३२. सुवण्णतिलकाय वत्थुम्हि अयमानुपुब्बीकथा
लङ्कादीपे किर अनुराधपुरनगरे एको मातुगामो [एकामातुगामातिवा एकामातुगामोतिवा कत्थचि] सद्धासम्पन्ना निच्चं अभयुत्तरचेतिये पुप्फपूजं करोति, अथेकदिवसं सा अत्तनो धीतुया सद्धिं तस्मिं चेतिये पुप्फपूजनत्थाय [पुप्फपूजत्थाय इतिकत्थचि] गन्त्वा पुप्फासनसालाय उदकं अपस्सन्ती धीतु हत्थे पुप्फचङ्गोटकं ठपेत्वा घट मादाय पोक्खरणिं अगमासि, ततो सा दारिका मातरि अनागताययेव [अनागतेयेव इतिसब्बत्थ] अधोतासने पुप्फमुट्ठिंगहेत्वा मण्डलं कत्वा पूजेत्वा एवं पत्थनमकासि. तथा हि.
१. महावीरस्स धीरस्स, सयम्भुस्स महेसिनो;
तिलोकग्गस्स नाथस्स, भगवन्तस्स सत्थुनो.
२. य महं पूजयिं पुप्फं, तस्स कम्मस्स वाहसा;
रूपीनं पवरा हेस्सं, आरोहपरिणाहवा.
३. मं दिस्वा पुरिसा सब्बे, मुच्छन्तु काममुच्छिता;
निच्छरन्तु सरीरा मे, रंसिमालीव रंसियो.
४. हदयङ्गमा कण्णसुखा, मञ्जुभाणी सुभा मम;
किन्नरानं यथा वाणी, एवमेव पवत्ततूति.
अथस्सा माता आगम्म अधोतासने पूजितानि पुप्फानि दिस्वा कस्मा चण्डाली अधोतासने भगवतो पुप्फानि पूजेसि, अयुत्तं तया कतन्ति आह, तं सुत्वा सा मातुया कुज्झित्वा त्वं चण्डालीति अक्कोसि, सा एत्तकं पुञ्ञापुञ्ञं कत्वा अपरभागे ततो चुता जम्बुदीपे उत्तरमधुरायं एकस्स चण्डालगन्धब्बब्राह्मणस्स धीता हुत्वा निब्बत्ति, उत्तमरूपधरा अहोसि, तस्सा सरीरतो मेघमुखतो विज्जुल्लताविय रंसियो निच्छरन्ति. समन्ता चतुहत्थट्ठाने सरीरप्पभाय अन्धकारे विधमति. मुखतो उप्पलगन्धो वायति, कायतो चन्दनगन्धो, तस्सा द्विन्नं थनान मन्तरे सुवण्णवण्णं एकं तिलकं अहोसि, तेन बालसुरियस्स विय पभा निच्छरति. दिट्ठदिट्ठा येभुय्येन उम्मत्ता विय काममदेन विसञ्ञिनो होन्ति, अहो कुसलाकुसलानं आनुभावो. तथा हि.
५. येन सा कोधसामातु, चण्डाली इति भासिता;
तेन सा आसि चण्डाली, जेगुच्छा हीनजातिका.
६. सल्लक्खेत्वान सम्बुद्ध, गुणं पूजेसि यं तदा;
तेन पुञ्ञानुभावेन, सा भिरूपी मनोरमा.
७. येन येन पकारेन, पुञ्ञपापानि यो करे;
तस्स तस्सानुरूपेन, मोरोव लभते फलं.
८. पापेन च तिरच्छाने, जायन्ति कुसलेन ते;
वण्णपोक्खरता होति, मोरानं कम्म मीदिसन्ति.
