यक्खवञ्चितवग्गो
२१. यक्खवञ्चित वत्थुम्हि अयमानुपुब्बीकथा
भगवति परिनिब्बुतम्हि कोसलरञ्ञो किर जनपदे तुण्डगामोनाम अहोसि. तत्थेको बुद्धदासो नाम मनुस्सो ‘‘यावजीवं बुद्धं सरणं गच्छामि. बुद्धो मे सरणं ताणं लेणं परायणन्ति’’ एवं जीवितपरियन्तं बुद्धं सरणं गतो पटिवसति, तस्मिं समये एको जनपदवासिको तत्थ तत्थ आहिण्डन्तो तं तुण्डगामं पत्वा तस्सेव घरे निवासं कप्पेसि, तस्स पन जानपदिकस्स सरीरे एको यक्खो आविसित्वा पीळेति, तदा तस्स गामस्स पविसनकाले यक्खो बुद्धदासो पासकस्स गुणतेजेन तस्स गेहं पविसितुं असक्कोन्तो तं मुञ्चित्वा बहिगामे सत्ताहं अट्ठासि तस्सागमनं ओलोकेन्तो. ततो सो जानपदिको सत्तदिवसं तत्थ वसित्वा सत्तमे दिवसे सकरट्ठं गन्तुकामो गामा निक्खमि. अथ तं तथा निक्खन्तं दिस्वा यक्खो अग्गहेसि, अथ सो तं एत्तकं कालं कुहिंगतोसीति पुच्छि. यक्खो भो तवत्थाय एत्थ वसन्तस्स मे सत्ताहं अतिक्कन्तन्ति. ततो सो को ते मया अत्थो, किं ते दम्मीति, अथ यक्खेन भो अहं खुदाय पीळितो भत्तेन मे अत्थोति वुत्तो सो एवं सति कस्मा मं अन्तोगेहे वसन्तं न गण्हीति आह. यक्खेन भो तस्मिं घरे बुद्धं सरणं गतो एको उपसको अत्थि, तस्स सीलतेजेन गेहं पविसितुमसक्कोन्तो अट्ठासिन्ति वुत्तो जानपदिको सरणं नाम किन्ति अजानन्तो किन्ति वत्वा सो सरणं अग्गहेसीति यक्खं पुच्छि. यक्खो ‘‘बुद्धं सरणं गच्छामी’’ति वत्वा सरणं अग्गहेसीति आह. तं सुत्वा जानपदिको इदानि इमं वञ्चेस्सामीति चिन्तेत्वा तेनहि यक्ख अहम्पि बुद्धं सरणं गच्छामीति आह. एवं वुत्तमत्तेयेव यक्खो महासद्दं करोन्तो भ ये न भमन्तो पलायि, एवं सम्मासम्बुद्धस्स सरणं इधलोके भयो पद्दव निवारणत्थं होति, परलोके सग्गमोक्खावहं. तथाहि.
१. बुद्धोति वचनं एतं, अमनुस्सानं भयावहं;
बुद्धभत्तिकजन्तूनं, सब्बदा मुदमावहं.
२. सब्बोपद्दवनासाय, पच्चक्खदिब्बमोसधं;
दिब्बमन्तं महातेजं, महायन्तं महब्भुतं.
३. तस्मा सो दारुणो यक्खो,
दिस्वा तं सरणे ठिथं;
उब्बिग्गो च भयप्पत्तो,
लोमहट्ठो च छम्भीतो.
४. भमन्तो धावितं दिस्वा, तिमिरोव सुरियुग्गते,
सिम्बलितूलभट्ठंव, चण्डवातेन खण्डितं.
५. यं दुक्खं राजचोरारि, यक्खपेता दिसम्भवं;
निच्छन्तेन मनुस्सेन, गन्तब्बं सरणत्तयंति.
