३४. इन्दगुत्तत्थेरस्स वत्थुम्हि अयमानुपुब्बीकथा
अम्हाकं भगवतो परिनिब्बाणतो ओरभागे जम्बुदीपे किर पाटलिपुत्तं नाम नगरं अहोसि. तत्थ धम्मासोको नाम महिद्धिको महानुभावो आणाचक्कवत्ति राजा रज्जं कारेति. उद्धं आकासतो हेट्ठा पथविया योजनप्पमाणे सकलजम्बूदीपे तस्स आणा पवत्तति, तदा सकलजम्बुदीपवासिनो च चतुरासीति नगरसहस्से राजानो च अत्तनो अत्तनो बलवाहने गहेत्वा आगम्म धम्मासोकमहारञ्ञो उपट्ठानं करोन्ति. तस्मिं समये देवपुत्तनगरे देवपुत्तो नाम महाराजा अत्तनो बलवाहनं गहेत्वा रञ्ञो उपट्ठानं अगमासि. धम्मासोको देवपुत्तमहाराजानं दिस्वा मधुरपटिसन्थारं कत्वा तुम्हाकं रट्ठे बहुस्सुता आगतागमा महागुणवन्ता अय्या अत्थीति पुच्छि. तं सुत्वा देवपुत्तराजा अत्थि देव तस्मिं नगरे सीहकुम्भकं नाम महाविहारं. तत्थ अनेकसहस्सभिक्खू विहरन्ति सीलवन्ता अप्पिच्छा सन्तुट्ठा विवेककामिनो. तेसु साट्ठकथातिपिटकधरो इन्दगुत्तत्थेरो नाम तेसं पामोक्खो अहोसि. सो अनेकपरियायेन सनरामरानं भिक्खूनं धम्मंवण्णेति. गुणवा अत्तनो गुणं निस्साय लोके पाकटोति. तं सुत्वा राजा तुट्ठमानसो थेरं पस्सितुकामो हुत्वा सम्म त्वमेव गन्त्वा थेरं याचित्वा इधा नेहीति आह. तं सुत्वा देवपुत्तराजा अत्तनो हत्थस्सबलवाहना दिमहा सेनङ्गपरिवुतो इन्दगुत्तत्थेरस्स सन्तिकं गन्त्वा वन्दित्वा अय्य अय्यं धम्मासोकमहाराजा दट्ठुकामोति आह. थेरेन साधूति सम्पटिच्छिते राजा थेरेन सम्पटिच्छितभावं धम्मासोकमहाराजिनो पेसेसि. ततो धम्मासोकमहाराजा सोमनस्सप्पत्तो अत्तनो आणापवत्तितट्ठाने राजूनं सासनं पेसेसि. सब्बेव थेरागमनमग्गं अलङ्करोन्तूति. अथ ते राजानो तुट्ठपहट्ठा अत्तनो अत्तनो नगरे भेरिं चरापेत्वा देवपुत्तनगरतो याव पाटलिपुत्तनगरं एत्थन्तरे पञ्चपण्णासयोजनिकं मग्गं विसमं समं करोन्तो देवतानं दिब्बवीथिमिव अलङ्करित्वा धम्मासोकमहानरिन्दस्स एवं सासनं पेसेसुं. भवन्तेत्थ.
१. इन्दगुत्तमहाथेर, सामिनो गमनाय नो;
मग्गं अलङ्करोन्तूति, महाराजेन पेसितं.
२. ततो ते अपनेत्वान, पासाणकण्टकादिकं;
विसमं समं करित्वान, सम्मज्जित्वान साधुकं.
३. धोतमुत्ता समाभासा, ओकिरित्वान वालुका;
उस्सापिता तत्थ तत्थ, दुस्सतोरणपन्तियो.
४. कलधोतहेमरम्भादि, नानातोरणपन्तियो;
तथा पुप्फमया नेक, तोरणूपरितोरणा.
५. तेसु तेसुच ठानेसु, सङ्खता कुसुमग्घिका;
तथेव गन्धतेलेहि, दीपिता दीपपन्तियो.
