३८. तेभातिकमधुवाणिजकानं वत्थुम्हि अयमानुपुब्बीकथा

अतीते किर बाराणसियं ते भातिका एकतो हुत्वा मधुं विक्किणन्ता पुत्तदारे पोसेन्ति. ततो तेसु एको पच्चन्तं गन्त्वा मलयवासीनं [मलवासीनं इतिपिकत्थचि] हत्थतो मधुं किणित्वा [वक्किणित्वा इतिसब्बत्थ] गण्हाति, एको गहितगहितमधुं नगरं आहरति. एको तेन आहटाहटमधूनि बाराणसियं निसीदित्वा विक्किणाति. तस्मिं समये गन्धमादनपब्बते एको पच्चेकबुद्धो वणरोगेना तुरो अहोसि. अथञ्ञतरो पच्चेकबुद्धो तस्स मधुना फासु भविस्सतीति ञत्वा गन्धमादनपब्बतेयेव ठितो चीवरं पारुपित्वा आकासेना गन्त्वा नगरद्वारे ओतरित्वा कत्थ मधुं लभामीति [लब्भति इतिसब्बत्थ] ओलोकेन्तो अट्ठासी, तदा तस्मिंपरकुले भतिं कत्वा जीवमाना एका चेटिका घटमादाय उदकत्थं तित्थं गच्छन्ती मग्गा ओक्कम्म घटं ठपेत्वा वन्दित्वा एकमन्तं अट्ठासि, तदा पच्चेकबुद्धो भगिनी एत्थ भिक्खाय चरन्तानं कतरस्मिं ठाने मधु लब्भतीति पुच्छि. सा तस्स कथं सुत्वा मधुआपणस्स पञ्ञायनट्ठाने ठत्वा हत्थं पसारेत्वा एस भन्ते मधुआपणोति दस्सेत्वा यज्जायं पच्चेकबुद्धो आपणतो मधुं न लभति. मम निवत्थवत्थकं दत्वापि मधुं दस्सामीति चिन्तेत्वा ओलोकेन्ती तत्थेव अट्ठासि, अथ पच्चेकबुद्धो अनुपुब्बेन विचरन्तो [चरन्तो इतिपिकत्थचि] मधुआपणं सम्पापुणि, ततो कुटिम्बिको [कुटिम्ब को इतिपिकत्थचि] तं दिस्वा हत्थतो पत्तं गहेत्वा आधारके ठपेत्वा मधुघटं आदाय पत्तस्स उपनामेन्तो सहसा निक्कुज्जि. ततो मधु पत्तं पूरेत्वा उत्तरन्तो पुन भूमियं पग्घरि. तं दिस्वा सोमनस्सो वाणिजो एवं पत्थनमकासि.

वुत्तञ्हि महावंसे.

१. तत्थ पत्तस्स बुद्धस्स, वाणिजो सो पसादवा;

विस्सन्दयन्तो मुखतो, पत्तपूरं मधुं अदा.

२. पुण्णञ्च उप्पतीतञ्च, पतितञ्च महीतले;

दिस्वा मधुं पसन्नो सो, एवं पणिदही तदा.

३. जम्बुदीपे एकरज्जं, दानेनानेन होतु मे;

आकासे योजने आणा, भूमियं योजनेपिति.

एवञ्च पन वत्वा पत्तं अदासि, पच्चेकबुद्धो पत्तं पटिग्गहेत्वा तत्थेव ठितो.

४. इच्छितं पत्थितं तुय्हं, खिप्पमेव समिज्झतु;

पूरेन्तु चित्थसंकप्पा, चन्दो पण्णरसो यथा.

५. इच्छितं पत्थितं तुय्हं, सब्बमेव समिज्झतु;

पूरेन्तु चित्तसंकप्पा, मणिजोतिरसो यथाति.

वत्वा मङ्गलं वड्ढेत्वा अगमासि. अथन्तरामग्गे ठिता घटचेटिका पच्चेकबुद्धाभिमुखं गन्त्वा मधुं लभित्थ भन्तेति पुच्छि. तेन लद्धं भगिनीति वुत्ते किं वत्वा सो अदासीति पुच्छि. पच्चेकबुद्धो सब्बं कथेसि. सा तं सुत्वा थोकं भन्ते इधेव होथ दासिया अनुग्गहत्थायाति सीघं गेहं गन्त्वा निवत्थपिळोतिका अत्तनो साटकं धोवित्वा आहरित्वा चुम्बटकं कत्वा पच्चेकबुद्धस्स अदासि, यदा सो भन्ते मधुदायको सकलजम्बुदीपे एकरज्जं कारेति. तदाहं तस्स अग्गमहेसी भवेय्यंति वत्वा पत्थनं करोन्तीएवमाह.

६. यदा ते मधुदो भन्ते, भूभुजो होति भूतले;

तस्स हेस्सं तदा भन्ते, पिया अग्गमहेसिका.

७. सुरूपाच सुवाणीच, सुयसा सुब्बता सुभा;

अस्सं तस्स पियाचाथ, मनापा इच्छदा [इच्छिदा इतिपिकत्थचि] सदाति.