ततो जानपदिको सरणागमने महागुणं महानिसंसं ओलोकेत्वा बुद्धे सगारवो सप्पेमो ‘‘जीवितपरियन्तं बुद्धं सरणं गच्छामी’’ति सरणं गन्त्वा तेनेव सरणागमनानुभावेन जीवितपरियोसाने सुत्तप्पबुद्धोविय देवलोके निब्बत्तीति.
६. दिस्वान एवं सरणं गतं तं,
अपेन्ति यक्खापि महब्भयेन;
पालेथ सीलं सरणञ्च तस्मा,
जहाथ दुरितं सुगतिं भजव्होति.
यक्खवञ्चितवत्थुं पथमं.
२२. मिच्छदिट्ठिकस्स वत्थुम्हि अयमानुपुब्बीकथा
भगवति धरमाने राजगहनगरे किर एको ब्रह्मभत्तिको मिच्छादिट्ठिको पटिवसति, तत्थेव सम्मादिट्ठिकोपि. तेसं उभिन्नम्पि द्वे पुत्ता अहेसुं. ते एकतो कीळन्ता वड्ढन्ति. अथापरभागे गुळकीळंकीळन्तानं सम्मादिट्ठिकस्स पुत्तो ‘‘नमो बुद्धया’’ति वत्वा गुळ्हं खिपन्तो दिवसे दिवसे जिनाति. मिच्छादिट्ठिकस्स पुत्तो ‘‘नमो ब्रह्मुनो’’ति वत्वा खिपन्तो पराजेति, ततो मिच्छादिट्ठिकस्स पुत्तो निच्चं जिनन्तं सम्मादिट्ठिकं कुमारं दिस्वा सम्म त्वं निच्चमेव जिनासि, किं वत्वा गुळं खिपसीति पुच्छि. सोहं सम्म ‘‘नमो बुद्धाया’’ति वत्वा खिपामीति आह. सोपि ततो पट्ठाय ‘‘नमो बुद्धाया’’ति वत्वा खिपति, अथ ते येभुय्येन दूते समसमाव होन्ति. अपरभागे मिच्छादिट्ठिकस्स पुत्तो पितरा सद्धिं दारूनमत्थाय वनं गन्त्वा सकटेन दारुं गहेत्वा आगच्छन्तो नगरद्वारसमीपे सकटं विस्सज्जेत्वा तिणे खादनत्थाय गोणे विस्सज्जेसि, गोणा तिणं खादन्तो अञ्ञेहि गोरूपेहि सद्धिं अन्तोनगरं पविसिंसु. अथस्स पिता गोणे परियेसन्तो सकटं ओलोकेहीति पुत्तं निवत्तेत्वा नगरं पविट्ठो अहोसि, अथ सायण्हे जाते मनुस्सा नगरद्वारं पिदहिंसु, ततो कुमारो बहिनगरे दारुसकटस्स हेट्ठा सयन्तो निद्दूपगतो अहोसि. अथ तस्सा रत्तिया सम्मादिट्ठिको च मिच्छादिट्ठिको चाति द्वे यक्खा गोचरं परियेसमाना सकटस्स हेट्ठा निपन्नं कुमारं अद्दसंसु, तेसु मिच्छादिट्ठिको इमं खादामीति आह. अथापरो मा एव मकासि, ‘‘नमो बुद्धाया’’ति वाचको एसोति, खादामेवेतन्ति वत्वा इतरेन यावततियं वारियमानोपि गन्त्वा तस्स पादे गहेत्वा आकड्ढि. तस्मिं खणे दारको पुब्बपरिचयेन ‘‘नमो बुद्धाया’’ति आह तं सुत्वा यक्खो भयप्पत्तो लोमहट्ठो हत्थं विस्सज्जेत्वा पटिक्कम्म अट्ठासि. अहो अच्छरियं बुद्धानुभावं अब्भुतं, एवं अत्तं अनीय्यातेत्वा परिचयेन ‘‘नमो बुद्धाया’’ति वुत्तस्सपि भयं छम्भितत्तं उपद्दवं वा न होति. पगेव अत्तं नीय्यातेत्वा यावजीवं बुद्धं सरणं गतस्साति. वुत्तञ्हि.