६. पदुमुप्पलसन्नीर, पुप्फपल्लव लङ्कता;
ठपिता घटमालायो, पुण्णा सोगन्धवारिहि.
७. निलपीता दिसम्भिन्न, पताकाहि धजेहि च;
मग्गस्स उभतो पस्से, वनमासि समाकुलं.
८. केतवो उग्गता तत्थ, मन्दमन्दसमीरणा;
अव्हयन्ताव सोभन्ति, ब्रह्मोरगसुरादयो.
९. नागचम्पपुन्नाग, केतकीवकुलादिहि;
पदुमुप्पला दिजलजेहि, मालती कुसुमा दिहि.
१०. मालादामेहि नेकेहि, मग्गमासि विचित्तकं;
पत्थरित्वा पादपटे, सित्तसम्मत्तभूमियं.
११. लाजादिपञ्चपुप्फानि, विकिरिंसु मनोरमं;
अलङ्करित्वा हत्तस्सा, कुसुमा भरणादिहि.
१२. मग्गालङ्करणत्थाय, ठपितासुं ततो ततो;
तेसु तेसु च ठानेसु, भेरिमण्डलमज्झगा.
१३. नच्चन्ति चातुरा नारी, रसभावनिरन्तरा;
कंसवंसादिपग्गय्ह, वज्जेन्तानेकतन्तियो.
१४. गायन्ति मधुरं गीतं, गायन्तेत्थ लयान्वितं;
मग्गोसो साधुवादेहि, भेरितन्तिनदेहिच.
१५. करीनं कोञ्चनादेहि, हयानं हेसितेहि च;
नेकविटङ्कसङ्घेहि, सो करीहि समाकुलो.
१६. मग्गस्स उभतो पस्से, देवकञ्ञूपमा सुभा;
मालाकलापे पग्गय्ह, तिट्ठन्ति तुट्ठमानसा.
१७. तथा पुण्णघटे गय्ह, पदुमुप्पलसंकुले,
अट्ठमङ्गलमुग्गय्ह, तिट्ठन्ति पमदा तहिं.
१८. सीतलूदकसम्पन्न, पपाहि समलङ्कता;
सिनानत्थं खता आसुं, पोक्खरञ्ञो तहिंतहिं.
१९. तहिंतहिंकता आसुं, दानसाला मनोरमा;
निचितासुमनेकानि, दानोपकरणा तहिं.
२०. एवं नेकविधा पूजा, अम्हेहि पटिपादिता;
ठपेत्वान महागङ्गं, तं जानातु महीपतीति.
तं सुत्वा असोकमहाराजा गङ्गं अलङ्करोथाति सोळसयक्खे पेसेसि, ते सपरिवारा तत्थ गन्त्वा अत्तनो आनुभावेन गङ्गाय अन्तो तिगावुतट्ठाने उदुक्खलपासाणे ठपेसुं. ठपेत्वा थम्भे उस्सापेत्वा तुलासंघाटे दत्वा हिमवन्ततो रत्तचन्दनसारे आहरित्वा पदरे सन्थरित्वा अनेकेहि पूजाविधानेहि अलङ्करित्वा रञ्ञो एवं सासनं पेसेसुं. भवन्तेत्थ.
२१. यमत्थाय मयं सब्बे, महाराजेन पेसिता;
अम्हेहि दानि तं सब्बं, कतमेव सुणोथ तं.
२२. गावुतत्तयगम्भीरं, गङ्गं योजनवित्थतं;
थम्भे पतिट्ठपेत्वान, अनग्घं रत्तचन्दनं.
२३. हिमवन्ततो हरित्वान, सेतुं तत्थ सुमापितं;
तोरणा च उभो पस्से, रतनेहि सुनिम्मिता.
२४. पुण्णकुम्भद्धजा चेव, पदीपावलियो तथा;
उभो पस्सेसु रतनानि, मापेत्वालम्बनानिच.
२५. सुवण्णमणिमुत्तादि, दामेहि समलङ्कता;
वालुकत्थाय ओकिण्णा, धोतमुत्ता पभस्सरा.
२६. तेसु तेसु च ठानेसु, ठपितासुं महामणी;
नानारागवितानेहि, सोभिता सेतुनो परि.
