञाय सारिपुत्तस्स, कलं नाग्घन्ति सोळसिं.

एवं नाम महापञ्ञो, पठमो अग्गसावको;

मरणस्स वसं पत्तो, मादिसेसु कथाव काति.

एवं पञ्ञामहत्ततो अनुस्सरितब्बं.

कथं पच्चेकबुद्धतो? येपि ते अत्तनो ञाणवीरियबलेन सब्बकिलेससत्तुनिम्मथनं कत्वा पच्चेकबोधिं पत्ता खग्गविसाणकप्पा सयम्भुनो, तेपि मरणतो न मुत्ता, कुतो पनाहं मुच्चिस्सामीति.

तं तं निमित्तमागम्म, वीमंसन्ता महेसयो;

सयम्भुञ्ञाणतेजेन, ये पत्ता आसवक्खयं.

एकचरियनिवासेन, खग्गसिङ्गसमूपमा;

तेपि नातिगता मच्चुं, मादिसेसु कथाव काति.

एवं पच्चेकबुद्धतो अनुस्सरितब्बं.

कथं सम्मासम्बुद्धतो? योपि सो भगवा असीतिअनुब्यञ्जनपटिमण्डितद्वत्तिंसमहापुरिसलक्खणविचित्ररूपकायो सब्बाकारपरिसुद्धसीलक्खन्धादिगुणरतनसमिद्धधम्मकायो यसमहत्तपुञ्ञमहत्तथाममहत्तइद्धिमहत्तपञ्ञामहत्तानं पारं गतो असमो असमसमो अप्पटिपुग्गलो अरहं सम्मासम्बुद्धो, सोपि सलिलवुट्ठिनिपातेन महाअग्गिक्खन्धो विय मरणवुट्ठिनिपातेन ठानसो वूपसन्तो.

एवं महानुभावस्स, यं नामेतं महेसिनो;

न भयेन न लज्जाय, मरणं वसमागतं.

निल्लज्जं वीतसारज्जं, सब्बसत्ताभिमद्दनं;

तयिदं मादिसं सत्तं, कथं नाभिभविस्सतीति.

एवं सम्मासम्बुद्धतो अनुस्सरितब्बं.

तस्सेवं यसमहत्ततादिसम्पन्नेहि परेहि सद्धिं मरणसामञ्ञताय अत्तानं उपसंहरित्वा तेसं विय सत्तविसेसानं मय्हम्पि मरणं भविस्सतीति अनुस्सरतो उपचारप्पत्तं कम्मट्ठानं होतीति. एवं उपसंहरणतो मरणं अनुस्सरितब्बं.

१७२. कायबहुसाधारणतोति अयं कायो बहुसाधारणो. असीतिया ताव किमिकुलानं साधारणो, तत्थ छविनिस्सिता पाणा छविं खादन्ति, चम्मनिस्सिता चम्मं खादन्ति, मंसनिस्सिता मंसं खादन्ति, न्हारुनिस्सिता न्हारुं खादन्ति, अट्ठिनिस्सिता अट्ठिं खादन्ति, मिञ्जनिस्सिता मिञ्जं खादन्ति. तत्थेव जायन्ति जीयन्ति मीयन्ति, उच्चारपस्सावं करोन्ति. कायोव नेसं सूतिघरञ्चेव गिलानसाला च सुसानञ्च वच्चकुटि च पस्सावदोणिका च. स्वायं तेसम्पि किमिकुलानं पकोपेन मरणं निगच्छतियेव. यथा च असीतिया किमिकुलानं, एवं अज्झत्तिकानंयेव अनेकसतानं रोगानं बाहिरानञ्च अहिविच्छिकादीनं मरणस्स पच्चयानं साधारणो.

यथा हि चतुमहापथे ठपिते लक्खम्हि सब्बदिसाहि आगता सरसत्तितोमरपासाणादयो निपतन्ति, एवं कायेपि सब्बुपद्दवा निपतन्ति. स्वायं तेसम्पि उपद्दवानं निपातेन मरणं निगच्छतियेव. तेनाह भगवा – ‘‘इध, भिक्खवे, भिक्खु दिवसे निक्खन्ते रत्तिया पटिहिताय इति पटिसञ्चिक्खति, बहुका खो मे पच्चया मरणस्स, अहि वा मं डंसेय्य, विच्छिको वा मं डंसेय्य, सतपदी वा मं डंसेय्य, तेन मे अस्स कालङ्किरिया, सो ममस्स अन्तरायो, उपक्खलित्वा वा पपतेय्यं, भत्तं वा मे भुत्तं ब्यापज्जेय्य, पित्तं वा मे कुप्पेय्य, सेम्हं वा मे कुप्पेय्य, सत्थका वा मे वाता कुप्पेय्युं, तेन मे अस्स कालङ्किरिया, सो ममस्स अन्तरायो’’ति. एवं (अ. नि. ६.२०) कायबहुसाधारणतो मरणं अनुस्सरितब्बं.

१७३. आयुदुब्बलतोति आयु नामेतं अबलं दुब्बलं. तथा हि सत्तानं जीवितं अस्सासपस्सासूपनिबद्धञ्चेव इरियापथूपनिबद्धञ्च सीतुण्हूपनिबद्धञ्च महाभूतूपनिबद्धञ्च आहारूपनिबद्धञ्च. तदेतं अस्सासपस्सासानं समवुत्तितं लभमानमेव पवत्तति. बहि निक्खन्तनासिकवाते पन अन्तो अपविसन्ते, पविट्ठे वा अनिक्खमन्ते मतो नाम होति. चतुन्नं इरियापथानम्पि समवुत्तितं लभमानमेव पवत्तति. अञ्ञतरञ्ञतरस्स पन अधिमत्तताय आयुसङ्खारा उपच्छिज्जन्ति. सीतुण्हानम्पि समवुत्तितं लभमानमेव पवत्तति. अतिसीतेन पन अतिउण्हेन वा अभिभूतस्स विपज्जति. महाभूतानम्पि समवुत्तितं लभमानमेव पवत्तति. पथवीधातुया पन आपोधातुआदीनं वा अञ्ञतरञ्ञतरस्स पकोपेन बलसम्पन्नोपि पुग्गलो पत्थद्धकायो वा अतिसारादिवसेन किलिन्नपूतिकायो वा महाडाहपरेतो वा सम्भिज्जमानसन्धिबन्धनो वा हुत्वा जीवितक्खयं पापुणाति. कबळीकाराहारम्पि युत्तकाले लभन्तस्सेव जीवितं पवत्तति, आहारं अलभमानस्स पन परिक्खयं गच्छतीति. एवं आयुदुब्बलतो मरणं अनुस्सरितब्बं.

