३३. कपणाय वत्थुम्हि अयमानुपुब्बीकथा
भगवति परिनिब्बुते जम्बुदीपे तत्थ तत्थ भिक्खुभिक्खुणियो च उपासकउपासिकायो च जयमहाबोधिं वन्दिस्सामीति येभुय्येन गन्त्वा वन्दन्ति. अथा परभागे बहू भिक्खू सङ्गम्म महाबोधिं वन्दनत्थाय गच्छन्ता अञ्ञतरस्मिं गामके भिक्खाय चरित्वा आसनसालं गन्त्वा कतभत्तकिच्चा थोकं विस्समिंसु, तदा तत्थ एका कपणा दुग्गतित्थी तथा निसिन्नभिक्खू दिस्वा उपसङ्कमित्वा पञ्चपतिट्ठितेन वन्दित्वा एकमन्ते ठिता अय्या कुहिं गच्छन्तीति पुच्छि. भिक्खू तं सुत्वा जयमहाबोधिस्स आनुभावञ्च तं वन्दनत्थाय अत्तानं गमनञ्च कथेन्ता एवमाहंसु.
१. यत्थासीनो जिनो जेसि, ससेनं मकरद्धजं;
हन्त्वा किलेससेनञ्च, बुद्धो आसि निरुत्तरो.
२. यं पूजेसि महावीरो, ठितो पद मकोपयं;
सत्तरत्तिन्दिवं नेत्त, नीलनीरजरंसिना.
३. सुरासुरनरादीनं, नेत्तालि पाळिपातना;
मेचकाकारपत्तेहि, सिखण्डीविय भाति यो.
४. सुरपादपोव सत्तानं, यं तिट्ठति महीतले;
इह लोके परत्ते च, ददन्तो इच्छितिच्छितं.
५. यस्स पुराणपण्णम्पि, पतितं यो नरो इध;
पूजेति तस्स सो देति, भवभोगं महीरुहो.
६. गन्धमालेहि सलिलेहि, यमुपासति सदा नरो;
अज्झत्तञ्च बहिद्धा च, दुरितं सो निहञ्ञति.
७. यो देति इहलोकत्थं,
यो देति पारलोकिकं,
सम्पदं जयबोधिंतं,
भोति गच्छाम वन्दितुं.
तं सुत्वा उदग्गा सोमनस्सजाता भिक्खूनं एवमाह. अहं भन्ते परकुले भतिया कम्मं करोन्ती दुक्खेन कसिरेन जीविकं कप्पेमि. स्वातनाय मे तण्डुलनालिपि [भण्डुलनाम्प इतिसब्बत्थ] नत्थि, पगेव अञ्ञं धनं, इमं विना अञ्ञं साटकम्पि नत्थि, कस्मा पुब्बे अकतपुञ्ञत्ता, तस्मा इमं भन्ते साटकं ममानुग्गहाय बोधिम्हि धजं बन्धथाति याचित्वा साटकं धोवित्वा तेसं अदासि. भिक्खूपि तस्सानुग्गहाय तं गहेत्वा अगमंसु. सा साटकं दत्वा पीतिपामोज्जमानसा गेहं गन्त्वा तदहेव रत्तिया मज्झिमयामे सत्थकवातेन उपहता कालं कत्वा तेसं भिक्खूनं गमनमग्गे एकस्मिं रमणीये वनसण्डे भुम्मदेवता हुत्वा निब्बत्ती, अथस्सा पुञ्ञानुभावेन तियोजनिके ठाने दिब्बकप्परुक्खा पातुरहंसु, तत्त तत्त नानाविरागधजपताका ओलम्बन्ति. देवपुत्ता च देवधीतरो च सब्बाभरणविभूसिता तथेव धजपताकादयो गहेत्वा कीळन्ति. नच्चगीतादिनेकानि अच्छरियानि पयोजेन्ति. अथ दुतियदिवसे तेपि भिक्खू बोधिमण्डलं गच्छन्ता सायण्हे तं ठानं पत्वा अज्ज इमस्मिं वनसण्डे वसित्वा गमिस्सामाति तत्थ वासं उपगमिंसु, ततो ते रत्तिभागे नानावण्णधजे च देवताहि पयोजियमाना गीतवादितादयो च तियोजनट्ठाने कप्परुक्खानि च इदं सब्बं देविस्सरियं तस्सानुभावेन निब्बत्तभावं दिस्वा विम्हितमानसा देवधीतरं आमन्तेत्वा त्वं केन कम्मेन इध निब्बत्ताति पुच्छिंसु. सा भिक्खू वन्दित्वा अञ्जलिं पग्गय्ह ठिता भन्ते मं न सञ्जानित्थाति आह. भिक्खूहि न मयं सञ्जानाम भगिनीति वुत्ते सा अत्तनो सभावं कथेन्ती एवमाह.