तस्सापि तदा पच्चेकबुद्धो तथेव होतूति मङ्गलं वत्वा आकासेन गन्धमादनमेव अगमासि, अथापरभागे ते तयोपि एकतो हुत्वा मधुलोकनं करोन्ता तं मधुघटं कुहिंति पुच्छिंसु, सो तेनत्तना कतकम्मं वत्वा सचे तुम्हे तस्मिं पत्तिं अनुमोदेय्याथ, तं साधु. नो चे. मधुअग्घनकं मम हत्थतो गण्हथाति वत्वा तेहि ततो न नो अत्थो [ननोहत्थो इतिसब्बत्थ] मधुना, कीदिसस्सेतं अदासीति वुत्ते तं सुत्वा इतरो पच्चेकबुद्धा नामे ते गन्धमादने वसन्ति कासावं पारुपित्वा कुले कुले भिक्खं चरन्ति, सन्तो एते सीलवन्ताति कथेसि, अथ तेसु जेट्ठो ब्राह्मणचण्डालकापि कासावं परिदहित्वा चरन्ति. नूनायं चण्डालकोति मञ्ञामीति आह, मज्झिमो कुज्झित्वा तव पच्चेकबुद्धं परसमुद्दे खिपाहीति अवोच, अथ तेसं कथं सुत्वा मधुदायको मा भो तुम्हे अरियानं महेसक्खानं महानुभावानं पच्चेकबुद्धानं फरुसं कथेथ. निरयदुक्खा न भायथातिआदिना अनेका कारेन निवारेत्वा तेसं गुणं पकासेसि, तं सुत्वा ते उभोपि साधूति पसन्नाचित्ता अनुमोदिंसु, अपरभागे ते कालं कत्वा देवमनुस्सेसु संसरन्ता तत्थ तत्थ महासम्पत्तियो अनुभवित्वा अम्हाकं सत्थु परिनिब्बाणतो द्विन्नं वस्ससतानं अच्चयेन अत्तनो अत्तनो सम्पत्तट्ठाने निब्बत्तिंसु. तेन वुत्तं.

८. असोको मधुदो सन्धि, मित्तादेवी तु चेटिका;

चण्डालवादी निग्रोधो, तिस्सो सो पारवादिकोति.

तेसु चण्डालवादी जेट्ठवाणिजो बिन्दुसाररञ्ञो जेट्ठपुत्तस्स सुमनराजकुमारस्स पुत्तो हुत्वा निब्बत्ति. तस्सायमानुपुब्बीकथा. बिन्दुसाररञ्ञो किर दुब्बलकालेयेव असोककुमारो अत्तना लद्धं उज्जेनिया रज्जं पहाय आगन्त्वा सब्बनगरं अत्तनो हत्थगतं कत्वा सुमनराजकुमारं अग्गहेसि. तं दिवसमेव सुमनस्स राजकुमारस्स सुमना नाम देवी परिपुण्णगब्भा अहोसि. सा अञ्ञातकवेसेन निक्खमित्वा अविदूरे अञ्ञतरं चण्डालगामं सन्धाय गच्छन्ती जेट्ठकचण्डालस्स गेहतो अविदूरे निग्रोधो अत्थि, तस्मिं रुक्खे अधिवत्थाय देवताय इतो एहि सुमनेति वदन्तिया सद्दं सुत्वा तस्सा समीपं गता, देवता अत्तनो आनुभावेन एकं सालं निम्मिणित्वा एत्थ वसाहीति पादासि. सा तं सालं पाविसि, गतदिवसेयेव सा पुत्तं विजायि. सा तस्स निग्रोधदेवताय परिग्गहितत्ता निग्रोधोत्वेव नामं अकासि. जेट्ठकचण्डालो दिट्ठदिवसतोप्पभुति तं अत्तनो सामिधीतरं विय मञ्ञमानो निबद्धवत्तं पट्ठपेसि. राजधीता तत्थ सत्तवस्सानि वसि, निग्रोधकुमारोपि सत्तवस्सिको जातो, तदा महावरुणत्थेरो नाम एको अरहा दारकस्स हेतुसम्पदं दिस्वा विहरमानो सत्तवस्सिको दानि दारको. कालो नं पब्बाजेतुंति चिन्तेत्वा राजधीताय आरोचापेत्वा निग्रोधकुमारं पब्बाजेसि, कुमारो खुरग्गेयेव अरहत्तं पापुणि. तेन वुत्तं महावंसे.

९. तं महावरुणो थेरो, तदा दिस्वा कुमारकं;

उपनिस्सयसम्पन्नं, अरहा पुच्छि मातरं;

पब्बाजेसि खुरग्गे सो, अरहत्तमपापुणीति.

सो किर एकदिवसं पातोव सरीरं पटिजग्गित्वा आचरियुपज्झायवत्तं कत्वा पत्तचीवर मादाय मातुउपासिकाय गेहद्वारं गच्छामीति निक्खमि. मातुनिवासट्ठानञ्चस्स दक्खिणद्वारेन नगरं पविसित्वा नगरमज्झेन गन्त्वा पाचीनद्वारेन निक्खमित्वा गन्तब्बं होति. तेन च समयेन असोको धम्मराजा पाचीनदिसाभिमुखो सीहपञ्जरे चङ्कमति. तं खणंयेव निग्रोधो राजङ्गणं सम्पापुणि सन्तिन्द्रियो सन्तमानसो युगमत्तं पेक्खमानो, तेन वुत्तं एकदिवसं सीहपञ्जरे ठितो अद्दस निग्रोधं सामणेरं राजङ्गणेन गच्छन्तं दन्तं गुत्तं सन्तिन्द्रियं इरियापथसम्पन्नन्ति. दिस्वा पनस्स एतदहोसि. अयं जनो सब्बोपि विक्खित्तचित्तो भन्तमिगपटिभागो. अयं पन दहरको अविक्खित्तो अतिवियस्स आलोकितविलोकितं सम्मिञ्जनपसारणञ्च सोभति. अद्धा एतस्सब्भन्तरे लोकुत्तरधम्मो भविस्सतीति रञ्ञो सह दस्सनेनेव सामणेरे चित्तं पसीदि, पेमं सण्ठहि, कस्मा. पुब्बे किर पुञ्ञकरणकाले रञ्ञो जेट्ठकभाता वाणिजकोयं.

