३९. बोधिराजधीतुया [बोधिराजधीताय इतिसब्बत्थ] वत्थुम्हि अयमानुपुब्बीकथा

भगवति परिनिब्बुते लङ्कायं सासने सुप्पतिट्ठिते तत्थ हकुरेळीति एको गामो अहोसि, तत्थेका दारिका गामादारिकाहि सद्धिं तत्थ तत्थ कीळन्ती विहरति, तदा गामसमीपे महासोब्भं होति. तत्थेको मरुत्थरुक्खो सब्बदा पाळिफुल्लोव तिट्ठति. मनुस्सा बुद्धपूजनत्थं पुप्फानि विचिणन्ता उदकं ओगहेत्वा रुक्खमभिरुय्ह पुप्फानि ओचिणन्ति, कुमारिका ते दिस्वा मनुस्सा सुखेन गन्त्वा पुप्फानि ओचिणन्तूति एकं सुक्खपालिभद्ददण्डकं आहरित्वा सेतुं कत्वा ठपेसि, ततो पट्ठाय मनुस्सा तेनगन्त्वा पुप्फानि ओचिणन्ति. अथ सा ततो चुता तेनेव कुसलकम्मेन जम्बुदीपे पाटलिपुत्तनगरे सोमदत्तरञ्ञो धीता हुत्वा निब्बत्ति, उत्तमरूपधरा देवच्छरपटिभागा अहोसि. मातापितरो पनस्सा बोधिराजकुमारिकाति वोहरिंसु. पुब्बे कतसेतुआनुभावेन तस्सा सुवीरको नामेको आकासगामी सिन्धवपोतको निब्बत्ति. राजधीतुया पन पिता बुद्धमामको धम्ममामको सङ्घमामको हुत्वा महन्तं पुञ्ञं पसवन्तो सिन्धवपोतकं दिस्वा पुञ्ञकरणस्स मे सहायो लद्धोति तुट्ठमानसो अस्सं अभिरुहित्वा दिवसस्स तिक्खत्तुं गन्त्वा महाबोधिं वन्दति. राजधीता नं दिस्वा पितुसन्तिकं गन्त्वा अभिण्हं तात कुहिं गच्छसीति पुच्छि. राजा न किञ्चि कथेसि, अथ सा पुनप्पुनं पितरं निबन्धन्ती पुच्छि. ततो राजा तस्सावि करोन्तो एवमाह.

१. अम्हाकं भगवा पुब्बे, पूरेन्तो दसपारमी;

अदासि सीसरत्तक्खि, मंसं जीवितमेव च.

२. पुत्तदारे च रज्जे च, पत्वा [दत्वा इतिपिकत्थचि] पारमिमत्थकं;

अनप्पकप्पकोटीनं, खेपेत्वा कपिलवुये.

३. सक्कराजकुले जातो, लोके अप्पटिपुग्गलो;

सम्पत्तचक्कवत्तित्तं, पहन्त्वान नराधिपो.

४. दिस्वा निमित्ते चतुरो, निक्खम्म अभिनिक्खमं;

बोधिमूलमुपागम्म, निसिन्नो वजिरासने.

५. सहस्सबाहुं मापेत्वा, नानायुधसमाकुलं [नानावुधसमाकुलं-इतिसब्बत्थ];

महाभीतिकरं वेसं, काळपब्बतसादिसं.

६. मापेत्वान समारुय्ह, गिरिमेखलवारणं;

मारसेनं समानेत्वा, आगतं मकरद्धजं.

७. पारमिताबलेन तं, मारसेनं पलापिय;

यत्थासीनो किलेसारि, सहस्सं घातयी जिनो.

८. नयनं सुजलसेकेहि, सत्ताहं जिनसेवितं;

पूजितं देवब्रह्मेहि, सिद्धोरगनरादिहि;

वन्दितुं जयबोधिंतं, गच्छामि सततं अहं.

९. उपासति सदा गन्त्वा, यो नरो बोधिपादपं;

गन्धोददीपधूपादि, नानापूजाहि साधुकं.

१०. स नरो निरामयो होति, पच्चत्ते च परत्थ च;

पूजितो मानितो होति, दीघायु बलवा सुखी.

११. तदत्थं पत्थयन्तेन, अत्थकामेन जन्तुना;

उपासनीयं सद्धाय, निच्चं तं बोधिपादपंति.

