६७. तस्सुद्दानं

१३१. विनयम्हि महत्थेसु, पेसलानं सुखावहे;

निग्गहानञ्च पापिच्छे, लज्जीनं पग्गहेसु च.

सासनाधारणे चेव, सब्बञ्ञुजिनगोचरे;

अनञ्ञविसये खेमे, सुपञ्ञत्ते असंसये.

खन्धके विनये चेव, परिवारे च मातिके;

यथात्थकारी कुसलो, पटिपज्जति योनिसो.

यो गवं न विजानाति, न सो रक्खति गोगणं;

एवं सीलं अजानन्तो, किं सो रक्खेय्य संवरं.

पमुट्ठम्हि च सुत्तन्ते, अभिधम्मे च तावदे;

विनये अविनट्ठम्हि, पुन तिट्ठति सासनं.

तस्मा सङ्गाहणाहेतुं [सङ्गाहनाहेतुं (क.)], उद्दानं अनुपुब्बसो;

पवक्खामि यथाञायं, सुणाथ मम भासतो.

वत्थु निदानं आपत्ति, नया पेय्यालमेव च;

दुक्करं तं असेसेतुं, नयतो तं विजानथाति.

बोधि राजायतनञ्च, अजपालो सहम्पति;

ब्रह्मा आळारो उदको, भिक्खु च उपको इसि.

कोण्डञ्ञो वप्पो भद्दियो, महानामो च अस्सजि;

यसो चत्तारो पञ्ञास, सब्बे पेसेसि सो दिसा.

वत्थु मारेहि तिंसा च, उरुवेलं तयो जटी;

अग्यागारं महाराजा, सक्को ब्रह्मा च केवला.

पंसुकूलं पोक्खरणी, सिला च ककुधो सिला;

जम्बु अम्बो च आमलो, पारिपुप्फञ्च आहरि.

फालियन्तु उज्जलन्तु, विज्झायन्तु च कस्सप;

निमुज्जन्ति मुखी मेघो, गया लट्ठि च मागधो.

उपतिस्सो कोलितो च, अभिञ्ञाता च पब्बजुं;

दुन्निवत्था पणामना, किसो लूखो च ब्राह्मणो.

अनाचारं आचरति, उदरं माणवो गणो;

वस्सं बालेहि पक्कन्तो, दस वस्सानि निस्सयो.

न वत्तन्ति पणामेतुं, बाला पस्सद्धि पञ्च छ;

यो सो अञ्ञो च नग्गो च, अच्छिन्नजटिलसाकियो.

मगधेसु पञ्चाबाधा, एको राजा [भटो चोरो (स्या.)] च अङ्गुलि;

मागधो च अनुञ्ञासि, कारा लिखि कसाहतो.

लक्खणा इणा दासो च, भण्डुको उपालि अहि;

सद्धं कुलं कण्टको च, आहुन्दरिकमेव च.

वत्थुम्हि दारको सिक्खा, विहरन्ति च किं नु खो;

सब्बं मुखं उपज्झाये, अपलाळन कण्टको.

पण्डको थेय्यपक्कन्तो, अहि च मातरी पिता;

अरहन्तभिक्खुनीभेदा, रुहिरेन च ब्यञ्जनं.

अनुपज्झायसङ्घेन, गणपण्डकपत्तको;

अचीवरं तदुभयं, याचितेनपि ये तयो.

हत्था पादा हत्थपादा, कण्णा नासा तदूभयं;

अङ्गुलिअळकण्डरं, फणं खुज्जञ्च वामनं.

गलगण्डी लक्खणा चेव, कसा लिखितसीपदी;

पापपरिसदूसी च, काणं कुणि तथेव च.

खञ्जं पक्खहतञ्चेव, सच्छिन्नइरियापथं;

जरान्धमूगबधिरं, अन्धमूगञ्च यं तहिं.

अन्धबधिरं यं वुत्तं, मूगबधिरमेव च;

अन्धमूगबधिरञ्च, अलज्जीनञ्च निस्सयं.

वत्थब्बञ्च तथाद्धानं, याचमानेन लक्खणा [पेक्खना (सब्बत्थ)];

आगच्छतु विवदन्ति, एकुपज्झायेन कस्सपो.

दिस्सन्ति उपसम्पन्ना, आबाधेहि च पीळिता;

अननुसिट्ठा वित्थेन्ति, तत्थेव अनुसासना.

सङ्घेपि च अथो बाला, असम्मता च एकतो;

उल्लुम्पतुपसम्पदा, निस्सयो एकको तयोति.

इमम्हि खन्धके वत्थूनि एकसतञ्च द्वासत्तति.

महाखन्धको निट्ठितो.