१७४. अनिमित्ततोति अववत्थानतो, परिच्छेदाभावतोति अत्थो. सत्तानं हि –

जीवितं ब्याधि कालो च, देहनिक्खेपनं गति;

पञ्चेते जीवलोकस्मिं, अनिमित्ता न नायरे.

तत्थ जीवितं ताव ‘‘एत्तकमेव जीवितब्बं, न इतो पर’’न्ति ववत्थानाभावतो अनिमित्तं. कललकालेपि हि सत्ता मरन्ति, अब्बुदपेसिघनमासिकद्वेमासतेमासचतुमासपञ्चमासदसमासकालेपि. कुच्छितो निक्खन्तसमयेपि. ततो परं वस्ससतस्स अन्तोपि बहिपि मरन्तियेव. ब्याधिपि ‘‘इमिनाव ब्याधिना सत्ता मरन्ति, नाञ्ञेना’’ति ववत्थानाभावतो अनिमित्तो. चक्खुरोगेनापि हि सत्ता मरन्ति, सोतरोगादीनं अञ्ञतरेनापि. कालोपि ‘‘इमस्मिंयेव काले मरितब्बं, नाञ्ञस्मि’’न्ति एवं ववत्थानाभावतो अनिमित्तो. पुब्बण्हेपि हि सत्ता मरन्ति, मज्झन्हिकादीनं अञ्ञतरस्मिम्पि. देहनिक्खेपनम्पि ‘‘इधेव मीयमानानं देहेन पतितब्बं, नाञ्ञत्रा’’ति एवं ववत्थानाभावतो अनिमित्तं. अन्तोगामे जातानं हि बहिगामेपि अत्तभावो पतति. बहिगामे जातानम्पि अन्तोगामे. तथा थलजानं वा जले, जलजानं वा थलेति अनेकप्पकारतो वित्थारेतब्बं. गतिपि ‘‘इतो चुतेन इध निब्बत्तितब्ब’’न्ति एवं ववत्थानाभावतो अनिमित्ता. देवलोकतो हि चुता मनुस्सेसुपि निब्बत्तन्ति, मनुस्सलोकतो चुता देवलोकादीनम्पि यत्थ कत्थचि निब्बत्तन्तीति एवं यन्तयुत्तगोणो विय गतिपञ्चके लोको सम्परिवत्ततीति एवं अनिमित्ततो मरणं अनुस्सरितब्बं.

१७५. अद्धानपरिच्छेदतोति मनुस्सानं जीवितस्स नाम एतरहि परित्तो अद्धा. यो चिरं जीवति, सो वस्ससतं, अप्पं वा भिय्यो. तेनाह भगवा – ‘‘अप्पमिदं, भिक्खवे, मनुस्सानं आयु, गमनीयो सम्परायो, कत्तब्बं कुसलं, चरितब्बं ब्रह्मचरियं, नत्थि जातस्स अमरणं. यो, भिक्खवे, चिरं जीवति, सो वस्ससतं, अप्पं वा भिय्योति.

अप्पमायुमनुस्सानं, हीळेय्य नं सुपोरिसो;

चरेय्यादित्तसीसोव, नत्थि मच्चुस्स नागमोति. (सं. नि. १.१४५);

अपरम्पि आह – ‘‘भूतपुब्बं, भिक्खवे, अरको नाम सत्था अहोसी’’ति सब्बम्पि सत्तहि उपमाहि अलङ्कतं सुत्तं वित्थारेतब्बं.

अपरम्पि आह – ‘‘योचायं, भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति, अहो वताहं रत्तिन्दिवं जीवेय्यं, भगवतो सासनं मनसिकरेय्यं, बहुं वत मे कतं अस्साति. योचायं, भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति, अहो वताहं दिवसं जीवेय्यं, भगवतो सासनं मनसिकरेय्यं, बहुं वत मे कतं अस्साति. यो चायं, भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति, अहो वताहं तदन्तरं जीवेय्यं, यदन्तरं एकं पिण्डपातं भुञ्जामि, भगवतो सासनं मनसिकरेय्यं, बहुं वत मे कतं अस्साति. यो चायं, भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति, अहो वताहं तदन्तरं जीवेय्यं, यदन्तरं चत्तारो पञ्च आलोपे सङ्खादित्वा अज्झोहरामि, भगवतो सासनं मनसिकरेय्यं, बहुं वत मे कतं अस्साति. इमे वुच्चन्ति, भिक्खवे, भिक्खू पमत्ता विहरन्ति, दन्धं मरणस्सतिं भावेन्ति आसवानं खयाय. यो च ख्वायं, भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति, अहो वताहं तदन्तरं जीवेय्यं, यदन्तरं एकं आलोपं सङ्खादित्वा अज्झोहरामि, भगवतो सासनं मनसिकरेय्यं, बहुं वत मे कतं अस्साति. यो चायं, भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति, अहो वताहं तदन्तरं जीवेय्यं, यदन्तरं अस्ससित्वा वा पस्ससामि, पस्ससित्वा वा अस्ससामि, भगवतो सासनं मनसिकरेय्यं, बहुं वत मे कतं अस्साति. इमे वुच्चन्ति, भिक्खवे, भिक्खू अप्पमत्ता विहरन्ति, तिक्खं मरणस्सतिं भावेन्ति आसवानं खयाया’’ति (अ. नि. ६.१९). एवं चतुपञ्चालोपसङ्खादनमत्तं अविस्सासियो परित्तो जीवितस्स अद्धाति एवं अद्धानपरिच्छेदतो मरणं अनुस्सरितब्बं.