८. हीय्यो आसनसालाय, निसीदित्थ समागता;
तुम्हकं सन्तिकं गम्म, या वराकीभिवादयि.
९. या बोधिं पूजनत्थाय, वत्थकं पटिपादयि;
साहं हीय्यो चुता आसिं, रत्तियं ब्याधिपीळिता.
१०. नानासम्पत्तिसंयुत्ता, नानाभूसनभूसिता;
विमाने रतना किण्णे, जाताहं एत्थ कानने.
११. हीय्यो पस्सित्थ मे गत्तं, रजोजल्लेहि संकुलं;
अज्ज पस्सथ मे गत्तं, वण्णवन्तं पभस्सरं.
१२. हीय्यो पस्सित्थ मे भन्ते, निवत्थं मलिनम्बरं;
अज्ज पस्सथ मे भन्ते, दिब्बमम्बरमुत्तमं.
१३. विकिण्णफलितग्गेहि, केसेहि विरला कुलं;
ऊकागूथपटिक्कूलं, हीय्यो आसिसिरं मम.
१४. अज्ज तं परिवत्तित्वा, मम पुञ्ञानुभावतो;
सुनीलमुदुधम्मिल्लं, कुसुमा भरणभूसितं.
१५. पुरा मे सकसीसेन, वहितं दारू दकादिकं;
पुञ्ञेनाहं अज्ज माला, भारं सीसे समुब्बहे.
१६. धजत्थाय मया हीय्यो, पदिन्नं थूलसाटकं;
अज्ज निब्बत्ति मे भोन्तो, महन्तं दिब्बसम्पदं.
१७. जानमानेन कत्तब्बं, दानादीसु महप्फलं;
देवलोके मनुस्सेसु, सुखदं दान मुत्तमन्ति.
तं सुत्वा सब्बे भिक्खू अच्छरियब्भुतचित्ता अहेसुं. सा देवता तस्सा रत्तिया अच्चयेन भिक्खू निमन्तेत्वा दिब्बेहि खज्जभोज्जेहि सहत्था सन्तप्पेत्वा तेहि सद्धिं आगच्छन्ती अन्तरामग्गे दानं ददमाना महाबोधिं गन्त्वा सब्बेहि धजपताका दीहि च नानाविधवण्णगन्धसम्पन्नपुप्फेहि च दीपधूपेहि च बोधिं पूजेत्वा भिक्खूनं चीवरत्थाय दिब्बवत्थानि दत्वा आगम्म तस्मिंयेव वनसण्डे वसन्ती नानाविधानि पुञ्ञानि कत्वा तावतिंसभवने निब्बत्ति. भिक्खूपि तं अच्छरियं तत्थ तत्थ पकासेन्ता बहूजने पुञ्ञकम्मे नियोजेसुंति.
१८. एवं विधापि कपणा जिनसासनम्हि,
कत्वा पसाद मथ थूलकुचेलकेन;
पूजेत्व दिब्बविभवं अलभीति ञत्वा,
पूजापरा भवथ वत्थुसु तीसु सम्माति.
कपणाय वत्थुं ततियं.