२६. चोरघातकवत्थुम्हि अयमानुपुब्बीकथा
एकस्मिं किर समये अम्हाकं भगवा सावत्थियं उपनिस्साय जेतवने विहरति धम्मदेसनाय महाजनस्स सग्गमोक्खसम्पदं ददमानो. तस्मिंसमये पञ्चसता चोरा अटवितो नगरं आगन्त्वा रत्तिभागे चोरकम्मं कत्वा तेन पुत्तदारे पोसेन्ति. अथेकदिवसं चोरा चोरकम्मत्थाय नगरं पविसन्ता नगरद्वारे एकं दुक्खितं जनपदमनुस्सं पस्सित्वा हम्भो कत्थ वसतीति पुच्छिंसु, सो अत्तजना जनपदवासिभावं पकासेसि. अथस्स ते कस्मा भो इमिना दुक्खवासेन वसिस्ससि, एहि अम्हेहि सद्धिं चोरकम्मं करोन्तो वत्थालङ्कारसम्पन्नो पुत्तदारं पोसेहि. इमिना कपणवासेन न वसाति आहंसु. सो पनिमे युत्तं कथेन्तीति तेसं वचनं सम्पटिच्छि. अथ ते एवं सति अम्हेहि सद्धिं आगच्छाहीति वत्वा नं गहेत्वा अन्तोनगरं पविट्ठा तत्थ तत्थ विलुम्पन्ता चोरकम्मं अकंसु. तदा जानपदिको लद्धविभवो इममेव वरतरन्ति तेहि सद्धिं चोरकम्मं करोन्तो जीविकं कप्पेसि, अथेकदिवसं राजपुरिसा कतकम्मे ते सब्बेव गहेत्वा पच्छाबाहं गाळ्हं बन्धित्वा कोसलरञ्ञो दस्सेसुं, राजा ते दिस्वा एवमाह, भणे तुम्हाकं अन्तरे यो एतेसं मारेत्वा जीवितक्खयं पापेस्सति, तस्स जीवितदानं दम्मीति, तं सुत्वा ते चोरा सब्बे अञ्ञमञ्ञञातिसुहदसम्बन्धभावेन तं न इच्छिंसु. सो पन जनपदवासी मनुस्सो अहमेते सब्बे मारेस्सामीति रञ्ञो वत्वा तेनानुञ्ञातो ते सब्बे मारेसि. तं दिस्वा तुट्ठो राजा तस्स चोरघातकम्मं अदासि. सो चोरे च वज्झप्पत्ते च मारेन्तो पञ्चवीसतिवस्सानि वसन्तो अपरभागे महल्लको अहोसि. अथ सो मन्दबलत्ता कतिपयपहारेनापि चोरं मारेतुं न सक्कोति, राजा तं ञत्वा अञ्ञस्स चोरघातकम्मं अदासि. अथ सो चोरघातकम्मा [चोरघातकम्म इतिपिकत्थचि] परिहीनो अत्तनो गेहे वसति. तदा अञ्ञतरो मनुस्सो मन्तं परिवत्तेत्वा नासावातेन मनुस्समारणकमन्तं जानाति. तथाहि हत्थपादकण्णनाससीसादीसु यंकिञ्चि छेज्जभेज्जं कत्तुकामो मन्तं परिवत्तेत्वा नासावातं विस्सज्जेति. तं तं ठानं छिज्जति भिज्जति, एवं महानुभावो सो मन्तो, अथ सो तं पुरिसं उपट्ठहित्वा मन्तं लभित्वा रञ्ञो सासनं पेसेसि. अहं इतो पुब्बे महल्लकत्ता चोरानं हत्थपादादयो दुक्खेन छेज्ज भेज्जं करोमि, मारेतब्बेपि दुक्खेन मारेमि. इदानि पनाहं तथा न करोमि, मम मन्तानुभावेन छेज्जभेज्जकम्मं करिस्सामीति. राजा तं सासनं सुत्वा साधूति तं पक्कोसापेत्वा ठानन्तरं तस्सेव पाकतिक मकासि. सो ततो पट्ठाय तं कम्मं करोन्तो पुन पञ्चवस्सानि