१. यथापि सिखिनो नादं, भुजङ्गानं भयावहं;
एवं बुद्धोति वचनं, अमनुस्सानं भयावहं.
२. यथा मन्तस्स जप्पेन, विलयं याति किब्बिसं;
एवं बुद्धोति वचनेन, अपयन्ति [पहायन्ति इतिसब्बत्थ] पिसाचका.
३. अग्गिं दिस्वा यथा सित्थं, दूरतोव विलीयति;
दिस्वानेवं सरणगतं, पेता पेन्तिव [पेतापेन्ताव इतिकत्थचि] दूरतो.
४. पवरं बुद्धइच्चेत, मक्खरद्वयमब्भुतं;
सब्बो पद्दवनासाय, थिरपाकार मुग्गतं.
५. सत्तरतनपासादं, तमेव वजिरं गुहं;
तमेव नावं दीपं तं, तमेव कवचं सुभं.
६. तमेव सिरसि भासन्तं, किरीटं रतनामयं;
ललाटे तिलकं रम्मं, कप्पूरं नयनद्वये.
७. ताडङ्कं कण्णयुगले, सोण्णमाला गले सुभा;
एकावळि तारहार, भारा जत्तुसु लङ्कता.
८. अङ्गदं बाहुमूलस्स, करग्गे वलयं तथा;
अङ्गुलिस्वङ्गुलियञ्च, खग्गं मङ्गलसम्मतं.
९. सोण्णा तपत्त मुण्हीसं, सबाणंव सरासनं;
तमेव सब्बालङ्कारं, तमेव दुरितापहं.
१०. तस्मा हि पण्डितो पोसो,
लोकलोचनसत्थुनो;
सरणं तस्स गन्तेव,
गुणनामं एहिपस्सिकं.
११. नमोति वचनं पुब्बं, बुद्धायेति गिरं तदा;
सुपन्तेन कुमारेन, मिच्छादिट्ठिकसूनुना.
१२. सुत्वा वुत्तं पिसा चापि, मनुस्सकुणपे रता;
न हिंसन्ति अहो बुद्ध, गुणसारमहन्तताति.
अथ सम्मादिट्ठिकयक्खो मिच्छादिट्ठिकस्स यक्खस्स एवमाह, अयुत्तं भो तया कतं. बुद्धगुणे पहारो दिन्नो, दण्डकम्मं तया कातब्बंति, तेन किंमया सम्म कातब्बन्ति वुत्ते बुभुक्खितस्स आहारं देहीति आह. ततो सो साधूति वत्वा यावाहं आगच्छामि, त्वं तावेत्थ वच्छाहीति वत्वा बिम्बिसाररञ्ञो कञ्चनतट्टके वड्ढितं रसभोजनं आहरित्वा कुमारस्स पितुवण्णेन दारकं भोजेत्वा पुन कुमारेन वुत्तबुद्धवचनञ्च अत्तना कतवायामं चाति सब्बं तट्टके लिखित्वा इदं रञ्ञोयेव पञ्ञायतूति अधिट्ठाय अगमंसु, अथ पभाताय रत्तिया रञ्ञो भोजनकाले राजपुरिसा तत्थ तट्टकं अदिस्वा नगरं उपपरिक्खन्ता सकटे दारकञ्च तट्टकञ्च दिस्वा तट्टकेन सद्धिं तं गहेत्वा रञ्ञो दस्सेसुं. राजा तट्टके अक्खरादीनि दिस्वा वाचेत्वा तस्स गुणे पसन्नो महन्तेन यसेन सद्धिं सेट्ठिट्ठानमदासि.