१०. पुब्बेव [पुब्बेन इतिकत्थचि] सन्निवासेन, पच्चुप्पन्नहितेन वा;

एवं तं जायते पेमं, उप्पलंव यथोदकेति.

अथ राजा सञ्जातपेमो सबहुमानो सामणेरं पक्कोसथाति अमच्चे पेसेसि, ते अतिचिरायन्तीति पुन द्वे तयो पेसेसि तुरितं आगच्छतूति. सामणेरो अत्तनो पकतिया एव अगमासि. राजा पतिरूपासनं ञत्वा निसीदथाति आह. सो इतोचितो च विलोकेत्वा नत्थि दानि अञ्ञो भिक्खूति समुस्सितसेतच्छत्तं राजपल्लङ्कं उपसङ्कमित्वा पत्तं गण्हनत्थाय रञ्ञो आकारं दस्सेसि. राजा तं पल्लङ्कसमीपं गच्छन्तं एव दिस्वा चिन्तेसि अज्जेव दानि अयं सामणेरो इमस्स गेहस्स सामिको भविस्सतीति, सामणेरो रञ्ञो हत्थे पत्तं दत्वा पल्लङ्कं अभिरुहित्वा निसीदि. राजा अत्तनो अत्थाय सम्पादितं सब्बं यागुखज्जकभत्तविकतिं उपनामेसि. सामणेरो अत्तनो यापनमत्तमेव सम्पटिच्छि. भत्तकिच्चावसाने राजा आह सत्थारा तुम्हाकं दिन्नओवादं जानाथाति. जानामि महाराज एकदेसेनाति. तात मय्हम्पी नं कथेहीति. साधु महाराजाति रञ्ञो अनुरूपं धम्मपएद अप्पमादवग्गं अनुमोदनत्थाय अभासि. राजा पन अप्पमादो अमतपदं, पमादो मच्चुनो पदंति सुत्वाव अञ्ञातं तात, परियोसापेहीति आह. सामणेरो अनुमोदना वसाने द्वत्तिंसधुवभत्तानि [द्वित्तिंसधुरभत्तानि इतिसब्बत्थ] लभित्वा पुन दिवसे द्वत्तिंसभिक्खू गहेत्वा राजन्तोपुरं पविसित्वा भत्तकिच्च मकासि. राजा अञ्ञेपि द्वत्तिंसभिक्खू तुम्हेहि सद्धिंस्वे भिक्खं गण्हन्तूति एतेनेव उपायेन दिवसे दिवसे वड्ढापेन्तो सट्ठिसहस्सानं ब्राह्मणपरिब्बाजकानं भत्तं उपच्छिन्दित्वा अन्तोनिवेसने सट्ठिसहस्सानं भिक्खूनं निच्चभत्तं पट्ठपेसि निग्रोधत्थेरगतेनेव पसादेन. निग्रोधत्थेरोपि राजानं सपरिसं तीसु सरणेसु पञ्चसु सीलेसु पतिट्ठापेत्वा बुद्धसासने पोथुज्जनिकेन पसादेन अचलप्पसादं कत्वा पतिट्ठापेसि. राजापि असोकारामं नाम महाविहारं कारापेत्वा सट्ठिसहस्सानं भिक्खूनं निच्चभत्तं पट्ठपेसि. सकलजम्बुदीपे चतुरासीतिया नगरसहस्सेसु चतुरासीतिविहारसहस्सानि कारापेसि. तेन वुत्तं.

११. चण्डालवादिदोसेन,

जातो चण्डालगामके;

पत्तानुमोदना पाका,

आसे सो [असेसो इतिपिकत्थचि] हि अनासवोति.

अयं निग्रोधत्थेरस्स कथानयो.

मधुदायको पन वाणिजो देवलोकतो चवित्वा पुप्फपुरे राजकुले उप्पज्जित्वा पियदासो नाम कुमारो हुत्वा छत्तं उस्सापेत्वा सकलजम्बुदीपे एकरज्जं अकासि. कथं.