ततो तस्सा मातापितरो सुवण्णतिलकाति नाम मकंसु. तस्मिंकिर नगरे मनुस्सा तस्सा रुपदस्सनेनच सवणेनच सम्पत्तापि चण्डालधीता अयन्ति परिभवभयेन आवाहं न करोन्ति. अथ तस्मिं नगरे जेट्ठचण्डालब्राह्मणस्स पुत्तो एतमत्थाय तस्सा मातापितुन्नं सन्तिकं वत्थाभरणगन्धमालादयो पेसेसि सुवण्णतिलकं अम्हाकं ददन्तूति, ते तं पवत्तिं तस्सा आरोचेसुं. सास्स जिगुच्छन्ती परिहास मकासि. ततो ब्राह्मणस्स पुत्तो लज्जितो रञ्ञो सन्तिकं गन्त्वा वीणं मुञ्चेत्वा गायमानो एवमाह.
९. ललना ननानी चललोचनानी,
तरुणा रुणानी चलिताधराणी;
मनुजो हि यो नेत्तपियं करोति,
स तु नीचजातिं अपि नो जहाति.
किमिदन्ति रञ्ञा पुट्ठो आह.
१०. समेति किं देव छमाय मत्तिका,
कदाचि चामीकरजातिकाय;
सिगालधेनु अपि नीचजातिका,
समेति किंसीहवरेन देवाति.
एवञ्च पन वत्वा देव इमस्मिंनगरे सुवण्णतिलका नामेका चण्डालधीता अत्थि, सा समानजातिकेहि पेसितपण्णाकारं न गण्हाति, कुलवन्तेयेव पत्थेति, कदा नाम काकी सुवण्णहंसेन समागच्छति देवाति. राजा तं सुत्वा तस्सा पितरं पक्कोसापेत्वा तमत्थं वत्वा सच्चं भणेति पुच्छि, सोपि सच्चं देव, सा जातिसम्पन्नमेव कामेतीति आह. राजा एवं सति भणे पञ्चमधुरनगरे उद्दाळब्राह्मणो नाम अत्थि, सो जातिसम्पन्नो मातितोच पितितोच अनुपक्कुट्ठो, जेगुच्छा पटिक्कूला एताति मातुगामेन सद्धिं न संवसति. अत्तनो गेहतो राजगेहं गच्छन्तोच आगच्छन्तो च सोळसखीरोदकघटेहि मग्गे सिञ्चापेसि. मातुगामे दिस्वा कालकण्णी मया दिट्ठाति खीरोदकेन मुखं धोवति. तव धीता सक्कोन्ती तेन सद्धिं संवसतु, एतमत्थं तव धीतरं कथेहीति आह, सोपि तं सुत्वा गेहं गन्त्वा धीतरं पक्कोसित्वा रञ्ञा वुत्तनियामेनेव तस्सा कथेसि. ताय तं सुत्वा सक्कोन्ती अहं उद्दाळब्राह्मणेन सद्धिं वसिस्सामि, मा तुम्हे चिन्तेथ, पपञ्चम्पि मा करोथ, पातोव गमिस्सामीति वुत्ते पिता पनस्सा साधूति सहस्सग्घनकचित्तकम्बलकञ्चुकेन धीतु सरीरं पारुपापेत्वा वीणादितुरियभण्डानि गाहापेत्वा धीतुया सद्धिं अद्धानमग्गं पटिपज्जि. गच्छन्तो अन्तरामग्गे अञ्ञतरस्मिं नगरे रञ्ञो गन्धब्बं करोन्तो धीतरं पिट्ठिपस्से निसीदापेत्वा गन्धब्बमकासि. अथस्स पिट्ठिपस्सनिसिन्ना सुवण्णतिलका नयनकोटिया दिट्ठिं पापेन्ती सरसेन तं ओलोकेत्वा पारुतकञ्चुकं किञ्चि अपनेत्वा सरीरप्पभं पञ्ञापेसि, राजा पनस्सा सरीरप्पभंच रूपसम्पदंच दिस्वा कामातुरो विगतसञ्ञो सम्मूळ्हो हुत्वा मुहुत्तेन पटिलद्धस्सासो तस्सा सस्सामिकास्सामिकभावं पुच्छित्वा चण्डालधीताति सुत्वा परिभवभयेन तं आनेतु मसक्कोन्तो एवरूपं वण्णपोक्खरसम्पन्नं इत्थिरतनं अलभन्तस्स मे को अत्थो जीवितेनाति सोचन्तो परिदेवन्तो काममुच्छितो कत्तब्बा कत्तब्बं अजानन्तो असिं गहेत्वा अत्तनो सीसं सयमेव छिन्दित्वा काल मकासि. एवमेव अन्तरामग्गे पञ्चराजानो तस्सा रूपसम्पत्तिमदमत्ता असिना छिन्नसीसा जीवितक्खयं पापुणिंसु. तथा हि सत्ता हिरञ्ञसुवण्णदासिदास पुत्तदारादीसु [पुत्तदारादीहि इतिसब्बत्थ] पियं निस्साय कामेन मुच्छिता अनयब्यसनं पापुणन्तीति. वुत्तञ्हेतं भगवता.
