१४. कञ्चनदेविया वत्थुम्हि अयमानुपुब्बीकथा

जम्बुदीपे किर देवपुत्तनगरं नाम दस्सनीयं एकं नगरं अहोसि. तस्मिं समये मनुस्सा येभुय्येन पत्तमहं नाम पूजं करोन्ति, भगवता परिभुत्तपत्तं गहेत्वा कतानेकपूजाविधाना उस्सवं करोन्ति. तं पत्तमहन्ति वुच्चति. तस्मिं समये देवपुत्तनगरे राजा सब्बरतनमयं रथं सब्बालङ्कारेहि अलङ्कारापेत्वा कुमुदपत्तवण्णे चत्तारो सिन्धवे योजेत्वा सुसिक्खितसिप्पाचरियेहि सत्तरतनपरिनिट्ठिते असीतिहत्थवेळग्गे सत्थुना परिभुत्तं सेलमयपत्तं मुत्ताजालादीहि अलङ्करित्वा वेळग्गं आरोपेत्वा वेळुं रथे ठपापेत्वा नगरं देवनगरं विय अलङ्करित्वा धजपताकादयो उस्सापेत्वा तोरणग्घ कपन्तियोच पुण्णघटदीपमालादयोच पतिट्ठापेत्वा अनेकेहि पूजाविधानेहि नगरं पदक्खिणं कारेत्वा नगरमज्झे सुसज्जितरतनमण्डपे पत्तधातुं ठपेत्वा सत्तमे दिवसे महाधम्मसवणं कारापेसि. तदा तस्मिं जनपदे बहू मनुस्साच देवताच यक्खरक्खसनागसुपण्णादयोच मनुस्सवेसेन येभुय्येन तं समागमं ओतरन्ति, एवमच्छरियं तं पूजाविधानं अहोसि.

तदा एको नागराजा उत्तमरूपधरं अगतपुब्बपुरिसं एकं कुमारिकं धम्मपरिसन्तरे निसिन्नं दिस्वा तस्सा पटिबद्धचित्तो अनेकाकारेहि तं या चि त्वा तस्सा अलद्धमानो कुज्झित्वा नासावातं विस्सज्जेसि इमं मारेस्सामीति. तं तस्सा सद्धाबलेन किञ्चि उपद्दवं कातुं समत्थो नाहोसि. अथस्सा नागो पादतो पट्ठाय यावसकलसरीरं भोगेन वेठेत्वा सीसे फणं कत्वा भायापेन्तो अट्ठासि. अनञ्ञविहिताय ताय धम्मसवणबलेन अणुमत्तम्पि दुक्खं नाहोसि. पभाताय रत्तिया तं दिस्वा मनुस्सा किमेतन्ति कारणं पुच्छिंसु, सापि तेसं कथेत्वा एवं सच्चकिरियमकासि. तथाहि.

१. ब्रह्मचारी अहोसाहं, सञ्जाता इध मानुसे;

तेन सच्चेन मं नागो, खिप्पमेव पमुञ्चतु.

२. कामातुरस्स नागस्स, नोकासमकरिंयतो;

तेन सच्चेन मं नागो, खिप्पमेव मुञ्चतु.

३. विसवातेन खित्तस्स, कुपितस्सोरगस्सहं;

अकुद्धा तेन सच्चेन, सो मं खिप्पं पमुञ्चतु.

४. सद्धम्मं सुणमानाहं, गरुगारवभत्तिया;

अस्सोसिं तेन सच्चेन, खिप्पं नागो पमुञ्चतु.

५. अक्खरंवा पदंवापि, अविनासेत्वाव आदितो;

अस्सोसिं तेन सच्चेन, खिप्पं नागो पमुञ्चतूति.

सच्चकिरियावसाने नागराजा तस्सा अतीव पसन्नो भोगं विनिवेठेत्वा फणसतं मापेत्वा तं फणगब्भे निसीदापेत्वा बहूहि नागमानवकेहि सद्धिं उदकपूजं नाम पूज मकासि, तं दिस्वा बहू नगरवासिनो अच्छरियब्भुतजाता अट्ठारसकोटिधनेन पूज मकंसु. तथाहि.

६. नत्थि सद्धासमो लोके, सुहदो सब्बकामदो;

पस्सथस्सा बलं सद्धा, पूजेन्तेवं नरो रगा.

७. इध लोकेव सालत्थ, भवभोग मनप्पकं;

तस्मा सद्धेन कातब्बं, रतनत्तयगारवन्ति.

अथेवं सा पटिलद्धमहाविभवा यावजीवं कोमारिय ब्रह्मचारिणी हुत्वा आयुपरियोसाने कालं कत्वा तस्मिंयेव नगरे रञ्ञो अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गण्हित्वा दसमासच्चयेन मातुकुच्छितो निक्खमि. निक्खन्तदिवसे पनस्सा सकलदेवपुत्तनगरे रतनवस्सं वस्सि. तेनस्सा कञ्जनदेवीति नामं करिंसु. समन्तपासादिका अहोसि. अभिरूपा देवच्छरपटिभागा. मुखतो उप्पलगन्धो वायति. सरीरतो चन्दनगन्धो वायति. सकलसरीरतो बालसुरियो विय रंसियो निच्छारेन्ती चतुरतनगब्भे पदीपकिच्चं नाम नत्थि. सब्बो गब्भो सरीरा लोकेन एको भासो होति, तस्सा रूपसम्पत्ति सकलजम्बुदीपे पाकटा अहोसि. ततो सकलजम्बुदीपवासी राजानो तस्सा अत्थाय पितुरञ्ञो पण्णाकारानि पहिणिंसु. सा पन पञ्चकामे अननुलित्ता पितरं अनुजानापेत्वा भिक्खुनू पस्सयं गन्त्वा पब्बजित्वा विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणीति.

८. सुत्वान सादरवसेन कुमारिकेवं;

धम्मञ्हि सीलममलं परिपालयन्ती;

लद्धान नेकविभवं विभवं पयाता,

मा भो पमज्जथ सदा कुसलप्पयोगेति.

कञ्चनदेविया वत्थुं चतुत्थं.