१३. जिनस्स नामं सुपिनेन पेवं,
न होति भीतिं लपनेन यस्मा;
तस्मा मुनिन्दं सततं सराथ,
गुणे सरन्ता सरणञ्च याथाति.
मिच्छादिट्ठिकस्स वत्थुं दुतियं.
२३. पादपीठिकाय वत्थुम्हि अयमानुपुब्बीकथा
जम्बुदीपे महाबोधितो किर दक्खिणपस्से एतं पच्चन्तनगरं अहोसि. तत्थ सद्धासम्पन्नो रतनत्तयमामको एको उपासको पटिवसति. तदा एको खीणासवो भगवता परिभुत्तं पादपीठं थविकाय पक्खिपित्वा गतगतट्ठाने पूजेन्तो अनुक्कमेन तं नगरं सम्पापुणित्वा सुनिवत्थो सुपारुतो पत्तं गहेत्वा अन्तरवीथिं पटिपज्जि युगमत्तदसो पब्बज्जालीलाय जनं परितोसेन्तो. अथ सो उपासको तथा गच्छन्तं थेरं दिस्वा पसन्नमानसो उपगन्त्वा पञ्चपतिट्ठितेन वन्दित्वा पत्तं गहेत्वा भोजेत्वा निबद्धं मम गेहं आगमनमिच्छामि, ममानुकम्पाय एत्थेव वसथ सामीति याचित्वा नगरासन्ने रमणीये वनसण्डे नदीकूले पण्णसालं कत्वा थेरस्स तं नीय्यातेत्वा चतुपच्चयेहि पटिजग्गन्तो मानेन्तो पूजेन्तो वसति. थेरोपि तत्थ फासुकट्ठाने भगवता परिभुत्तपादपीठधातुं निधाय वालुकाहि थूपं कत्वा निच्चं गन्धधूपदीपपुप्फपूजादीहि पूजयमानो वासं कप्पेति. तस्मिं समये तस्सो पासकस्स अनन्तरगेहवासिको एको इस्सरभत्तिको अत्तनो देवतं निबद्धं नमस्सति. तं दिस्वास्स उपासको बुद्धगुणे वत्वा अखेत्ते सम्म मा विरियं करोहि. पजहेतं दिट्ठिंति आह. ततो सो केराटिको इस्सरभत्तिको को ते सत्थु गुणानुभावो, अम्हाकं इस्सरस्स गुणोव महन्तोति वत्वा तस्स अगुणं गुणन्ति कथेन्तो आह.
१. तिपुरं सो विनासेसि, ललाटनयनग्गिना;
असुरेच विनासेसि, तिसूलेन महिस्सरो.
२. जटाकलापमावत्तं, नच्चती दिनसन्धियं;
वादेति भेरिवीणादिं, गीतंचापि स गायति.
३. भरियायो तस्स तिस्सो, जटायेकं समुब्बहे;
एकमेकेन पस्सेन, पस्समानो चरेककं.
४. हत्थिचम्मम्बरधरो, तेनेव वारिता तपो;
असादिसेहि पुत्तेहि, रूपेन च सुपाकटो.
५. रतिया च मधुपाने च, ब्यावटो सब्बदा च सो;
मनुस्सट्ठिधरो सीस, कपालेनेस भुञ्जकि.
६. न जातो न भयं तस्स, मरणं नत्थि सस्सतो;
ईदिसो मे महादेवो, नत्थञ्ञस्सीदिसो गुणोति.
तं सुत्वा उपासको सम्म तुय्हं इस्सरस्स एते गुणा नाम ताव होन्तु. अगुणा नाम कित्तका होन्तीति वत्वा भगवतो सकलगुणे संहरित्वा कथेन्तो आह.
७. लोके सब्बसवन्तीनं, आधारो सागरो यथा;
सब्बेसं गुणरासीनं, आधारोव तथागतो.