बिन्दुसारराजस्स एकसतपुत्ता अहेसुं. ते सब्बे असोको अत्तना सद्धिं एकमातिकं तिस्सकुमारं ठपेत्वा घातेसि. घातेन्तो चत्तारि वस्सानि अनभिसित्तोव रज्जं कारेत्वा चतुन्नं वस्सानं अच्चयेन तथागतस्स परिनिब्बाणतो द्विन्नं वस्ससतनं उपरि अट्ठारसमे वस्से सकलजम्बुदीपे एकरज्जाभिसेकं पापुणि. अथ तं सकलजम्बुदीपे चतुरासीतिनगरसहस्से राजानो आगन्त्वा उपट्ठहिस्सन्ति. तिण्णं उतूनं अनुच्छविका तयो पासादा अहेसुं. एको महासप्पिको, एको मोरगीवो, एको मङ्गलो नाम, तेसु नेकनाटकसहस्सपरिवुतो पटिवसति. यास्स मधुआपणं दस्सेसि, सा असन्धिमित्ता नाम देवच्छरपरिभागा राजधीता हुत्वा सट्ठिसहस्सानं इत्थीनं जेट्ठिका धम्मासोकरञ्ञो अग्गमहेसी अहोसि. अभिसेकानन्तरं तस्स इमा राजिद्धियो आगता, पथविया च हेट्ठा योजनप्पमाणे आणा पवत्तति. तथा उपरि आकासे. अनोतत्तदहतो अट्ठहि काजेहि सोळसपानीयघटे दिवसे दिवसे देवता आहरन्ति. यतो सासने उप्पन्नसद्धो हुत्वा अट्ठघटे भिक्खुसङ्घस्स अदासि. द्वे घटे सट्ठिमत्तानं तेपिटकभिक्खूनं द्वे घटे अग्गमहेसिया असन्धिमित्ताय. चत्तारो घटे अत्तना परिभुञ्चि देवता [देवताएवं इतिसब्बत्थ], एव हिमवन्ततो नागलतादन्तकट्ठं सिनिद्धं मुदुकं रसवन्तं दिवसे दिवसे आहरन्ति, तेन रञ्ञो च महेसिया च सोळसन्नं नाटकसहस्सानञ्च सट्ठिमत्तानञ्च भिक्खुसहस्सानं देवसिकं दन्तपोणकिच्चं निप्फज्जति. देवसिकमेवस्स देवता अगदामलकं अगदहरीटकं सुवण्णवण्णञ्च गन्धरससम्पन्नं अम्बपक्कं आहरन्ति. छद्दन्तदहतो पञ्चवण्णं निवासनपारुपनं पीतकवण्णं हत्थपुञ्छनकपटं [हत्थपुच्छनकपट्टं इतिसब्बत्थ] दिब्बञ्च पानं आहरन्ति. देवसिकमेवस्स अनुलेपनगन्धं पारुपनत्थाय असुत्तमयिकं सुमनपुप्फपटं महारहञ्ज अञ्जनं नागभवनतो नागराजानो आहरन्ति. छद्दन्तदहतोयेव उट्ठितस्स सालिनो नववाहसहस्सनि दिवसे दिवसे सुवा आहरन्ति. ते मूसिका नित्थुसकानि करोन्ति. एकोपि खण्डतण्डुलो नाहोसि. रञ्ञो सब्बट्ठानेसु अयमेव तण्डुलो परिभोगं गच्छति. मधुमक्खिका मधुं करोन्ति. कम्मारसालासु अच्छा कूटं पहरन्ति. करवीकसकुणा आगन्त्वा मधुरस्सरं विकूजेन्ता रञ्ञो बलिकम्मं करोन्ति. इमाहि इद्धीहि समन्नागतो राजा एकदिवसं सुवण्णसङ्खलिकबन्धनं पेसेत्वा चतुन्नं बुद्धानं अधिगतरूपदस्सनं कप्पा युकं महाकालनागराजानं आनयित्वा सेतच्छत्तस्स हेट्ठा महारहे पल्लङ्के निसीदापेत्वा अनेकसत वण्णेहि जलजथलजपुप्फेहि सुवण्णपुप्फेहि च पूजं कत्वा सब्बा लङ्कारपतिमण्डितेहि सोळसहि नाटकसहस्सेहि समन्ततो परिक्खिपित्वा अनन्तञाणस्स ताव मे सद्धम्मवरचक्कवत्तिनो सम्मासम्बुद्धस्स [सम्मासम्बुद्धरूपं इतिसब्बत्थ] रूपं इमेसं अक्खीनं आपाथं करोहीति वत्वा तेन निम्मितं सकलसरीरे विप्पकिण्णपुञ्ञप्पभावनिब्बत्तासीति अनुब्यञ्जनपतिमण्डित द्वत्तिंस महापुरिसलक्खण सस्सिरीकताय विकचकमलुप्पलपुण्डरीकपतिमण्डितमिव सलिलतलं तारागणरंसिजालविसरविप्फुरितसोभासमुज्जलमिव गगनतलं नीलपीतलोहिता दिभेदं विचित्तवण्णरंसिविनद्धब्यामप्पभापरिक्खेपविलासिताय सञ्च्याप्पभानुरागइन्दधनुविज्जुल्लतापरिक्खित्तमिव कणकगिरिसिखरं नानाविरागविमलकेतुमालासमुज्जलितचारुमत्थकसोभनं नयनरसायनमिव च ब्रह्मदेवमनुजनागयक्खगणानं बुद्धरूपं पस्सन्तो सत्तदिवसानि अक्खिपूजं नाम अकासि. राजा किर अभिसेकं पापुणित्वा तीणियेव संवच्छरानि बाहिरकपासण्डं परिगण्हि, चतुत्थे संवच्छरे बुद्धसासने पसीदि, तस्स पन पिता बिन्दुसारो ब्राह्मणभत्तो अहोसि. सो ब्राह्मणानञ्च ब्राह्मणजातिपासण्डानं पण्डरङ्गपरिब्बाजकानञ्च