१७६. खणपरित्ततोति परमत्थतो हि अतिपरित्तो सत्तानं जीवितक्खणो एकचित्तप्पवत्तिमत्तोयेव. यथा नाम रथचक्कं पवत्तमानम्पि एकेनेव नेमिप्पदेसेन पवत्तति, तिट्ठमानम्पि एकेनेव तिट्ठति, एवमेव एकचित्तक्खणिकं सत्तानं जीवितं. तस्मिं चित्ते निरुद्धमत्ते सत्तो निरुद्धोति वुच्चति. यथाह – ‘‘अतीते चित्तक्खणे जीवित्थ, न जीवति, न जीविस्सति. अनागते चित्तक्खणे न जीवित्थ, न जीवति, जीविस्सति. पच्चुप्पन्ने चित्तक्खणे न जीवित्थ, जीवति, न जीविस्सति.

‘‘जीवितं अत्तभावो च, सुखदुक्खा च केवला;

एकचित्तसमायुत्ता, लहु सो वत्तते खणो.

‘‘ये निरुद्धा मरन्तस्स, तिट्ठमानस्स वा इध;

सब्बेपि सदिसा खन्धा, गता अप्पटिसन्धिका.

‘‘अनिब्बत्तेन न जातो, पच्चुप्पन्नेन जीवति;

चित्तभङ्गा मतो लोको, पञ्ञत्ति परमत्थिया’’ति. (महानि. ३९);

एवं खणपरित्ततो मरणं अनुस्सरितब्बं.

१७७. इति इमेसं अट्ठन्नं आकारानं अञ्ञतरञ्ञतरेन अनुस्सरतोपि पुनप्पुनं मनसिकारवसेन चित्तं आसेवनं लभति, मरणारम्मणा सति सन्तिट्ठति, नीवरणानि विक्खम्भन्ति, झानङ्गानि पातुभवन्ति. सभावधम्मत्ता पन संवेजनीयत्ता च आरम्मणस्स अप्पनं अप्पत्वा उपचारप्पत्तमेव झानं होति. लोकुत्तरज्झानं पन दुतियचतुत्थानि च आरुप्पज्झानानि सभावधम्मेपि भावनाविसेसेन अप्पनं पापुणन्ति. विसुद्धिभावनानुक्कमवसेन हि लोकुत्तरं अप्पनं पापुणाति. आरम्मणातिक्कमभावनावसेन आरुप्पं. अप्पनापत्तस्सेव हि झानस्स आरम्मणसमतिक्कमनमत्तं तत्थ होति. इध पन तदुभयम्पि नत्थि. तस्मा उपचारप्पत्तमेव झानं होति. तदेतं मरणस्सतिबलेन उप्पन्नत्ता मरणस्सतिच्चेव सङ्खं गच्छति.

इमञ्च पन मरणस्सतिं अनुयुत्तो भिक्खु सततं अप्पमत्तो होति, सब्बभवेसु अनभिरतिसञ्ञं पटिलभति, जीवितनिकन्तिं जहाति, पापगरही होति, असन्निधिबहुलो परिक्खारेसु विगतमलमच्छेरो, अनिच्चसञ्ञा चस्स परिचयं गच्छति, तदनुसारेनेव दुक्खसञ्ञा अनत्तसञ्ञा च उपट्ठाति. यथा अभावितमरणा सत्ता सहसा वाळमिगयक्खसप्पचोरवधकाभिभूता विय मरणसमये भयं सन्तासं सम्मोहं आपज्जन्ति, एवं अनापज्जित्वा अभयो असम्मूळ्हो कालं करोति. सचे दिट्ठेव धम्मे अमतं नाराधेति, कायस्स भेदा सुगतिपरायनो होति.

तस्मा हवे अप्पमादं, कयिराथ सुमेधसो;

एवं महानुभावाय, मरणस्सतिया सदाति.

इदं मरणस्सतियं वित्थारकथामुखं.

कायगतासतिकथा

१७८. इदानि यं तं अञ्ञत्र बुद्धुप्पादा अप्पवत्तपुब्बं सब्बतित्थियानं अविसयभूतं तेसु तेसु सुत्तन्तेसु ‘‘एकधम्मो, भिक्खवे, भावितो बहुलीकतो महतो संवेगाय संवत्तति. महतो अत्थाय संवत्तति. महतो योगक्खेमाय संवत्तति. महतो सतिसम्पजञ्ञाय संवत्तति. ञाणदस्सनपटिलाभाय संवत्तति. दिट्ठधम्मसुखविहाराय संवत्तति. विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तति. कतमो एकधम्मो? कायगता सति… (अ. नि. १.५६३ आदयो). अमतं ते, भिक्खवे, परिभुञ्जन्ति, ये कायगतासतिं परिभुञ्जन्ति. अमतं ते, भिक्खवे, न परिभुञ्जन्ति, ये कायगतासतिं न परिभुञ्जन्ति. अमतं तेसं, भिक्खवे, परिभुत्तं… अपरिभुत्तं… परिहीनं… अपरिहीनं… विरद्धं… अविरद्धं, येसं कायगतासति आरद्धाति (अ. नि. १.६०३) एवं भगवता अनेकेहि आकारेहि पसंसित्वा ‘‘कथं भाविता, भिक्खवे, कायगतासति कथं बहुलीकता महप्फला होति महानिसंसा? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा’’तिआदिना (म. नि. ३.१५४) नयेन आनापानपब्बं, इरियापथपब्बं, चतुसम्पजञ्ञपब्बं, पटिक्कूलमनसिकारपब्बं, धातुमनसिकारपब्बं, नवसिवथिकपब्बानीति इमेसं चुद्दसन्नं पब्बानं वसेन कायगतासतिकम्मट्ठानं निद्दिट्ठं, तस्स भावनानिद्देसो अनुप्पत्तो.

