२९. देवपुत्तस्स वत्थुम्हि अयमानुपुब्बीकथा
इतो पुब्बे नारदस्स किर सम्मासम्बुद्धस्स काले अयं दीपो अञ्ञतरेन नामेन पाकटो अहोसि, सो पनेकस्मिं काले दुब्भिक्खो अहोसि दुस्सस्सो, महाछातकभयं सत्ते पीळेति. तस्मिं समये नारदस्स भगवतो एको सासनिको सावको अञ्ञतरस्मिं गामे पिण्डाय चरित्वा यथा धोतपत्तोव निक्खमि. अथञ्ञतरस्मिं गेहे मनुस्सा एकं तण्डुलनाळिंपोटलिकाय बन्धित्वा उदके पक्खिपित्वा पचित्वा उदकं गहेत्वा पिवन्तो जीवन्ति, तदा थेरं दिस्वा वन्दित्वा पत्तं गहेत्वा तेन तण्डुलेन भत्तं पचित्वा पत्ते पक्खिपित्वा थेरस्स अदंसु. अथ तेसं सद्धाबलेन सा उक्खलि भत्तेन परिपुण्णा अहोसि, ते तं अब्भुतं दिस्वा अय्यस्स दिन्नदाने विपाको अज्जेव नो दिट्ठोति सोमनस्सजाता महाजनं सन्निपातेत्वा ते भत्तं भोजेत्वा पच्छा सयं भुञ्जिंसु. भत्तस्स गहितगहितट्ठानं पूरतेव. ततो पट्ठाय ते सम्पत्तमहाजनस्स दानं ददन्ता आयुपरियोसाने देवलोके निब्बत्तिंसु, अथ सो थेरो भत्तं आदाय गन्त्वा अञ्ञतरस्मिं रुक्खमूले निसीदित्वा भुञ्जितुमारति. तस्मिं किर रुक्खे निब्बत्तो एको देवपुत्तो आहारेन किलन्तो भुञ्जमानं थेरं दिस्वा अत्तभावं विजहित्वा महल्लकवेसेन तस्स समीपे अट्ठासि. थेरो अनावज्जित्वाव भुञ्जति. देवपुत्तो चरिमालोपं ठपेत्वा भुत्तकाले उक्कासित्वा अत्तानं ठितभावं जानापेसि. थेरो तं दिस्वा विप्पटिसारि हुत्वा चरिमं भत्थपिण्डं तस्स हत्थे ठपेसि, ततो सो भत्तपिण्डं गहेत्वा ठितो चिन्तेसि. इतो किर मया पुब्बे समणब्राह्मणानं वा कपणद्धिकानं वा अन्तमसो काकसुनखा दीनम्पि आहारं अदिन्नपुब्बं भविस्सति, तेनवाहं देवो हुत्वापि भत्तं न लभामि. हन्दाहं इमं भत्तपिण्डं थेरस्सेव दस्सामि, तं मे भविस्सति दीघरत्तं हिताय सुखाय चाति. एवञ्च पन चिन्तेत्वा भत्तपिण्डे आसं पहाय थेरं उपसङ्कम्म सामि दासस्स वो अलं इध लोकेन सङ्गहं. परलोकेन मे सङ्गहं करोथाति वत्वा तस्स पत्ते ओकिरि. अथस्स भत्थपिण्डं [भत्थपिण्डं इतिसब्बत्थ] पत्ते पतितमत्तेयेव तिगावुतट्ठाने दिब्बमयानि भत्तभाजनानिपञ्ञायिंसु. देवपुत्तो थेरं पञ्चपतिट्ठितेन वन्दित्वा ततो दिब्बभोजनं गहेत्वा पथमं दानं दत्वा पच्छा सयं भुञ्चि. ततो देपुत्तो दुतियदिवसतो पट्ठाय थेरस्स च सम्पत्तमहाजनस्स च महादानं देन्तो आयुपरियोसाने ० देवलोके निब्बत्तित्वा छसु कामसग्गेसु अपरापरं दिब्बसम्पत्ति मनुभवमानो पदुमुत्तरस्स भगवतो काले ततो चुतो बाराणसियं अनेकविभवस्स मिच्छादिट्ठिकस्स कुटुम्बिकस्स गेहे निब्बत्ति. देवोतिस्स नामं अकंसु. अपरभागे विञ्ञुतं पत्तस्स तस्स मातापितरो कालमकंसु. सोवण्णमणिमुत्तादिपूरितकोट्ठागारादयो ओलोकेत्वा मम मातापितरो मिच्छादिट्ठिकत्ता इतो दानादिकिञ्चिकम्मं अकरित्वा परलोकं गच्छन्ता काकणिकमत्तम्पि अगहेत्वा गता, अहं पन तं गहेत्वाव गमिस्सामीति सन्निट्ठानं कत्वा भेरिं चरापेत्वा कपणद्धिकवनिब्बके सन्निपातेत्वा सत्ताहब्भन्तरे सब्बं सापतेय्यं दानमुखेन दत्वा अरञ्ञं पविसित्वा इसिप्पब्बज्जं पब्बजित्वा कसिणपरिकम्मं कत्वा पञ्च भिञ्ञा अट्ठ समापत्तियो निब्बत्तेत्वा आकासचारी अहोसि. अथ तस्मिंसमये पदुमुत्तरो नाम भगवा हंसवतीनगरे पटिवसन्तो देवब्रह्मादिपरिवुतो चतुसच्चपटिसंयुत्तं धम्मं देसेन्तो निसिन्नो होति, तदा सो तापसो आकासेन गच्छन्तो महाजनसमागमञ्च भगवतो सरीरतो निक्खन्तछब्बण्णरंसियो च दिस्वा किमेतंति विम्हितो आकासा ओतरित्वा महतिया बुद्धलीळाय निसीदित्वा धम्मं देसेन्तं भगवन्तं दिस्वा पसन्नमानसो परिसन्तरे निसिन्नो धम्मं सुत्वा भगवन्तं वन्दित्वा अत्तनो अस्सममेव अगमासि. अथ सो तत्थ यावतायुकं ठत्वा आयुपरियोसाने तावतिंसभवने निब्बत्तो तिंसकप्पे दिब्बसम्पत्तिमनुभवन्तो छसु कामसग्गेसु अपरापरियवसेन संसरि. एकपञ्ञासअत्तभावे सक्को देवराजा अहोसि, एककवीसतिअत्तभावे चक्कवत्ति हुत्वा मनुस्ससम्पत्ति मनुभवित्वा इमस्मिंबुद्धुप्पादे भगवति परिनिब्बुते सावत्थियं अञ्ञतरस्मिं कुलगेहे निब्बत्तित्वा सत्तवस्सिको एकं भिक्खुं धम्मं देसेन्तं अद्दस. दिस्वा तं उपसङ्कमित्वा धम्मं सुत्वा अनिच्चसञ्ञं पटिलभित्वा तत्थ निसिन्नोव अरहत्तं पापुणि, ततो सो पत्तपटिसम्भिदो अत्तना कतपुञ्ञकम्मं ओलोकेन्तो तं पुब्बचरियं भिक्खूनं मज्झे पकासेन्तो आह. तस्मा.