२७. ओलम्बितासुं तत्थेव, दिब्बादिकुसुमादयो;
निट्ठितं इध कातब्ब, युत्तं पूजाविधिंतु नो;
देवोतं पटिजानातु, इति वत्वान पेसयुंति.
तम्पि सुत्वा असोको महाराजा तुम्हेव थेरं इधानेथाति तेसंयेव सासनं पटिपेसेसि, ते साधूति इन्दगुत्तत्थेरस्स सन्तिकं गन्त्वा वन्दित्वा भन्ते पाटलिपुत्तनगरस्स गमनाय कालोति आहंसु, ततो थेरो सट्ठिसहस्समत्तेहि भिक्खुसङ्घेहि परिवुतो पञ्चपण्णासयोजनमग्गं पटिपज्जि. अथापरं देवपुत्तनगरवासिनो अनेकविधमालागन्धवासचुण्णद्धजपताकादीहि अनेकेहि तालावचरेहि नच्चगीतवादितेहि पूजेत्वा अगमंसु. अथ थेरो महन्तेन पूजाविधानेन जम्बुदीपवासीहि पूजियमानो अनुक्कमेन चन्दभागाय गङ्गाय सेतुं पत्वा तत्थ महन्तं पूजाविधानं ओलोकेन्तो एवं चिन्तेसि, एवं उळारं पूजाविधानं इदानि जम्बुदीपे नाञ्ञस्स होति, मय्हमेवेतं कतं. अहमेवेत्त उत्तमो अप्पटिमोति एवं सेय्यस्स सेय्योहमस्मीति मानं उप्पादेत्वा अट्ठासि. तस्मिं खणे एको खीणासवत्थेरो तं मानेनुपत्थद्धचेतसा ठितं दिब्बचक्खुना दिस्वा उपसङ्कमित्वा वन्दित्वा थेरस्स ओवदन्तो एवमाह. तस्मा.
२८. मा मानस्स वसी होथ, मानो भन्ते वसंगतं [मानंभन्तेवसीकतं इतिसब्बत्थ];
अनत्थदो सदा होति, पातेत्वान भवा वटे.
२९. मानो पलालितो सत्तो, तण्हापटिघसङ्गतो;
मक्कटोरगसोणादि, हुत्वा जायति जातिसु.
३०. मा मानं सामि पूरेहि, अत्तानं परिसोधय;
अपरिसुद्धा सयो भिक्खु, दायकं न परितोसति.
३१. ददन्तानं सरन्तानं, पूजेन्तानं सचे तुवं;
महप्फलं महाभूतिं, कामत्थ होथ निब्बणाति [निम्मना इतिकत्तचि].
तं सुत्वा थेरो संसारे निब्बिन्दो तत्थेव ठितो तिलक्खणं पट्ठपेत्वा करजकायं सम्मसन्तो सहपटि सम्भिदाहि अरहत्तं पत्वाव निक्खमि. ततो धम्मासोकमहाराजा बलवाहनपरिवुतो महन्तेन पूजाविधानेन पटिमग्गं आगम्म वन्दित्वा ततो दिगुणं पूजासक्कारं कुरुमानो महाभिक्खुसङ्घेन सद्धिं थेरं अत्तनो नगरं नेत्वा तस्स धम्मकथं सुत्वा पसन्नमानसो पञ्चसीले पतिट्ठाय महन्तं विहारं कारेत्वा थेरेन सहागतानं सट्ठिसहस्सानं भिक्खूनं चतुपच्चयेहि उपट्ठान मकासि, अथ थेरो साट्ठकथं पिटकत्तयं पकासेन्तो तस्मिं चिरं वसित्वा तत्थेव परिनिब्बायि. ततो राजा सपरिसो तस्स सरीरनिक्खेपं कारेत्वा धातुयो गहेत्वा महन्तं चेतियं कारापेसीति.
३२. पुरातनानं भुवि पुञ्ञकम्मिनं,
गुणानुभावेन महेन्ति एवं;
सदेवका नं मनसीकरोन्ता,
पुञ्ञं करोथा यतने सदा दराति.
इन्दगुत्तत्थेरस्स वत्थुं चतुत्थं.