८. चराचरानं सब्बेसं, आधाराव धरा अयं;
तथा गुणानं सब्बेसं, आधारोव तथागतो.
९. एवं सन्तो वियत्तोच [वियन्तो इतिकत्थचि], एवं सो करुणापरो;
एव मिद्धिविधा तस्स, एवमेवं गुणा इति.
१०. बुद्धोपि सक्कोति न यस्स वण्णे,
कप्पम्पि वत्वा खयतं गमेतुं;
पगेव च ब्रह्मसुरा सुरेहि,
वत्तुं न हानन्तगुणस्स वण्णन्ति.
एवं वदन्ता पन ते उभोपि अम्हाकं देवो उत्तमो अम्हाकं देवो उत्तमोति कलहं वड्ढेत्वा रञ्ञो सन्तिकमगमंसु, राजा तेसं कथं सुत्वा तेनहि तुम्हाकं देवतानं महन्तभावं इद्धिपाटिहारियेन जानिस्साम. दस्सेथ तेहि नो इद्धिंति नगरे भेरिं चरापेसि. इतो किर सत्ताहच्चयेन इमेसं द्विन्नं सत्थारानं पाटिहारियानि भविस्सन्ति. सब्बे सन्निपतन्तूति तं सुत्वा नानादिसासु बहू मनुस्सा समागमिंसु, अथ मिच्छादिट्ठिका अज्ज अम्हाकं देवस्स आनुभावं पस्सामाति महन्तं पूजं करोन्तो तत्थ सारं नाद्दसंसु, सम्मादिट्ठिकापि अज्ज अम्हाकं भगवतो आनुभावं पस्सिस्सामाति वाळुकाथूपं गन्त्वा गन्धमालादीहि पूजेत्वा पदक्खिणं कत्वा अञ्जलिम्पग्गय्ह अट्ठंसु. अथ राजापि बलवाहनपरिवुतो एकमन्ते अट्ठासि. नानासमयवादिनोपि अज्ज तेसं पाटिहारियं पस्सिस्सामाति मञ्चातिमञ्चं कत्वा अट्ठंसु. तेसं समागमे सम्मादिट्ठिका वाळुकाथूप मभिमुखं कत्वा अञ्जलिम्पग्गय्ह सामि अम्हाकं भगवा सब्बबुद्धकिच्चानि निट्ठापेत्वा अनुपादिसेसाय निब्बाणधातुया परिनिब्बायि. सारिपुत्तमहामोग्गल्लानादयो असीतिमहासावकापि परिनिब्बायिंसु, नत्थेत्थ अम्हाकं अञ्ञं पटिसरणन्ति वत्वा सच्चकिरियं करोन्ता आहंसु.
११. आपाणकोटिं बुद्धस्स, सरणं नो गता यदि;
तेन सच्चेन यं धातु, दस्सेतु पाटिहारियं.
१२. आपाणकोटिं धम्मस्स, सरणं नो गता यदि;
तेन सच्चेन यं धातु, दस्सेतु पाटिहारियं.
१३. आपाणकोटिं सङ्घस्स, सरणं नो गता यदि;
तेन सच्चेन यं धातु, दस्सेतु पाटिहारियं.
१४. रामकाले मुनिन्दस्स, पादुका चासि अब्भुता;
तेन सच्चेन यं धातु, दस्सेतु पाटिहारियं.
१५. छद्दन्तकाले मुनिनो, दाठा छरंसिरञ्जिता;
तेन सच्चेनयं धातु, निच्छारेतु छ रंसियो.
१६. जातमत्तो तदा बुद्धो, ठितो पङ्कजमुद्धनि;
निच्छारेसासभिंवाचं, अग्गो सेट्ठोतिआदिना;
तेन सच्चेनयं धातु, दस्सेतु पाटिहारियं.
१७. निमित्ते चतुरो दिस्वा, निक्खन्तो अभिनिक्खमं;
तेन सच्चेन यं धातु, दस्सेतु पाटिहारियं.