तत्थ यस्मा इरियापथपब्बं चतुसम्पजञ्ञपब्बं धातुमनसिकारपब्बन्ति इमानि तीणि विपस्सनावसेन वुत्तानि. नव सिवथिकपब्बानि विपस्सनाञाणेसुयेव आदीनवानुपस्सनावसेन वुत्तानि. यापि चेत्थ उद्धुमातकादीसु समाधिभावना इज्झेय्य, सा असुभनिद्देसे पकासितायेव. आनापानपब्बं पन पटिक्कूलमनसिकारपब्बञ्च इमानेवेत्थ द्वे समाधिवसेन वुत्तानि. तेसु आनापानपब्बं आनापानस्सतिवसेन विसुं कम्मट्ठानंयेव. यं पनेतं ‘‘पुन चपरं, भिक्खवे, भिक्खु इममेव कायं उद्धं पादतला अधो केसमत्थका तचपरियन्तं पूरं नानप्पकारस्स असुचिनो पच्चवेक्खति. अत्थि इमस्मिं काये केसा लोमा…पे… मुत्त’’न्ति (म. नि. ३.१५४) एवं मत्थलुङ्गं अट्ठिमिञ्जेन सङ्गहेत्वा पटिक्कूलमनसिकारवसेन देसितं द्वत्तिंसाकारकम्मट्ठानं, इदमिध कायगतासतीति अधिप्पेतं.

१७९. तत्थायं पाळिवण्णनापुब्बङ्गमो भावनानिद्देसो. इममेव कायन्ति इमं चतुमहाभूतिकं पूतिकायं. उद्धं पादतलाति पादतलतो उपरि. अधो केसमत्थकाति केसग्गतो हेट्ठा. तचपरियन्तन्ति तिरियं तचपरिच्छिन्नं. पूरं नानप्पकारस्स असुचिनो पच्चवेक्खतीति नानप्पकारकेसादिअसुचिभरितो अयं कायोति पस्सति. कथं? अत्थि इमस्मिं काये केसा…पे… मुत्तन्ति.

तत्थ अत्थीति संविज्जन्ति. इमस्मिन्ति य्वायं उद्धं पादतला अधो केसमत्थका तचपरियन्तो पूरो नानप्पकारस्स असुचिनोति वुच्चति, तस्मिं. कायेति सरीरे. सरीरं हि असुचिसञ्चयतो कुच्छितानं केसादीनञ्चेव चक्खुरोगादीनञ्च रोगसतानं आयभूततो कायोति वुच्चति. केसा लोमाति एते केसादयो द्वत्तिंसाकारा. तत्थ अत्थि इमस्मिं काये केसा, अत्थि इमस्मिं काये लोमाति एवं सम्बन्धो वेदितब्बो.

इमस्मिं हि पादतला पट्ठाय उपरि, केसमत्थका पट्ठाय हेट्ठा, तचतो पट्ठाय परितोति एत्तके ब्याममत्ते कळेवरे सब्बाकारेनपि विचिनन्तो न कोचि किञ्चि मुत्तं वा मणिं वा वेळुरियं वा अगरुं वा कुङ्कुमं वा कप्पूरं वा वासचुण्णादिं वा अणुमत्तम्पि सुचिभावं पस्सति, अथ खो परमदुग्गन्धजेगुच्छं असिरिकदस्सनं नानप्पकारं केसलोमादिभेदं असुचिंयेव पस्सति. तेन वुत्तं ‘‘अत्थि इमस्मिं काये केसा लोमा…पे… मुत्त’’न्ति. अयमेत्थ पदसम्बन्धतो वण्णना.

१८०. इमं पन कम्मट्ठानं भावेतुकामेन आदिकम्मिकेन कुलपुत्तेन वुत्तप्पकारं कल्याणमित्तं उपसङ्कमित्वा इदं कम्मट्ठानं गहेतब्बं. तेनापिस्स कम्मट्ठानं कथेन्तेन सत्तधा उग्गहकोसल्लं दसधा च मनसिकारकोसल्लं आचिक्खितब्बं. तत्थ वचसा मनसा वण्णतो सण्ठानतो दिसतो ओकासतो परिच्छेदतोति एवं सत्तधा उग्गहकोसल्लं आचिक्खितब्बं.

इमस्मिं हि पटिक्कूलमनसिकारकम्मट्ठाने योपि तिपिटको होति, तेनापि मनसिकारकाले पठमं वाचाय सज्झायो कातब्बो. एकच्चस्स हि सज्झायं करोन्तस्सेव कम्मट्ठानं पाकटं होति मलयवासी महादेवत्थेरस्स सन्तिके उग्गहितकम्मट्ठानानं द्विन्नं थेरानं विय. थेरो किर तेहि कम्मट्ठानं याचितो चत्तारो मासे इमंयेव सज्झायं करोथाति द्वत्तिंसाकारपाळिं अदासि. ते किञ्चापि नेसं द्वे तयो निकाया पगुणा, पदक्खिणग्गाहिताय पन चत्तारो मासे द्वत्तिंसाकारं सज्झायन्ताव सोतापन्ना अहेसुं. तस्मा कम्मट्ठानं कथेन्तेन आचरियेन अन्तेवासिको वत्तब्बो ‘‘पठमं ताव वाचाय सज्झायं करोही’’ति.

करोन्तेन च तचपञ्चकादीनि परिच्छिन्दित्वा अनुलोमपटिलोमवसेन सज्झायो कातब्बो. केसा लोमा नखा दन्ता तचोति हि वत्वा पुन पटिलोमतो तचो दन्ता नखा लोमा केसाति वत्तब्बं.

तदनन्तरं वक्कपञ्चके मंसं न्हारु अट्ठि अट्ठिमिञ्जं वक्कन्ति वत्वा पुन पटिलोमतो वक्कं अट्ठिमिञ्जं अट्ठि न्हारु मंसं, तचो दन्ता नखा लोमा केसाति वत्तब्बं.

ततो पप्फासपञ्चके हदयं यकनं किलोमकं पिहकं पप्फासन्ति वत्वा पुन पटिलोमतो पप्फासं पिहकं किलोमकं यकनं हदयं, वक्कं अट्ठिमिञ्जं अट्ठि न्हारु मंसं, तचो दन्ता नखा लोमा केसाति वत्तब्बं.

ततो मत्थलुङ्गपञ्चके अन्तं अन्तगुणं उदरियं करीसं मत्थलुङ्गन्ति वत्वा पुन पटिलोमतो मत्थलुङ्गं करीसं उदरियं अन्तगुणं अन्तं, पप्फासं पिहकं किलोमकं यकनं हदयं, वक्कं अट्ठिमिञ्जं अट्ठि न्हारु मंसं, तचो दन्ता नखा लोमा केसाति वत्तब्बं.