सट्ठिसहस्समत्तानं निच्चभत्तं पट्ठपेसि. असोकोपि पितरा पवत्तितं दानं अत्तनो अन्तोपुरे [अन्तेपुरे इतिसब्बत्थ] तथेव ददमानो एकदिवसं सीहपञ्जरे ठितो ते उपसमपरिबाहिरेन आचारेन भुञ्जमाने असंयतिन्द्रिये अविनीतइरियापथे दिस्वा चिन्तेसि, ईदिसं दानं उपपरिक्खित्वा युत्तट्ठाने दातुं वट्टतीति. एवं चिन्तेत्वा अमच्चे आह, गच्छथ भणे अत्तनो अत्तनो साधुसम्मते समणब्राह्मणे अन्तोपुरं अभिहरथ दानं दस्सामीति, अमच्चा साधु देवाति रञ्ञो पटिस्सुत्वा ते ते पण्डरङ्गपरिब्बाजका जीवक निगण्ठादयो आनेत्वा इमे महाराज अम्हाकं अरहन्तोति आहंसु, अथ राजा अन्तोपुरे उच्चावचानि आसनानि पञ्ञापेत्वा आगच्छन्तूति वत्वा आगतागते आह अत्तनो अनुरूपे आसने निसीदथाति, एकच्चे भद्दपीठकेसु एकच्चे फलकपीठकेसु निसीदिंसु, तं दिस्वा राजा नत्थि एतेसं अन्तो सारोति ञत्वा तेसं अनुरूपं खादनीयभोजनीयं दत्वा उय्योजेसि. एवं गच्छन्ते काले एकदिवसं सीहपञ्जरे ठितो निग्रोधसामणेरं दिस्वा तस्मिं गतेन पसादेन बुद्धसासने पसन्नो सट्ठिसहस्समत्ते पासण्डिये अपनेत्वा सट्ठिसहस्समत्ते भिक्खू भोजेन्तो बुद्धसासने पसीदित्वा असोकारामं कारेत्वा तत्थ ते वसापेन्तो एकदिवसं असोकारामे सट्ठिसहस्सभिक्खूनं दानं दत्वा तेसं मज्झे निसज्ज सङ्घं चतूहि पच्चयेहि पवारेत्वा इमं पञ्हं पुच्छि, भन्ते भगवता देसितधम्मो नाम कित्तको होतीति, महाराज नव अङ्गानि, खन्धतो चतुरासीतिधम्मक्खन्धसहस्सानीति. राजा धम्मे पसीदित्वा एकेकं धम्मक्खन्धं एकेकविहारेन पूजेस्सामीति एकदिवसमेव छन्नवुतिकोटिखनं विस्सज्जेत्वा अमच्चे आणापेसि, एकमेकस्मिं नगरे एकमेकं विहारं कारेन्ता चतुरासीतिया नगरसहस्सेसु चतुरासीतिविहारसहस्सानि कारापेथाति, सयञ्च असोकारामे असोकमहाविहारत्थाय [सयंचअसोकहोविहारत्थाय इतिपिकत्थचि] कम्मं पट्ठपेसि, सङ्घो इन्दगुत्तत्थेरं नाम महिद्धिकं महानुभावं खीणासवं नवकम्माधिट्ठायकं अदासि, थेरो यं यं न निट्ठाति, तं तं अत्तनो आनुभावेन निट्ठापेसि, एवंपितीहि संवच्छरेहि विहारकम्मं निट्ठापेसि, एकदिवसमेव सब्बनगरेहि पण्णानि आगमिंसु, अमच्चा रञ्ञो आरोचेसुं निट्ठितानि देव चतुरासीतिमहाविहारसहस्सानीति. अथ राजा भिक्खुसङ्घं उपसङ्कमित्वा भन्ते मया चतुरासीतिविहारसहस्सानि कारितानि, धातुयो कुतो लच्छामीति पुच्छि, महाराज धातुनिधानं नाम अत्थीति सुणोम, न पन पञ्ञायति असुकट्ठानेति. राजा राजगहे चेतियं भिन्दापेत्वा धातुं अपस्सन्तो पटिपाकतिकं कारापेत्वा भिक्खुभिक्खुणियो उपासकउपासिकायोति चतस्सो परिसा गहेत्वा वेसालियं गतो. तत्रापि अलभित्वा कपिलवत्थुं गतो, तत्रापि अलभित्वा रामगामं गतो, रामगामे नागा चेतियं भिन्दितुं नादंसु. चेतिये निपतितकुद्दालो खण्डावण्डं होति, एवं तत्रापि अलभित्वा अल्लकप्पं पावं कुसिनारंति सब्बचेतियानि भिन्दित्वा धातुं अलभित्वा पटिपाकतिकानि कत्वा राजगहं गन्त्वा चतस्सो परिसा सन्निपातापेत्वा अत्थि केनचि सुतपुब्बं असुकट्ठाने धातुनिधानंति पुच्छि. तत्थेको वीसंवस्स सतिको थेरो असुकट्ठाने धातुनिधानंति न जानामि, मय्हं पन पितामहत्थेरो मयि सत्तवस्सिकाले मालाचङ्गोटकं गाहापेत्वा एहि सामणेर असुकगच्छन्तरे पासाणथूपो अत्थि. तत्थ गच्छामाति गन्त्वा पूजेत्वा इमं ठानं उपधारेतुं वट्टति सामणेराति आह. अहं एतमेव जानामि महाराजाति आह. राजा एतदेव ठानंति वत्वा गच्छे हरापेत्वा पासाणथूपं पंसुंच अपनेत्वा हेट्ठा सुधाभूमिं अद्दस, ततो सुधा च इट्ठकायो च हरापेत्वा अनुपुब्बेन परिवेणं ओरुय्ह सत्तरतनवालिकं असिहत्थानि