१८. मारसेनं पलापेत्वा, निसिन्नो बुज्झि बोधियं;
तेन सच्चेन यं धातु दस्सेतु पाटिहारियं.
१९. धम्मचक्कं पवत्तेसि, जिनो सिपतने तदा;
तेन सच्चेन यं धातु, दस्सेतु पाटिहारियं.
२०. नन्दोपनन्दभोगिन्दं, नागं नालागिरिव्हयं;
आळवका दयो यक्खे, ब्रह्मानो च बका दयो.
२१. सच्चकादिनिगण्ठेच, कूटदन्ता दयो द्विजे;
दमेसि तेन सच्चेन, दस्सेतु पाटिहारियंति.
एवञ्च पन वत्वा उपासका अम्हाकं अनुकम्मं पटिच्च महाजनस्स मिच्छादिट्ठिभेदनत्तं पाटिहारियं दस्सेथ सामीति आराधेसुं. अथ बुद्धानुभावञ्च थेरानुभावञ्च उपासकानं सच्चकिरियानुभावञ्च पटिच्च वाळुकाथूपं द्विधा भिन्दित्वा पादपीठधातु आकास मब्भुग्गन्त्वा छब्बण्णरंसियो विस्सज्जेन्ती विलासमाना अट्ठासि. अथ महाजना चेलुक्खेपसहस्सानि पवत्तेन्ता साधुकीळ्हं कीळन्ता महानादं पवत्तेन्ता महन्तं पूजमकंसु. मिच्छादिट्ठिकापि इमं अच्छरियं दिस्वा विम्हितमानसा मिच्छादिट्ठिं भिन्दित्वा रतनत्तयपरायणा सरण मगमंसूति.
२२. फुट्ठोपि पादेन जिनस्स एवं,
कलिङ्गरो पा सि महानुभावो;
लोकेकनाथस्स अनासवस्स,
महानुभावो हि अचिन्तनीयोति.
पादपीठिकाय वत्थुं ततियं.
२४. उत्तरसामणेरस्स वत्थुम्हि अयमानुपुब्बीकथा
सो किर पुरिमबुद्धेसु [पुरिमबुद्धे इतिसब्बत्थ] कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो सुमेधस्स भगवतो काले विज्जाधरो हुत्वा हिमवति पटिवसति. तदा सुमेधो नाम सम्मासम्बुद्धो विवेक मनुब्रूहन्तो हिमवन्तं गन्त्वा रमणीये पदेसे पल्लङ्कं आभुजित्वा निसीदि. तदा विज्जाधरो आकासेन गच्छन्तो छब्बण्णरंसीहि विराजमानं भगवन्तं दिस्वा तीहि कणिकारपुप्फेहि पूजेसि, पुप्फानि बुद्धानुभावेन सत्थु उपरि छत्ताकारेन अट्ठंसु, सो तेन भीय्योसो मत्ताय पसन्नचित्तो हुत्वा अपरभागे कालंकत्वा तावतिंसभवने निब्बत्तित्वा उळारं दिब्बसम्पत्तिमनुभवन्तो यावतायुकं तत्थ ठत्वा ततो चुतो देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहनगरे ब्राह्मणमहासालस्स पुत्तो हुत्वा निब्बत्ति. उत्तरोतिस्स नामं अहोसि. सो उत्तमरूपधरो विञ्ञुतं पत्तो ब्राह्मणविज्जासु निप्फत्तिं पत्वा जातिया रूपेन विज्जाय सीलाचारेन च लोकस्स महनीयो जातो, तस्स तं पञ्ञासम्पत्तिंदिस्वा वस्सकारो मगधमहामत्तो अत्तनो धीतरं दातुकामो हुत्वा अत्तनो