अतिक्कामेसि. सो महल्लको खीणायुको दुब्बलो मरणमञ्चपरायणो हुत्वा मरणवेदनादुक्खेन महन्तेन भयानकेन सद्देन विस्सरं विरवन्तो निमीलितेन चक्खुना भयानकं नरकग्गिजालापज्जलन्तअयकूटमुग्गरधरे निरयपाले च पस्सन्तो निपन्नो होति, ततो तस्स पटिविस्सकगेहे मनुस्सा तस्स भयानकसद्दसवणेन गेहं छट्टेत्वा पलायिंसु. तस्मिं किर दिवसे महासारिपुत्तत्थेरो दिब्बचक्खुना लोकं ओलोकेन्ता तं चोरघातकं तदहेव कालंकत्वा निरये निब्बत्तमानं दिस्वा मयि तत्थ गते पनेस मयि पसादेन सग्गे निब्बत्ततीति ञत्वा अज्ज मया तस्सानुग्गहं कातुं वट्टतीति पुब्बण्हसमयं निवासेत्वा तस्स घरद्वार मगमासि. अथ सो थेरं दिस्वा कुद्धो कोपेन तटतटायमानदेहो अज्ज तं विज्झित्वा फालेत्वा मारेस्सामीति निपन्नोव मन्तं परिवत्तेत्वा नासावातं विस्सज्जेसि, थेरो तस्मिं खणे निरोधसमापन्नो निरोधा वुट्ठाय सुरियो विय विरोचमानो अट्ठासि, अथ सो थेरस्स तयो वारे तथेव कत्वा किञ्चि कातुं असक्कोन्तो अतिविय विम्हितचित्तो थेरे चित्तं पसादेत्वा अत्तनो पटियत्तं पायसं थेरस्स दापेसि, थेरो मङ्गलं वड्ढेत्वा विहारमेव अगमासि, चोरघातको थेरस्स दिन्नदानं अनुस्सरन्तो तस्मिं खणे कालं कत्वा सग्गे निब्बत्ति. अहो वीतरागानं बुद्धपुत्तानं आनुभावो. एवं नरके निब्बत्तमानोपिस्स बलेन सग्गे निब्बत्तोति. तथाहि.
१. दानं ताणं मनुस्सानं, दानं दुग्गतिवारणं;
दानं सग्गस्स सोपानं, दानं सन्तिकरं परं.
२. इच्छितिच्छितदानेन, दानं चिन्तामणी विय;
कप्परुक्खोव सत्तानं, दानं भद्दघटोविय.
३. सीलवन्तस्स दानेन, चक्कवत्तिसिरिम्पि च;
लभन्ति सक्कसम्पत्तिं, तथा लोकुत्तरं सुखं.
४. पापकम्मेसु निरतो, ठितोयं नरकायने [नरकावने इतिपिकत्थचि];
सारिपुत्तस्स थेरस्स, पिण्डपातस्स वाहसा.
५. अपायं परिवज्जेत्वा, नेकदुक्खसमाकुलं;
देवसङ्घपरिब्बूळ्हो, गतो देवपुरं वरं.
६. तस्मा सुखेत्ते सद्धाय, देथ दानानि कामदं;
दानं देन्तेहि सीलम्पि, पालनीयंतिसुन्दरन्ति [पालनंचातिसुन्दरं इतिपिकत्थचि].
अथ भिक्खू धम्मसभायं सन्निपतित्वा निसिन्ना भगवन्तं पुच्छिंसु, किंभन्ते सो पापो चतूसु अपायेसु कतरस्मिं निब्बत्तोति. अथ सत्था अज्जेस भिक्खवे सारिपुत्तस्स दिन्नदानानुभावेन देवलोके निब्बत्तो, तस्सेव निस्सन्देन अनागते पच्चेकबुद्धो भविस्सतीति ब्याकासीति.
७. भो सारिपुत्ते निहितप्पदानं,
खणेन पापेति हि सग्गमग्गं;
तस्मा सुखेत्तेसु ददाथ दानं,
कामत्थ चे सग्गमोक्खं परत्थ.
चोरघातकवत्थुं छट्ठमं.