च कट्ठरूपकानि सम्परिवत्तन्तानि अद्दस, सो यक्खदासके पक्कोसापेत्वा बलिकम्मं कारापेत्वापि नेव अन्तं पस्सन्तो देवता नमस्समानो अहं इमा धातुयो गहेत्वा चतुरासीतिविहारसहस्से निदहित्वा सक्कारं करोमि. मा मे देवता अन्तरायं करोन्तूति आह, सक्को देवराजा चारिकं चरन्तो तं दिस्वा विस्सकम्मं आमन्तेत्वा तात असोकधम्मराजा धातुयो नीहरिस्सामीति परिवेणं ओतिण्णो. गन्त्वा कट्ठरूपानि नीहरापेहीति. सो पञ्चचूलकगामदारकवेसेन गन्त्वा रञ्ञो पुरतो धनुकहत्थो ठत्वा हारेमि महाराजाति आह, हर ताताति सरं गहेत्वा सन्धिम्हियेव विज्झि, सब्बं विप्पकिरीयित्थ, अथ राजा आविञ्जने [अविञ्चिने इतिपिकत्थचि] बन्धकुञ्चिकमुद्दिकं गण्हि, मणिक्खन्धं पस्सित्वा अनागते दळिद्दराजानो इमं मणिं गहेत्वा धातूनं सक्कारं करोन्तूति पण्णे अक्खरानि दिस्वा कुज्झित्वा मादिसानं पन राजूनं [राजानं इतिसब्बत्थ] दळिद्दराजाति वत्तुं अयुत्तंति पुनप्पुनं घटेत्वा द्वारं विवरित्वा अन्तोगेहं पविट्ठो अट्ठारसवस्साधिकानं द्विन्नं वस्ससतानं उपरि आरोपितदीपा तथेव पज्जलन्ति, नीलुप्पलपुप्फानि तंखणंयेव आहरित्वा आरोपितानि विय पुप्फसन्थारो तं खणं सन्थतो विय गन्धा तं मुहुत्तं पिंसित्वा ठपिता विय अहेसुं. राजा सुवण्णपट्टं गहेत्वा अनागते पियदासो नाम कुमारो छत्तं उस्सापेत्वा असोको नाम धम्मराजा भविस्सति, सो इमा धातुयो वित्थारिता करिस्सतीति वाचेत्वा दिट्ठोहं अय्येन महाकस्सपत्थेरेनाति वत्वा वामहत्थं आभुजित्वा दक्खिणहत्थेन अप्फोटेसि. सो तस्मिं ठाने परिचरणकधातुमत्तमेव ठपेत्वा सेसधातुयो सब्बा गहेत्वा धातुघरं पुब्बे पिहितनयेनेव पिदहित्वा सब्बा यथा पकतियायेव कारेत्वा उपरिपासाणचेतियं पतिट्ठापेत्वा चतुरासीतिया विहारसहस्सेसु धातुयो पतिट्ठापेसि. अथेकदिवसं राजा विहारं गन्त्वा भिक्खुसंघं वन्दित्वा एकमन्ते निसिन्नो यदि भन्ते छन्नवुतिकोटिधनं विस्सज्जेत्वा चतुरासीतिविहारसहस्सानिसचेतियानि कारापेत्वापि अहं न दायादो. अञ्ञो को दायादोति, पच्चयदायको नाम त्वं महाराज, यो पन अत्तनो पुत्तञ्च धीतरञ्च पब्बाजेति, अयं सासने दायादो नामाति एवं वुत्ते असोको राजा सासने दायादभावं पत्थयमानो अविदूरे ठितं महिन्दकुमारं दिस्वा सक्खिस्ससि तात त्वं पब्बजितुंति आह. कुमारो पकतिया पब्बजितुकामो रञ्ञो वचनं सुत्वा अतिविय पामोज्जजातो पुब्बजामि [पब्बज्जामि इतिसब्बत्थ] देव. मं पब्बाजेत्वा सासने दायादो होथाति आह. तेन च समयेन राजधीता संघमित्तापि तस्मिं ठाने ठिता होति. तं दिस्वा आह त्वम्पि अम्म पब्बजितुं सक्खिस्ससीति, साधु ताताति सम्पटिच्छि. राजा पुत्तानं मनं लभित्वा पहट्ठचित्तो भिक्खुसंघं उपसङ्कमित्वा भन्ते इमे दारके पब्बाजेत्वा मं सासने दायादं करोथाति. सङ्घो रञ्ञो वचनं सम्पटिच्छित्वा कुमारं मोग्गलिपुत्ततिस्सत्थेरेन उपज्झायेन महादेवत्थेरेन आचरियेन पब्बजापेसि [पब्बज्जापेसि इतिसब्बत्थ]. मज्झन्तिकत्थेरेन आचरियेन उपसम्पादेसि, सो उपसम्पदामालकेयेव सह पटिसम्भिदाहि अरहत्तं पापुणि. सङ्घमित्तायपि राजधीताय आचरियाणी आयुपालत्थेरी नाम [अचारिया आयुपालत्थेरीनाम इतिसब्बत्थ]. उपज्झाया धम्मपालत्थेरी नाम अहोसि. राजा पन अनेकाकारेन बुद्धसासनं सोभेत्वा मोग्गलिपुत्ततिस्सत्थेरस्स सहायेन [सहय्येन. साहाय्येन. साहय्येन इतिपिकत्थचि] सट्ठिसहस्समत्ते दुस्सीले तित्थिये बुद्धसासना उप्पब्बाजेत्वा ततियधम्मसंगीतिं निट्ठापेसि. तस्मिं किर समागमे भिक्खुभिक्खुणियो कित्तकाति [कित्तकानीति इतिसब्बत्थ], वुत्तञ्हि.