अधिप्पायं पवेदेसि. सो निस्सरणज्झासयताय तं पटिक्खिपित्वा कालेनकालं धम्मसेनापतिं पयिरुपासन्तो तस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा वत्तसम्पन्नो हुत्वा थेरं उपट्ठहति. तेन च समयेन थेरस्स अञ्ञतरो आबाधो उप्पन्नो होति, तस्स भेसज्जत्थाय उत्तरसामणेरो पातोव पत्तचीवर मादाय विहारतो निक्खम्म अन्तरामग्गे तळाकस्स तीरे पत्तं ठपेत्वा उदकसमीपं गन्त्वा मुखं धोवति, तदा अञ्ञतरो उम्मग्गचोरो कतकम्मो आरक्खपुरिसेहि अनुबद्धो अग्गद्वारेनेव नगरतो निक्खमित्वा पलायन्तो अत्तना गहितं रतनभण्डिकं सामणेरस्स पत्ते पक्खिपित्वा पलायि. सो सामणेरोपि पत्तसमीपं [सत्तुसमीपं इतिपि कत्थचि] उपगतो होति, चोरं अनुबन्धन्ता राजपुरिसा सामणेरस्स पत्ते भण्डिकं दिस्वा अयं चोरो, इमिना चोरियं कतन्ति सामणेरं पच्छाबाहं बन्धित्वा वस्सकारस्स ब्राह्मणस्स दस्सेसुं. वस्सकारो च तदा रञ्ञो विनिच्छये नियुत्तो हुत्वा छेज्जभेज्जं अनुसासति. सो एसो पुब्बे मम वचनं नादियि. सुद्धपासण्डियेसु पब्बजीति च बद्धाघातत्ता तं कम्मं असोधेत्वाव जीवन्तमेवेतं सूले उत्तासेथाति आणा पेसि, राजपुरिसा तं निम्बसूले उत्तासेसुं. सामणेरो सूलग्गे निसिन्नो उपज्झायस्स मे को भेसज्जं आहरिस्सतीति सारिपुत्तत्थेरं सरि. ततो थेरो तं पवत्तिं ञत्वा सम्मासम्बुद्धस्स कथेसि, भगवापि महासावकपरिवुतो तस्स ञाणपरिपाकं ओलोकेत्वा तं ठानमगमासि. ततो भगवतो निक्खन्तभावा सकलनगरे कोलाहलं अहोसि, महाजनकायो सन्निपति. अथ भगवा विप्फुरन्तहत्थतले नखमणिमयूखसम्भिन्नपीताभासताय पग्घरन्तजातिहिङ्गुलकसुवण्णरसधाराविय जालावगुण्ठितमुदुतलुनङ्गुलं हत्थं उत्तरस्स सीसे ठपेत्वा उत्तर इदं ते पुब्बे कतपापकम्मस्स फलं उप्पन्नं, तत्थ तया पच्चवेक्खणबलेन अधिवासना कातब्बाति आह. तेनेव आह.
१. अतीते किर एकस्मिं, गामे त्व मसि दारको;
दारेकेहि समागम्म, कीळन्तो केळिमण्डले.
२. गहेत्वा सुखुमं सूकं, तदा त्वं निम्बजल्लिया;
उत्तासेसि तत्थ सूले, जीवमानकमक्खिकं.
३. अपरम्पि ते पापकम्मं, पवक्खामि सुणोहि मे;
ओवदन्तिं हितेन त्वं, अतीते सकमातरं.
४. जीवसूले निसीदाति, कोपेनाभिसपी तुवं;
इमेहि द्वीहि पापेहि, सरं संसारसागरे.
५. पञ्चजातिसते अच्छि, जीवसूलम्हि निम्बजे;
अयं ते चरिमा जाति, एत्थापिच विपच्चि सोति.