ततो मेदछक्के पित्तं सेम्हं पुब्बो लोहितं सेदो मेदोति वत्वा पुन पटिलोमतो मेदो सेदो लोहितं पुब्बो सेम्हं पित्तं, मत्थलुङ्गं करीसं उदरियं अन्तगुणं अन्तं, पप्फासं पिहकं किलोमकं यकनं हदयं, वक्कं अट्ठिमिञ्जं अट्ठि न्हारु मंसं, तचो दन्ता नखा लोमा केसाति वत्तब्बं.

ततो मुत्तछक्के अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्तन्ति वत्वा पुन पटिलोमतो मुत्तं लसिका सिङ्घाणिका खेळो वसा अस्सु, मेदो सेदो लोहितं पुब्बो सेम्हं पित्तं, मत्थलुङ्गं करीसं उदरियं अन्तगुणं अन्तं, पप्फासं पिहकं किलोमकं यकनं हदयं, वक्कं अट्ठिमिञ्जं अट्ठि न्हारु मंसं, तचो दन्ता नखा लोमा केसाति वत्तब्बं.

एवं कालसतं कालसहस्सं कालसतसहस्सम्पि वाचाय सज्झायो कातब्बो. वचसा सज्झायेन हि कम्मट्ठानतन्ति पगुणा होति, न इतो चितो च चित्तं विधावति. कोट्ठासा पाकटा होन्ति, हत्थसङ्खलिका विय वतिपादपन्ति विय च खायन्ति.

यथा पन वचसा, तथेव मनसापि सज्झायो कातब्बो. वचसा सज्झायो हि मनसा सज्झायस्स पच्चयो होति. मनसा सज्झायो लक्खणपटिवेधस्स पच्चयो होति.

वण्णतोति केसादीनं वण्णो ववत्थपेतब्बो.

सण्ठानतोति तेसञ्ञेव सण्ठानं ववत्थपेतब्बं.

दिसतोति इमस्मिं हि सरीरे नाभितो उद्धं उपरिमदिसा, अधो हेट्ठिमदिसा, तस्मा अयं कोट्ठासो इमिस्सा नाम दिसायाति दिसा ववत्थपेतब्बा.

ओकासतोति अयं कोट्ठासो इमस्मिं नाम ओकासे पतिट्ठितोति एवं तस्स तस्स ओकासो ववत्थपेतब्बो.

परिच्छेदतोति सभागपरिच्छेदो विसभागपरिच्छेदोति द्वे परिच्छेदा. तत्थ अयं कोट्ठासो हेट्ठा च उपरि च तिरियञ्च इमिना नाम परिच्छिन्नोति एवं सभागपरिच्छेदो वेदितब्बो. केसा न लोमा, लोमापि न केसाति एवं अमिस्सकतावसेन विसभागपरिच्छेदो वेदितब्बो.

एवं सत्तधा उग्गहकोसल्लं आचिक्खन्तेन पन इदं कम्मट्ठानं असुकस्मिं सुत्ते पटिक्कूलवसेन कथितं, असुकस्मिं धातुवसेनाति ञत्वा आचिक्खितब्बं. इदञ्हि महासतिपट्ठाने (दी. नि. २.३७७) पटिक्कूलवसेनेव कथितं. महाहत्थिपदोपम(म. नि. १.३०० आदयो) महाराहुलोवाद(म. नि. २.११३ आदयो) धातुविभङ्गेसु(म. नि. ३.३४२ आदयो) धातुवसेन कथितं. कायगतासतिसुत्ते (म. नि. ३.१५३) पन यस्स वण्णतो उपट्ठाति, तं सन्धाय चत्तारि झानानि विभत्तानि. तत्थ धातुवसेन कथितं विपस्सनाकम्मट्ठानं होति. पटिक्कूलवसेन कथितं समथकम्मट्ठानं. तदेतं इध समथकम्मट्ठानमेवाति.

१८१. एवं सत्तधा उग्गहकोसल्लं आचिक्खित्वा अनुपुब्बतो, नातिसीघतो, नातिसणिकतो, विक्खेपपटिबाहनतो, पण्णत्तिसमतिक्कमनतो, अनुपुब्बमुञ्चनतो, अप्पनातो, तयो च सुत्तन्ताति एवं दसधा मनसिकारकोसल्लं आचिक्खितब्बं. तत्थ अनुपुब्बतोति इदञ्हि सज्झायकरणतो पट्ठाय अनुपटिपाटिया मनसिकातब्बं, न एकन्तरिकाय. एकन्तरिकाय हि मनसिकरोन्तो यथा नाम अकुसलो पुरिसो द्वत्तिंसपदं निस्सेणिं एकन्तरिकाय आरोहन्तो किलन्तकायो पतति, न आरोहनं सम्पादेति, एवमेव भावनासम्पत्तिवसेन अधिगन्तब्बस्स अस्सादस्स अनधिगमा किलन्तचित्तो पतति, न भावनं सम्पादेति.

अनुपुब्बतो मनसिकरोन्तेनापि च नातिसीघतो मनसिकातब्बं. अतिसीघतो मनसिकरोतो हि यथा नाम तियोजनमग्गं पटिपज्जित्वा ओक्कमनविस्सज्जनं असल्लक्खेत्वा सीघेन जवेन सतक्खत्तुम्पि गमनागमनं करोतो पुरिसस्स किञ्चापि अद्धानं परिक्खयं गच्छति, अथ खो पुच्छित्वाव गन्तब्बं होति, एवमेव केवलं कम्मट्ठानं परियोसानं पापुणाति, अविभूतं पन होति, न विसेसं आवहति, तस्मा नातिसीघतो मनसिकातब्बं.

यथा च नातिसीघतो, एवं नातिसणिकतोपि. अतिसणिकतो मनसिकरोतो हि यथा नाम तदहेव तियोजनमग्गं गन्तुकामस्स पुरिसस्स अन्तरामग्गे रुक्खपब्बततळाकादीसु विलम्बमानस्स मग्गो परिक्खयं न गच्छति, द्वीहतीहेन परियोसापेतब्बो होति, एवमेव कम्मट्ठानं परियोसानं न गच्छति, विसेसाधिगमस्स पच्चयो न होति.