१२. तस्मिं समागमे आसुं, असीतिभिक्खुकोटियो;

अहेसुं सतसहस्सानि, तेसु खीणासवा यती.

१३. नवुतिसतसहस्सानि, अहू भिक्खुणियो तहिं;

खीणासवा सिक्खुणियो, सहस्सं आसु तासु चाति.

एवं सो असोको धम्मराजा सकलजम्बुदीपे अग्गराजा हुत्वा बुद्धसासनं सोभेन्तो विहासि. अयं पनेत्थ सङ्खेपो, वित्थारो पन महावंसे वुत्तोति. वुत्तञ्हि.

१४. सम्पुण्णत्ता अयं तिस्सो, चेतनायो मधुप्पदो;

सब्बत्थ सब्बदा सब्ब, सम्पत्तिमभिसम्भुणीति.

मज्झिमो पन वाणिजो अत्तनो पारवादिदोसेन परसमुद्दे लङ्कायं निब्बत्ति. तस्सेवं कथापटिपाटि वेदितब्बा. तम्बपण्णिदीपे किर मुटसीवो नाम राजा सट्ठिवस्सानि रज्जं कारेसि, तस्स पुञ्ञपञ्ञागुणोपेता अञ्ञमञ्ञं हितेसिनो दस पुत्ता अहेसुं. द्वे च धीतरो. सब्बे ते समग्गा सम्मोदमाना वसन्ति. अथापरस्मिं समये अमच्चा मुटसीवरञ्ञे कालकते देवानंपियतिस्सकुमारं अभिसिञ्चिंसु, अभिसेकसमकालमेवस्स अनेकानि अच्छरियानि अहेसुं. तानि पकासेन्ता महावंसकथाचरिया आहंसु.

१५. देवानंपियतिस्सोति, विस्सुतो दुतियो सुतो;

तेसु [अहोसिमुटसीवस्स, दसपुत्तेसुपुञ्ञवा इतिकत्थचि] भातुसु सब्बेसु, पुञ्ञपञ्ञाधिको अहु.

१६. देवानंपियतिस्सो सो, राजासि पितुअच्चये;

तस्साभिसेकेन समं, बहूनच्छरियानहू.

१७. लङ्कादीपम्हि सकले, निधयो रतनानिच;

अन्तोठितानि उग्गन्त्वा, पथवीतलमारुहुं.

१८. लङ्कादीपसमीपम्हि, भिन्ननावा गतानि च;

तत्र जातानि च थलं, रतनानि समारुहुं.

१९. छातपब्बतपादम्हि, तिस्सो च वेळुयट्ठियो;

जाता रथपतोदेन, समाना परिमाणतो.

२०. तासु एका लतायट्ठि, रजताभा तहिं लता;

सुवण्णवण्णा रुचिरा; दिस्सन्तेता मनोरमा.

२१. एका कुसुमयट्ठीतु; कुसुमानि तहिंपन;

नानानि नानावण्णानि; दिस्सन्तेतिफुटानि च.

२२. एका सकुणयट्ठी तु, तहिंपक्खिमिगा बहू;

नाना च नानावण्णा च, सजीवाविय दिस्सरे.

२३. हयगजरथा मलक्या, वलयङ्गुलिवेठका चेव;

ककुधफला पाकतिका, इच्चे ता अट्ठ जातिया.

२४. मुत्ता समुद्दा उग्गन्त्वा; तीरे वट्टिवियट्ठिता;

देवानंपियतिस्सस्स; सब्बं पुञ्ञविजम्भितं.

२५. इन्दनीलं वेळुरियं, लोहितङ्कमणी चि मे;

रतनानि पने तानि, मुत्ता ता ताच यट्ठियो;

सत्ताहब्भन्तरेयेव, रञ्ञो सन्तिकमाहरुंति.

तेन च समयेन देवानंपियतिस्समहाराजा च असोको धम्मराजा च अद्दिट्ठसहाया होन्ति. तस्मा सो एतानि रतनानि च अञ्ञानि बहूनि उपायनानि मम सहायस्स देथाति धम्मासोकमहानरिन्दस्स पण्णाकारत्थाय पेसेसि. सोपि तं दिस्वा पसीदित्वा पञ्चराजककुधभण्डानि च अञ्ञञ्च बहुपण्णाकारञ्च अभिसेकत्थाय पेसेसि. मय्हं सहायं अभिसेकं करोन्तूति. न केवलञ्चेतं आमिसपण्णाकारं. इमं किर धम्मपण्णाकारम्पि पेसेसि.

२६. अहं बुद्धंच धम्मंच; संघंच सरणं गतो;

उपसकत्तं वेदेसिं; सक्यपुत्तस्स सासने.

२७. इमेसु तीसु वत्थूसु; उत्तमेसु नरुत्तम;

चित्तं पसादयित्वान, सद्धाय सरणं वजाति.

अमच्चा पुन लङ्कमागम्म राजानं अभिसिञ्चिंसु, तेन खो पन समयेन मोग्गलिपुत्ततिस्सत्थेरो कत्थ नुखो अनागते सासनं सुप्पतिट्ठितं भवेय्याति उपपरिक्खन्तो पच्चन्तिमे सुप्पतिट्ठितं भविस्सतीति ञत्वा ते ते थेरे तत्थ तत्थ पेसेत्वा महामहिन्दत्थेरं गन्त्वा तम्बपण्णिदीपं पसादेहीति नियोजेसि, सक्को च देवानमिन्दो महामहिन्दत्थेरं उपसंकमित्वा कालकतो भन्ते मुटसीवो राजा. इदानि देवानंपियतिस्समहाराजा रज्जं कारेति. सम्मासम्बुद्धेन च तुम्हे ब्याकता अनागते महिन्दो नाम भिक्खु तम्बपण्णिदीपं पसादेस्सतीति. तस्मा तिह खो भन्ते कालो दीपवरं गमनाय, अहम्पि सहायो भविस्सामीति, थेरो तस्स वचनं सम्पटिच्छित्वा अत्तसत्तमो चेतियपब्बतविहारतो वेहासं उप्पतित्वा अनुराधपुरस्स पुरत्थिमदिसाय मिस्सकपब्बते पतिट्ठहि, इमं एतरहि चेतियपब्बतोतिपि सञ्जानन्ति. तदा तम्बपण्णियं उस्सवदिवसो होति, राजा छणं करोथाति अमच्चे आणापेत्वा चत्ताळीससहस्सपुरिसेहि परिवारितो नगरम्हा निक्खमित्वा मिस्सकपब्बतं पायासि मिगवं कीळितुकामो. अथ तस्मिं पब्बते अधिवत्था एका देवता रञ्ञो थेरे दस्सेस्सामीति रोहितमीगवण्णेन अविदूरे तिणपण्णानि खादमाना विय चरति, राजा अयुत्तं दानि पमत्तं विज्झितुंति जियं पोठेसि, मिगो अम्बत्थलमग्गं गहेत्वा पलायितुं आरभि, राजा तं अनुबन्धन्तो अम्बत्थलमेव अभिरुहि, मिगोपि थेरानं अविदूरे अन्तरधायि, महिन्दत्थेरो राजानं अविदूरे आगच्छन्त मंयेव राजा पस्सतु, मा इतरेति अधिट्ठहित्वा तिस्स तिस्स इतो एहीति आह, राजा तं सुत्वा चिन्तेसि. इमस्मिं तम्बपण्णिदीपे जातो मं तिस्सोति नामं गहेत्वा आलपितुं समत्थो नाम नत्थि. अयं पन छिन्नभिन्नपटधरो भण्डुकासाव वसनो मं नामेना लपति, को नुखो यं भविस्सति मनुस्सो अमनुस्सो वाति. थेरो आह.