१. नारदो किर सम्बुद्धो, पुब्बे आसि नरुत्तमो;
लोकं दुक्खा पमोचेन्तो, ददन्तो अमतं पदं.
२. तस्मिं तु समये तस्स, सावको छिन्नबन्धनो;
भिक्खित्वा दीपके लद्ध, माहारं परिभुञ्जितुं.
३. रुक्खमूल मुपा गञ्छि, तत्थासिं रुक्खदेवता;
बुभुक्खिता उदिक्खन्ती, अट्ठासिं तस्स सन्तिके.
४. अदासि मे भत्तपिण्डं, करुणापूरितन्तरो;
गहेत्वान ठितो पिण्डं, सहमानो खुदं तदा.
५. अदिन्नत्ता मया पुब्बे, किञ्चि दानं सुपेसले;
जिघच्छापीळितो होमि, जातोपि देवयोनियं.
६. अज्ज खेत्तं सुलद्धंमे, देय्यधम्मोपि विज्जति;
बीजमेत्थ च रोपेमि, भवतो परिमुत्तिया.
७. इति चिन्तिय वन्दित्वा, दासस्स सामि वो अलं;
सङ्गहं इध लोकस्मिं, करोथ पारलोकिकं.
८. इति वत्वा अदासाहं, भुञ्चि सोपि दयापरो;
तेनाहं पुञ्ञकम्मेन, सुधन्नमलभिं खणे.
९. ततो चुतो छदेवेसु, विन्दन्तो महतिंसिरिं;
चिरकालं वसिं तत्थ, देविद्धीहि समङ्गिता.
१०. सतसहस्से इतो कप्पे, पदुमुत्तरनामको;
उप्पज्जि लोकनायको, धम्मराजा तथागतो.
११. महिद्धिको तदा आसिं, तापसो कानने वने;
सम्पत्तपञ्चा भिञ्ञाणो, आकासेन चरामहं.
१२. तदा कासेन गच्छन्तो, रम्मे हंसवतीपुरे;
बुद्धरंसिपरिक्खित्तं, केतुमालाविलासितं.
१३. देवसङ्घपरिब्बूळ्हं, देसेन्तं अद्दसं जिनं;
सो तं दिस्वान नभसा, ठितोहं परिसन्तरे.
१४. धम्मं सुत्वा उदग्गोहं, कालं कत्वान सत्थुनो;
ततो चुतो पपन्नोस्मि, तावतिंसे मनोरमे.
१५. तिंसकप्पसहस्सानि, चरन्तो देवमानुसे;
दुग्गतिं नाभिजानामि, लभामि विपुलं सुखं.
१६. एकपञ्ञासतिक्खत्तुं, देवरज्जमकारयिं;
अथेकवीसतिक्खत्तुं, चक्कवत्ती अहोसहं.
१७. पदेसरज्जं कासाहं, बहुक्खत्तुं तहिं तहिं;
इमस्मिं भद्दके कप्पे, निब्बुतेतु [निब्बुतेसु इतिसब्बत्थ] तथागते.
१८. चोदितो पुञ्ञकम्मेन, सावत्थिपुरमुत्तमे;
उप्पज्जित्वा कुले सेट्ठे, जातिया सत्तवस्सिको.
१९. सुत्वा धम्मं कथेन्तस्स, भिक्खुस्सञ्ञतरस्सहं;
भवस्सन्तं करित्वान, अरहत्तमपापुणिं.
२०. सुदिन्नं मे तदा दानं, सुस्सुतं धम्ममुत्तमं;
दुक्खस्सन्तं अकासाहं, तस्स कम्मस्स वाहसाति.
एवञ्च पन वत्वा बहू जने कुसलकम्मे नियोजेसीति.
२१. दानेनपेवं चरिमाय पिण्डिया,
सवणाय धम्मस्स मुहुत्तकेन;
लभन्ति सत्ता तिविधम्पि सम्पदं,
फलं वदे को बहुदायकस्स भो.
देवपुत्तस्स वत्थुं नवमं.