एवमादिना नयेन तस्स अज्झासयानुरूपेन धम्मं देसेसि, उत्तरो अमताभिसेकसदिसेन सत्थुनो हत्थसम्फस्ससञ्जातपसादसोमनस्सताय उळारं पीतिपामोज्जं पटिलभित्वा यथापरिचितं विपस्सनामग्गं समारूळ्हो ञाणस्स परिपाकं गतत्ता सत्थु देसनाविलासेन मग्गपटिपाटिया सब्बकिलेसे खेपेत्वा छळभिञ्ञो अहोसि. धम्मं सुत्वा तत्थ समागतानं देवमनुस्सानं चतुरासीतिपाणसहस्सानं धम्माभिसमयो अहोसीति वदन्ति. उत्तरो पन छळभिञ्ञो हुत्वा सूलतो उट्ठहित्वा आकासे ठत्वा पाटिहारियं दस्सेसि. महाजना अच्छरियब्भुतचित्ता जाता अहेसुं. तावदेवस्स वणोरुन्धि, सो भिक्खूहि आवुसो तादिसं दुक्खं अनुभवन्तो कथं त्वं विपस्सनं अनुयुञ्जितुं सक्खीति पुट्ठो पगेव मे आवुसो संसारे आदीनवो सङ्खारानञ्च सभावो सुदिट्ठो. तस्माहं तादिसं दुक्खं अनुभवन्तोपि असक्खिं विपस्सनं वड्ढेत्वा विसेसं अधिगन्तुंति आह. अथापरभागे सो भिक्खुसङ्घमज्झे अत्तनो पुब्बचरिता पदानं पकासेन्तो इमा गाथा अभासि.
६. सुमेधो नाम सम्बुद्धो, द्वत्तिंसवरलक्खणो;
विवेककामो सम्बुद्धो, हिमवन्त मुपागमि.
७. अज्झोगहेत्वा हिमवन्तं, अग्गो कारुणिको मुनि;
पल्लङ्कं आभुजित्वान, निसीदि पुरिसुत्तमो.
८. विज्जाधरो तदा आसिं, अन्तलिक्खचरो अहं;
तिसूलं सुकतं गय्ह, गच्छामि अम्बरे तदा.
९. पब्बतग्गे यथा अग्गि, पुण्णमासेव चन्दिमा;
वनं ओभासते बुद्धो, सालराजाव फुल्लितो.
१०. वनग्गा निक्खमित्वान, बुद्धरंसी विधावरे;
नलग्गिवण्णसङ्कासा, दिस्वा चित्तं पसादयिं.
११. विचिनं अद्दसं पुप्फं, कणिकारं देवगन्धिकं;
तीणि पुप्फानि आदाय, बुद्धसेट्ठं अपूजयिं.
१२. बुद्धस्स आनुभावेन, तीणि पुप्फानि मे तदा;
उद्धवण्टा अधोपत्ता, छायं कुब्बन्ति सत्थुनो.
१३. तेन कम्मेन सुकतेन, चेतनापणिधीहिच;
जहित्वा मानुसं देहं, तावतिंसमगञ्छहं.
१४. तत्थ मे सुकतं ब्यम्हं, कणिकारीति ञायति;
सट्ठियोजन मुब्बेधं, तिंसयोजनवित्थतं.
१५. सहस्सखण्डं सतभेण्डु, धजालु हरितामयं;
सतसहस्सानि ब्यूहानि, ब्यम्हे पातुरहंसु मे.
१६. सोण्णमया मणिमया, लोहितङ्कमया पिच;
फलिका पिच पल्लङ्का, यदिच्छक यदिच्छका.
१७. महारहञ्च सयनं, तूलिकं विकतीयकं;
उद्दलोमिकएकन्तं, बिम्बोहनसमायुतं.
१८. भवना निक्खमित्वान, चरन्तो देवचारिकं;
यदा इच्छामि गमनं, देवसंघपुरक्खतो.
१९. पुप्फस्स हेट्ठा तिट्ठामि, उपरिच्छदनं मम;