२८. समणा मयं महाराज, धम्मराजस्स सावका;

तवेव अनुकम्पाय, जम्बुदीपा इधागताति.

राजा धम्मासोकनरिन्देन पेसितसासनानुसारेन अनुस्सरमानो अय्या नुखो आगताति तावदेव आयुधं निक्खिपित्वा एकमन्तं निसीदि सम्मोदनीयं कथं कथयमानो सारणीयं [सम्मोदनीयं-इतिसब्बत्थ] कथं कुरुमानो. तस्मिं तानिपि चत्ताळीसपुरिससहस्सानि आगन्त्वा तं परिवारेसुं, तदा थेरो इतरेपि जने दस्सेसि, राजा दिस्वा इमे कदा आगताति पुच्छि, मया सद्धिंयेव महाराजाति. इदानि पन जम्बुदीपे अञ्ञेपि एवरूपा समणा सन्तीति. महाराज एतरहि जम्बुदीपो कासावपज्जोतो इसिवातपटिवातो, तस्मिं.

२९. तेविज्जा इद्धिप्पत्ता च, चेतोपरिञ्ञकोविदा;

खीणासवा अरहन्तो, बहू बुद्धस्स सावकाति.

राजा तं सुत्वा पसन्नो अहोसि, अथ थेरो रुक्खोपमादिना तस्स पञ्ञावेय्यत्तियं ञत्वा धम्मं देसेसि सनरामरेहि साधुकारं कारयमानो. तेन वुत्थं.

३०. पण्डितोति विदित्वान, चुल्लहत्थिपदोपमं;

सुत्तन्तं देसयी थेरो, महीपस्स महामति [महीमती इतिपिकत्थचि].

देसनापरियोसाने सो सद्धिं तेहि नरेहि चत्ताळीससहस्सेहि सरणेसु पतिट्ठहीति. अथस्स राजा स्वे भन्ते मम गेहे भिक्खं गण्हाथाति याचित्वा गन्त्वा नगरञ्च राजगेहञ्च अलङ्करित्वा थेरे निसीदापेत्वा पणीतेनाहारेन परिविसित्वा अनुळादेविप्पमुखाहि पञ्चसतइत्थीहि सद्धिं एकमन्तं निसीदि. अथ थेरो धम्मरतन वस्सं वस्सापेसि. ततो ता पञ्चसतइत्थियो सोतापत्तिफलं पापुणिंसु. ततो हत्थिसालायं सहस्सं, नन्दनवने सहस्संति एवं दुतियदिवसे अड्ढतेय्यानि पाणसहस्सानि सोतापत्तिफले पतिट्ठापेसि. ततियदिवसे अड्ढनवप्पमाणं पाणसहस्संति एवं अनेकसतानं अनेकसहस्सानं अनेकसत सहस्सानं धम्मा मतं पायेसि. वुत्तञ्हि.

३१. महामहिन्दसुरियो, लङ्कावेहासमज्झगो;

बोधनेय्यम्बुजे कासि, विकासं धम्मरंसिना.

३२. महामहिन्दचन्दो सो, लङ्कावेहासमज्झगो;

बोधेसि धम्मरंसीहि, वेनेय्यकुमुदाकरे.

३३. महामहिन्दमेघो सो, वस्सं धम्मम्बुवुट्ठिया;

साधूनं चित्तबीजेसु, जनेसि कुसलङ्कुरेति.

अथ राजा सुमनसामणेरेन धम्मासोकस्स हत्थतो सम्मासम्बुद्धपरिभुत्तपत्तपूरधातुयो च सक्कस्स सन्तिका दक्खिणक्खकधातुंच आहरापेत्वा [आहारित्वा-इतिसब्बत्थ] चेतियपब्बते थूपं आदिंकत्वा सकललङ्कादीपे योजने योजने थूपानि कारेत्वा दक्खिणकधातुं निदहित्वा थूपारामथूपञ्च पतिट्ठापेसि. अथ सङ्घमित्ताय थेरिया आनीतं जयमहाबोधिनो दक्खिणमहासाखं पतिट्ठापेत्वा पूजं कारेसि. सब्बो पनेत्थ कथावित्थरो महावंसतो वेदितब्बो.

३४. पारवादिकदोसेन, जातेवं परसागरे;

पत्तानुमोदना एवं, लङ्कायं आसि इस्सरो.

३५. पापम्पि एवं फलतीति मन्त्वा,

ञत्वान पुञ्ञस्स फलं इदन्ति;

भो योनिसो कुब्बथ पुञ्ञकम्मे,

गन्त्वान ये यत्थ न सोचयन्तीति.

तेभातिकमधुवाणिजकानं वत्थुं अट्ठमं.