विक्खेपपटिबाहनतोति कम्मट्ठानं विस्सज्जेत्वा बहिद्धा पुथुत्तारम्मणे चेतसो विक्खेपो पटिबाहितब्बो. अप्पटिबाहतो हि यथा नाम एकपदिकं पपातमग्गं पटिपन्नस्स पुरिसस्स अक्कमनपदं असल्लक्खेत्वा इतो चितो च विलोकयतो पदवारो विरज्झति, ततो सतपोरिसे पपाते पतितब्बं होति, एवमेव बहिद्धा विक्खेपे सति कम्मट्ठानं परिहायति परिधंसति. तस्मा विक्खेपपटिबाहनतो मनसिकातब्बं.

पण्णत्तिसमतिक्कमनतोति यायं केसा लोमातिआदिका पण्णत्ति, तं अतिक्कमित्वा पटिक्कूलन्ति चित्तं ठपेतब्बं. यथा हि उदकदुल्लभकाले मनुस्सा अरञ्ञे उदपानं दिस्वा तत्थ तालपण्णादिकं किञ्चिदेव सञ्ञाणं बन्धित्वा तेन सञ्ञाणेन आगन्त्वा न्हायन्ति चेव पिवन्ति च. यदा पन नेसं अभिण्हसञ्चारेन आगतागतपदं पाकटं होति, तदा सञ्ञाणेन किच्चं न होति, इच्छितिच्छितक्खणे गन्त्वा न्हायन्ति चेव पिवन्ति च, एवमेव पुब्बभागे केसा लोमातिपण्णत्तिवसेन मनसिकरोतो पटिक्कूलभावो पाकटो होति. अथ केसा लोमातिपण्णत्तिं समतिक्कमित्वा पटिक्कूलभावेयेव चित्तं ठपेतब्बं.

अनुपुब्बमुञ्चनतोति यो यो कोट्ठासो न उपट्ठाति, तं तं मुञ्चन्तेन अनुपुब्बमुञ्चनतो मनसिकातब्बं. आदिकम्मिकस्स हि केसाति मनसिकरोतो मनसिकारो गन्त्वा मुत्तन्ति इमं परियोसानकोट्ठासमेव आहच्च तिट्ठति. मुत्तन्ति च मनसिकरोतो मनसिकारो गन्त्वा केसाति इमं आदिकोट्ठासमेव आहच्च तिट्ठति. अथस्स मनसिकरोतो मनसिकरोतो केचि कोट्ठासा उपट्ठहन्ति, केचि न उपट्ठहन्ति. तेन ये ये उपट्ठहन्ति, तेसु तेसु ताव कम्मं कातब्बं. याव द्वीसु उपट्ठितेसु तेसम्पि एको सुट्ठुतरं उपट्ठहति, एवं उपट्ठितं पन तमेव पुनप्पुनं मनसिकरोन्तेन अप्पना उप्पादेतब्बा.

तत्रायं उपमा – यथा हि द्वत्तिंसतालके तालवने वसन्तं मक्कटं गहेतुकामो लुद्दो आदिम्हि ठिततालस्स पण्णं सरेन विज्झित्वा उक्कुट्ठिं करेय्य, अथ खो सो मक्कटो पटिपाटिया तस्मिं तस्मिं ताले पतित्वा परियन्ततालमेव गच्छेय्य, तत्थपि गन्त्वा लुद्देन तथेव कते पुन तेनेव नयेन आदितालं आगच्छेय्य, सो एवं पुनप्पुनं परिपातियमानो उक्कुट्ठुक्कुट्ठिट्ठानेयेव उट्ठहित्वा अनुक्कमेन एकस्मिं ताले निपतित्वा तस्स वेमज्झे मकुळतालपण्णसूचिं दळ्हं गहेत्वा विज्झियमानोपि न उट्ठहेय्य, एवंसम्पदमिदं दट्ठब्बं.

तत्रिदं ओपम्मसंसन्दनं – यथा हि तालवने द्वत्तिंसताला, एवं इमस्मिं काये द्वत्तिंसकोट्ठासा. मक्कटो विय चित्तं. लुद्दो विय योगावचरो. मक्कटस्स द्वत्तिंसतालके तालवने निवासो विय योगिनो चित्तस्स द्वत्तिंसकोट्ठासके काये आरम्मणवसेन अनुसञ्चरणं. लुद्देन आदिम्हि ठिततालस्स पण्णं सरेन विज्झित्वा उक्कुट्ठिया कताय मक्कटस्स तस्मिं तस्मिं ताले पतित्वा परियन्ततालगमनं विय योगिनो केसाति मनसिकारे आरद्धे पटिपाटिया गन्त्वा परियोसानकोट्ठासेयेव चित्तस्स सण्ठानं. पुन पच्चागमनेपि एसेव नयो. पुनप्पुनं परिपातियमानस्स मक्कटस्स उक्कुट्ठुक्कुट्ठिट्ठाने उट्ठानं विय पुनप्पुनं मनसिकरोतो केसुचि केसुचि उपट्ठितेसु अनुपट्ठहन्ते विस्सज्जेत्वा उपट्ठितेसु परिकम्मकरणं. अनुक्कमेन एकस्मिं ताले निपतित्वा तस्स मज्झे मकुळतालपण्णसूचिं दळ्हं गहेत्वा विज्झियमानस्सपि अनुट्ठानं विय अवसाने द्वीसु उपट्ठितेसु यो सुट्ठुतरं उपट्ठाति, तमेव पुनप्पुनं मनसिकरित्वा अप्पनाय उप्पादनं.