तं सुत्वा कुमारिका पीतिया फुटसरीरा पितरं वन्दित्वा अहम्पि तात गच्छामीति आह. राजा पनस्सा उपद्दवभयेन गमनं न इच्छि. ततो सा यावततियं पितरं याचित्वा रञ्ञा अनुञ्ञाता. ततो पट्ठाय पितरा सद्धिं सिन्धवमारुय्ह बोधिं वन्दितुं सततं गच्छति. अथापरभागे राजा मरणमञ्चे निपन्नो चिन्तेसि. धीता मे निरन्तरं बोधिउपट्ठानंगच्छति, एतिस्सा अनागते यंकिञ्चि भयं उप्पज्जमानं ततो उप्पज्जति. तत्थ मे किं कातब्बन्ति. ततो सिन्धवं पक्कोसापेत्वा तस्स कण्णमूले मन्तेन्तो एवमाह, तात मम धीता अभिण्हं तव सहायं कत्वा बोधिं वन्दितुं गच्छति. तत्थस्सा यंकिञ्चि भयं भवेय्य. तं नप्पतिरूपं. तत्थ गमनागमने मम धीतरं रक्खेय्यासीति तस्स धीतरं पटिपादेत्वा कालमकासि. ततो राजधीता पितुसरीरकिच्चं कारेत्वा दिवसस्स तिक्खत्तुं अस्समभिरुय्ह बोधिउपट्ठानं गच्छति. मनुस्सा पनस्सा रूपसम्पत्तिं दिस्वा विम्हितमानसा राजारहं वत नो इदं पण्णाकारं दिट्ठं. गन्त्वा रञ्ञो आचिक्खिस्साम. अप्पेव नाम राजा सो किञ्चि नो ददेय्याति चिन्तेत्वा रञ्ञो सन्तिकं गन्त्वा वन्दित्वा ठिता एवमाहंसु.

१२. बोधिमण्डं समागम्म, अभिण्हं तुट्ठमानसा;

वन्दन्ती याति कञ्ञेका, विज्जूव सिरिया जलं.

१३. नीलधम्पिल्लभारा सा, विसालायतलोचना;

सोण्णदोलाभसवणा, सामा सुभपयोधरा.

१४. सतरंसीहि सम्मिस्स, सञ्च्याम्बुदसमाधरा;

तुङ्गनासा नीलभमु, हासभासा मनोरमा.

१५. ईदिसं नो महाराजा [महाराजदिट्ठपुब्ब इतिपिकत्थचि], दिट्ठपुब्बं कुदाचनं;

एहि तस्सा सिरिंदेव, बोधिमण्डम्हि दक्खसीति.

तं सुत्वा राजा सवणसंसग्गेनेव ताय पटिबद्धचित्तो चतुरङ्गिनिंसेनं गहेत्वा राजधीतरं बोधिवन्दनत्थाय आगतकाले बहिपाकारे सेनं परिक्खिपापेत्वा गण्हथेतन्ति मनुस्से नियोजेसि. ततो सेनापि तं गहणसज्जा अट्ठासि. राजधीता ते दिस्वा सीघं सिन्धवं उपसङ्कमित्वा तस्स पिट्ठियं निसिन्ना पण्हिया सञ्ञं अदासि. सो तं गहेत्वा वेगेन आकासं पक्खन्दि. सा पन दुन्निसिन्नभावेन अस्सस्स वेगं सन्धारेतुमसक्कोन्ती अस्सपिट्ठितो परिगलि. सिन्धवो राजधीतरं पतमानं दिस्वा राजोवादं सरमानो वेगेनागन्त्वा तस्सा केसे डंसित्वा उक्खिपित्वा पतमानाय तस्सा पिट्ठिंदत्वा निसीदापेत्वा आकासेन तं नेत्वा पाटलिपुत्तनगरेयेव पतिट्ठापेसि [पातलिपुत्तनगरेयेवतं पविठापेसिइतिपिकत्थचि].

१६. तिरच्छानगतापेवं, सरन्ता उपकारकं;

न जहन्तीति मन्त्वान, कतञ्ञू होन्तु [होन्तिपाणिनो-इतिपिकत्थचि] पाणिनोति.

ततो पट्ठाय सा पुञ्ञकम्मं कत्वा सग्गपरायना अहोसीति.

१७. यो यं दुमिन्दंयतिनन्दनेन;

सम्पूजितं पूजयते स पञ्ञो;

स भोगवा होति अनीतिको च,

सब्बत्थ सो होति पसत्थरूपो.

बोधिराजधीतुया वत्थुं नवमं.