११. पियतो जायते सोको,
पियतो जायते भयं;
पियतो विप्पमुत्तस्स,
नत्थि सोको कुतो भयं.
१२. पेमतो जायते सोको,
पेमतो जायते भयं;
पेमतो विप्पमुत्तस्स,
नत्थि सोको कुतो भयं.
१३. रतिया जायते सोको,
रतिया जायते भयं;
रतिया विप्पमुत्तस्स,
नत्थि सोको कुतो भयं.
१४. कामतो जायते सोको,
कामतो जायते भयं;
कामतो विप्पमुत्तस्स,
नत्थि सोको कुतो भयं.
१५. तण्हाय जायते सोको,
तण्हाय जायते भयं;
तण्हाय विप्पमुत्तस्स,
नत्थि सोको कुतो भयं.
ततो सो अनुक्कमेन पञ्चमधुरनगरं गन्त्वा अत्तनो आगतभावं रञ्ञा कथापेत्वा तेन अनुञ्ञातो गन्त्वा राजानं अद्दस. तदा उद्दाळब्राह्मणो रञ्ञो अविदूरे कम्बलभद्दपीठे निसिन्नो होति, गन्धब्बब्राह्मणोपि धीतुया सद्धिं गन्धब्बं कुरुमानो निसीदि. तस्मिंखणे पितु पिट्ठिपस्से निसिन्ना सुवण्णतिलका उद्दाळब्राह्मणो कतमोति पुच्छित्वा एतस्मिं भद्दपीठे निसिन्नों एसोति सुत्वा निलामललोचनेहि तं ओलोकन्ति दसनरंसिना सम्भिन्नसुरत्ताधरेन मन्दहसितं करोन्ती तं ओलोकेत्वा पारुतकञ्चुकं अपनेत्वा सरीरप्पभं विस्सज्जेसि. तं दिस्वा ब्राह्मणो उम्मत्तो सोकेन परिदड्ढगत्तो उण्हवातेन पूरितमुखनासो अस्सुना किलिन्ननेत्तो विसञ्ञी अहोसि. ततो सो मुहुत्तेन लद्धस्सासो रोगीविय रञ्ञो सकासा अपसरन्तो अत्तनो गेहं गन्त्वा सुहदे पक्कोसित्वा तेसं एवमाह. भवन्तेत्थ.
१६. यो आपदे समुप्पन्ने,
उपतिट्ठति सन्तिके;
सुखदुक्खे समो होति,
सो मित्तो सोच ञातको.
१७. यो गुणं भासते यस्स, अगुणञ्च निगूहति;
पटिसेधेत्य [पटिसेधेतिकत्तब्बा इतिसब्बत्थ] कत्तब्बा, सो मित्तो सोच ञातको.
१८. सुवण्णतिलकानाम, ललना कामलालया;
नीलक्खिचण्डकण्डेहि, विखण्डेसि मनो मम.
१९. तस्सा मुखम्बुजे सत्ता, मम नेत्तमधुब्बता,
अप्पम्पिन सरन्तामं, तत्थेवा भिरमन्ति ते.