अपरापि उपमा – यथा नाम पिण्डपातिको भिक्खु द्वत्तिंसकुलं गामं उपनिस्साय वसन्तो पठमगेहेयेव द्वे भिक्खा लभित्वा परतो एकं विस्सज्जेय्य. पुनदिवसे तिस्सो लभित्वा परतो द्वे विस्सज्जेय्य. ततियदिवसे आदिम्हियेव पत्तपूरं लभित्वा आसनसालं गन्त्वा परिभुञ्जेय्य. एवंसम्पदमिदं दट्ठब्बं. द्वत्तिंसकुलगामो विय हि द्वत्तिंसाकारो. पिण्डपातिको विय योगावचरो. तस्स तं गामं उपनिस्साय वासो विय योगिनो द्वत्तिंसाकारे परिकम्मकरणं. पठमगेहे द्वे भिक्खा लभित्वा परतो एकिस्सा विस्सज्जनं विय दुतियदिवसे तिस्सो लभित्वा परतो द्विन्नं विस्सज्जनं विय च मनसिकरोतो मनसिकरोतो अनुपट्ठहन्ते विस्सज्जेत्वा उपट्ठितेसु याव कोट्ठासद्वये परिकम्मकरणं. ततियदिवसे आदिम्हियेव पत्तपूरं लभित्वा आसनसालायं निसीदित्वा परिभोगो विय द्वीसु यो सुट्ठुतरं उपट्ठाति, तमेव पुनप्पुनं मनसिकरित्वा अप्पनाय उप्पादनं.

अप्पनातोति अप्पनाकोट्ठासतो केसादीसु एकेकस्मिं कोट्ठासे अप्पना होतीति वेदितब्बाति अयमेवेत्थ अधिप्पायो.

तयो च सुत्तन्ताति अधिचित्तं, सीतिभावो, बोज्झङ्गकोसल्लन्ति इमे तयो सुत्तन्ता वीरियसमाधियोजनत्थं वेदितब्बाति अयमेत्थ अधिप्पायो. तत्थ –

‘‘अधिचित्तमनुयुत्तेन, भिक्खवे, भिक्खुना तीणि निमित्तानि कालेनकालं मनसिकातब्बानि. कालेनकालं समाधिनिमित्तं मनसिकातब्बं. कालेनकालं पग्गहनिमित्तं मनसिकातब्बं. कालेनकालं उपेक्खानिमित्तं मनसिकातब्बं. सचे, भिक्खवे, अधिचित्तमनुयुत्तो भिक्खु एकन्तं समाधिनिमित्तञ्ञेव मनसिकरेय्य, ठानं तं चित्तं कोसज्जाय संवत्तेय्य. सचे, भिक्खवे, अधिचित्तमनुयुत्तो भिक्खु एकन्तं पग्गहनिमित्तञ्ञेव मनसिकरेय्य, ठानं तं चित्तं उद्धच्चाय संवत्तेय्य. सचे, भिक्खवे, अधिचित्तमनुयुत्तो भिक्खु एकन्तं उपेक्खानिमित्तञ्ञेव मनसिकरेय्य, ठानं तं चित्तं न सम्मा समाधियेय्य आसवानं खयाय. यतो च खो, भिक्खवे, अधिचित्तमनुयुत्तो भिक्खु कालेनकालं समाधिनिमित्तं पग्गहनिमित्तं उपेक्खानिमित्तं मनसिकरोति, तं होति चित्तं मुदुञ्च कम्मञ्ञञ्च पभस्सरञ्च, न च पभङ्गु, सम्मा समाधियति आसवानं खयाय.

‘‘सेय्यथापि, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा उक्कं बन्धति, उक्कं बन्धित्वा उक्कामुखं आलिम्पेति, उक्कामुखं आलिम्पेत्वा सण्डासेन जातरूपं गहेत्वा उक्कामुखे पक्खिपित्वा कालेनकालं अभिधमति, कालेनकालं उदकेन परिप्फोसेति, कालेनकालं अज्झुपेक्खति. सचे, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा तं जातरूपं एकन्तं अभिधमेय्य, ठानं तं जातरूपं डहेय्य. सचे, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा तं जातरूपं एकन्तं उदकेन परिप्फोसेय्य, ठानं तं जातरूपं निब्बायेय्य. सचे, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा तं जातरूपं एकन्तं अज्झुपेक्खेय्य, ठानं तं जातरूपं न सम्मा परिपाकं गच्छेय्य. यतो च खो, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा तं जातरूपं कालेनकालं अभिधमति, कालेनकालं उदकेन परिप्फोसेति, कालेनकालं अज्झुपेक्खति, तं होति जातरूपं मुदुञ्च कम्मञ्ञञ्च पभस्सरञ्च, न च पभङ्गु, सम्मा उपेति कम्माय. यस्सा यस्सा च पिळन्धनविकतिया आकङ्खति यदि पटिकाय यदि कुण्डलाय यदि गीवेय्याय यदि सुवण्णमालाय, तञ्चस्स अत्थं अनुभोति.

‘‘एवमेव खो, भिक्खवे, अधिचित्तमनुयुत्तेन…पे… समाधियति आसवानं खयाय. यस्स यस्स च अभिञ्ञा सच्छि करणीयस्स धम्मस्स चित्तं अभिनिन्नामेति अभिञ्ञा सच्छि किरियाय, तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सति आयतने’’ति (अ. नि. ३.१०३).

इदं सुत्तं अधिचित्तन्ति वेदितब्बं.

‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु भब्बो अनुत्तरं सीतिभावं सच्छिकातुं. कतमेहि छहि? इध, भिक्खवे, भिक्खु यस्मिं समये चित्तं निग्गहेतब्बं, तस्मिं समये चित्तं निग्गण्हाति. यस्मिं समये चित्तं पग्गहेतब्बं, तस्मिं समये चित्तं पग्गण्हाति. यस्मिं समये चित्तं सम्पहंसितब्बं, तस्मिं समये चित्तं सम्पहंसेति. यस्मिं समये चित्तं अज्झुपेक्खितब्बं, तस्मिं समये चित्तं अज्झुपेक्खति. पणीताधिमुत्तिको च होति निब्बानाभिरतो. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु भब्बो अनुत्तरं सीतिभावं सच्छिकातु’’न्ति (अ. नि. ६.८५).

इदं सुत्तं अनुत्तरं सीतिभावोति वेदितब्बं.

बोज्झङ्गकोसल्लं ‘‘पन एवमेव खो, भिक्खवे, यस्मिं समये लीनं चित्तं होति, अकालो तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाया’’ति (सं. नि. ५.२३४) अप्पनाकोसल्लकथायं दस्सितमेव.