२०. सहेव तेहि मे चित्तं, गतं उल्लंघियुद्धतो;
लज्जागम्भीरपरिखं, धितिपाकारमुग्गतं.
२१. सम्मुय्हामि पमुय्हामि, सब्बा मुय्हन्ति मे दिसा;
तस्स मे सरणं होथ, करोथ मम सङ्गहन्ति.
तं सुत्वा ते एवमाहंसु.
२२. यं त्वमाचरिय पत्थेसि, चण्डाली सा असङ्गमा;
किन्नु मीळ्हेन संयोगो, चन्दनस्स कदा सिया.
२३. अगम्मगमना याति, नरानं दूरतो सिरी;
कित्तिचायु बलं बुद्धि, अयसंच स गच्छतीति.
अथ तेसं ब्रह्मणो आह.
२४. न परिच्चजति लोकोयं, अमेज्झे मणिमुत्तमं;
थीरतनं युवाणी च, दुक्कुला अपि गाहियाति.
एवञ्च पन वत्वा तस्सा सस्सामिकास्सामिकभावं ञत्वा आनेथाति आह, ते तथा अकंसु. ततो ब्राह्मणो ताय गेहं आगतकालतो पट्ठाय चत्तारो मासे रञ्ञो उपट्ठानं नेव अगमासि. तस्स पन ब्रह्मणस्स सन्तिके पञ्चसतराजकुमारा नानाविधानि सिप्पानि उग्गण्हन्ति. ते तं कारणं ञत्वा सुवण्णतिलकाय विज्जमानाय अम्हाकं सिप्पुग्गहणस्स अन्तरायो भविस्सति, येन केनचि उपायेन एतं मारेतुं वट्टतीति, चिन्तेत्वा ते हत्था चरियं पक्कोसित्वा लञ्जं दत्वा एवमाहंसु, हत्थिं सुराय मत्तं कत्वा सुवण्णतिलकं मारेहीति. ततो ते सब्बे राजङ्गणे सन्निपतित्वा दूतं पाहेसुं, आचरियं दट्ठुकामम्हाति. ततो ब्राह्मणेन आगन्त्वा निसिन्नेन पटिसन्थारं कत्वा आचरिय आचरियानिं पस्सितुकामम्हाति आहंसु. अथ सो सुवण्णतिलकं गहेत्वा आगच्छथाति मनुस्से पेसेसि. ते तथा करिंसु, अथ तस्सा वीथिमज्झं सम्पत्तकाले हत्थिं विस्सज्जापेसुं. सो सोण्डाय भूमियं पहरन्तो [पहरन्तोउपधावित्वा इतिकत्थचि] गच्छन्तो उपधावित्वा सोण्डेन तं उक्खिपित्वा कुम्भे निसीदापेसि. ततो राजानो तथा तं मारापेतु मसक्कोन्ता पुन दिवसे मनुस्से पयोजेत्वा रत्तियं मारापेसुं. ब्राह्मणोपि एवरूपं इत्थिं अलसित्वा जीवनतो मतमेव [मतंमेसेय्यो इतिकत्थचि] सेय्योति सोचन्तो परिदेवन्तो राजङ्गणे दारुचितकं कारापेत्वा अग्गिंपविसित्वा मतोति. एवं मातुगामवसङ्गता महन्तं अनयब्यसनञ्च मरणञ्च पापुणन्तीति. वुत्तञ्हेतं भगवता.
२५. मायावेसा [मायाचेसा इतिकत्थचि] मरीचीव,
सोको रोगो चुपद्दवो;
खराव बन्धना चेसा,
मच्चुपासो गुहासयो;
तासु यो विस्ससे पोसो,
सो नरेसु नराधमोति.
२६. अयोनिसो सा पुरिमाय जातिया,
पुञ्ञं करित्वा अलभीदिसं गतिं;
धीसम्पयुत्तं [धितिसम्पयुत्तं इतिकत्थचि] कुसलं करोन्ता,
निब्बाणमेवाभिमुखं करोथाति.
सुवण्णतिलकाय वत्थुं दुतियं.