इति इदं सत्तविधं उग्गहकोसल्लं सुग्गहितं कत्वा इदञ्च दसविधं मनसिकारकोसल्लं सुट्ठु ववत्थपेत्वा तेन योगिना उभयकोसल्लवसेन कम्मट्ठानं साधुकं उग्गहेतब्बं. सचे पनस्स आचरियेन सद्धिं एकविहारेयेव फासु होति, एवं वित्थारेन अकथापेत्वा कम्मट्ठानं सुट्ठु ववत्थपेत्वा कम्मट्ठानं अनुयुज्जन्तेन विसेसं लभित्वा उपरूपरि कथापेतब्बं. अञ्ञत्थ वसितुकामेन यथावुत्तेन विधिना वित्थारतो कथापेत्वा पुनप्पुनं परिवत्तेत्वा सब्बं गण्ठिट्ठानं छिन्दित्वा पथवीकसिणनिद्देसे वुत्तनयेनेव अननुरूपं सेनासनं पहाय अनुरूपे विहारे वसन्तेन खुद्दकपलिबोधुपच्छेदं कत्वा पटिक्कूलमनसिकारे परिकम्मं कातब्बं.

करोन्तेन पन केसेसु ताव निमित्तं गहेतब्बं. कथं? एकं वा द्वे वा केसे लुञ्चित्वा हत्थतले ठपेत्वा वण्णो ताव ववत्थपेतब्बो. छिन्नट्ठानेपि केसे ओलोकेतुं वट्टति. उदकपत्ते वा यागुपत्ते वा ओलोकेतुम्पि वट्टतियेव. काळककाले दिस्वा काळकाति मनसिकातब्बा. सेतकाले सेताति. मिस्सककाले पन उस्सदवसेन मनसिकातब्बा होन्ति. यथा च केसेसु, एवं सकलेपि तचपञ्चके दिस्वाव निमित्तं गहेतब्बं.

कोट्ठासववत्थापनकथा

१८२. एवं निमित्तं गहेत्वा सब्बकोट्ठासे वण्णसण्ठानदिसोकासपरिच्छेदवसेन ववत्थपेत्वा वण्णसण्ठानगन्धआसयोकासवसेन पञ्चधा पटिक्कूलतो ववत्थपेतब्बा.

तत्रायं सब्बकोट्ठासेसु अनुपुब्बकथा. केसा ताव पकतिवण्णेन काळका अद्दारिट्ठकवण्णा. सण्ठानतो दीघवट्टलिका तुलादण्डसण्ठाना. दिसतो उपरिमदिसाय जाता. ओकासतो उभोसु पस्सेसु कण्णचूळिकाहि, पुरतो नलाटन्तेन, पच्छतो गलवाटकेन परिच्छिन्ना. सीसकटाहवेठनं अल्लचम्मं केसानं ओकासो. परिच्छेदतो केसा सीसवेठनचम्मे वीहग्गमत्तं पविसित्वा पतिट्ठितेन हेट्ठा अत्तनो मूलतलेन, उपरि आकासेन, तिरियं अञ्ञमञ्ञेन परिच्छिन्ना, द्वे केसा एकतो नत्थीति अयं सभागपरिच्छेदो. केसा न लोमा, लोमा न केसाति एवं अवसेसएकतिंसकोट्ठासेहि अमिस्सीकता केसा नाम पाटियेक्को एककोट्ठासोति अयं विसभागपरिच्छेदो. इदं केसानं वण्णादितो ववत्थापनं.

१८३. इदं पन नेसं वण्णादिवसेन पञ्चधा पटिक्कूलतो ववत्थापनं. केसा नामेते वण्णतोपि पटिक्कूला. सण्ठानतोपि गन्धतोपि आसयतोपि ओकासतोपि पटिक्कूला.

मनुञ्ञेपि हि यागुपत्ते वा भत्तपत्ते वा केसवण्णं किञ्चि दिस्वा केसमिस्सकमिदं हरथ नन्ति जिगुच्छन्ति. एवं केसा वण्णतो पटिक्कूला. रत्तिं भुञ्जन्तापि केससण्ठानं अक्कवाकं वा मकचिवाकं वा छुपित्वापि तथेव जिगुच्छन्ति. एवं सण्ठानतो पटिक्कूला.

तेलमक्खनपुप्फधूपादि सङ्खारविरहितानञ्च केसानं गन्धो परमजेगुच्छो होति. ततो जेगुच्छतरो अग्गिम्हि पक्खित्तानं. केसा हि वण्णसण्ठानतो अप्पटिक्कूलापि सियुं, गन्धेन पन पटिक्कूलायेव. यथा हि दहरस्स कुमारस्स वच्चं वण्णतो हलिद्दिवण्णं, सण्ठानतोपि हलिद्दिपिण्डसण्ठानं. सङ्कारट्ठाने छड्डितञ्च उद्धुमातककाळसुनखसरीरं वण्णतो तालपक्कवण्णं. सण्ठानतो वट्टेत्वा विस्सट्ठमुदिङ्गसण्ठानं. दाठापिस्स सुमनमकुळसदिसाति उभयम्पि वण्णसण्ठानतो सिया अप्पटिक्कूलं गन्धेन पन पटिक्कूलमेव. एवं केसापि सियुं वण्णसण्ठानतो अप्पटिक्कूला गन्धेन पन पटिक्कूलायेवाति.

यथा पन असुचिट्ठाने गामनिस्सन्देन जातानि सूपेय्यपण्णानि नागरिकमनुस्सानं जेगुच्छानि होन्ति अपरिभोगानि, एवं केसापि पुब्बलोहितमुत्तकरीसपित्तसेम्हादिनिस्सन्देन जातत्ता जेगुच्छाति इदं नेसं आसयतो पाटिक्कुल्यं.

इमे च केसा नाम गूथरासिम्हि उट्ठितकण्णिकं विय एकतिंसकोट्ठासरासिम्हि जाता. ते सुसानसङ्कारट्ठानादीसु जातसाकं विय परिक्खादीसु जातकमलकुवलयादिपुप्फं विय च असुचिट्ठाने जातत्ता परमजेगुच्छाति इदं नेसं ओकासतो पाटिक्कुल्यं.