१. पठमभाणवारो
विहारानुजाननं
२९४. तेन समयेन बुद्धो भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन भगवता भिक्खूनं सेनासनं अपञ्ञत्तं होति. ते च भिक्खू तहं तहं विहरन्ति – अरञ्ञे, रुक्खमूले, पब्बते, कन्दरायं, गिरिगुहायं, सुसाने, वनपत्थे, अज्झोकासे, पलालपुञ्जे. ते कालस्सेव ततो ततो उपनिक्खमन्ति – अरञ्ञा रुक्खमूला पब्बता कन्दरा गिरिगुहा सुसाना वनपत्था अज्झोकासा पलालपुञ्जा, पासादिकेन अभिक्कन्तेन पटिक्कन्तेन, आलोकितेन विलोकितेन, समिञ्जितेन पसारितेन, ओक्खित्तचक्खू, इरियापथसम्पन्ना. तेन खो पन समयेन राजगहको सेट्ठी [सेट्ठि (क.)] कालस्सेव उय्यानं अगमासि. अद्दसा खो राजगहको सेट्ठी ते भिक्खू कालस्सेव ततो ततो उपनिक्खमन्ते – अरञ्ञा रुक्खमूला पब्बता कन्दरा गिरिगुहा सुसाना वनपत्था अज्झोकासा पलालपुञ्जा, पासादिकेन अभिक्कन्तेन पटिक्कन्तेन, आलोकितेन विलोकितेन, समिञ्जितेन पसारितेन, ओक्खित्तचक्खू, इरियापथसम्पन्ने. दिस्वानस्स चित्तं पसीदि. अथ खो राजगहको सेट्ठी येन ते भिक्खू तेनुपसङ्कमि, उपसङ्कमित्वा ते भिक्खू एतदवोच – ‘‘सचाहं, भन्ते, विहारे कारापेय्यं, वसेय्याथ मे विहारेसू’’ति? ‘‘न खो, गहपति, भगवता विहारा अनुञ्ञाता’’ति. ‘‘तेन हि, भन्ते, भगवन्तं पटिपुच्छित्वा मम आरोचेय्याथा’’ति. ‘‘एवं गहपती’’ति खो ते भिक्खू राजगहकस्स सेट्ठिस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘राजगहको, भन्ते, सेट्ठी विहारे कारापेतुकामो. कथं नु खो, भन्ते, अम्हेहि [भन्ते (सी. क.)] पटिपज्जितब्ब’’न्ति? अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, पञ्च लेणानि [पञ्च सेनासनानि (स्या.)] – विहारं, अड्ढयोगं, पासादं, हम्मियं, गुह’’न्ति.
अथ खो ते भिक्खू येन राजगहको सेट्ठी तेनुपसङ्कमिंसु, उपसङ्कमित्वा राजगहकं सेट्ठिं एतदवोचुं – ‘‘अनुञ्ञाता खो, गहपति, भगवता विहारा; यस्सदानि कालं मञ्ञसी’’ति. अथ खो राजगहको सेट्ठी एकाहेनेव सट्ठिविहारे पतिट्ठापेसि. अथ खो राजगहको सेट्ठी ते सट्ठिविहारे परियोसापेत्वा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो राजगहको सेट्ठी भगवन्तं एतदवोच – ‘‘अधिवासेतु मे, भन्ते, भगवा स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति. अधिवासेसि भगवा तुण्हीभावेन. अथ खो राजगहको सेट्ठी भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.
अथ खो राजगहको सेट्ठी तस्सा रत्तिया अच्चयेन पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि – ‘‘कालो, भन्ते, निट्ठितं भत्त’’न्ति. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन राजगहकस्स सेट्ठिस्स निवेसनं तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन. अथ खो राजगहको सेट्ठी बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा, भगवन्तं भुत्ताविं ओनीतपत्तपाणिं, एकमन्तं निसीदि. एकमन्तं निसिन्नो खो राजगहको सेट्ठी भगवन्तं एतदवोच – ‘‘एते मे, भन्ते, सट्ठिविहारा पुञ्ञत्थिकेन सग्गत्थिकेन कारापिता. कथाहं, भन्ते, तेसु विहारेसु पटिपज्जामी’’ति? ‘‘तेन हि त्वं, गहपति, ते सट्ठिविहारे आगतानागतस्स चातुद्दिसस्स सङ्घस्स पतिट्ठापेही’’ति. ‘‘एवं भन्ते’’ति खो राजगहको सेट्ठी भगवतो पटिस्सुत्वा ते सट्ठिविहारे आगतानागतस्स चातुद्दिसस्स सङ्घस्स पतिट्ठापेसि.
२९५. अथ खो भगवा राजगहकं सेट्ठिं इमाहि गाथाहि अनुमोदि –
‘‘सीतं उण्हं पटिहन्ति [पटिहनति (क.)], ततो वाळमिगानि च;
सरीसपे च मकसे, सिसिरे चापि वुट्ठियो.
‘‘ततो वातातपो घोरे, सञ्जातो [वातातपे घोरे, सञ्जाते (क. सद्दनीति)] पटिहञ्ञति;
लेणत्थञ्च सुखत्थञ्च, झायितुञ्च विपस्सितुं.
‘‘विहारदानं सङ्घस्स, अग्गं बुद्धेन [बुद्धेहि (स्या.)] वण्णितं;
तस्मा हि पण्डितो, पोसो सम्पस्सं अत्थमत्तनो.
‘‘विहारे कारये रम्मे, वासयेत्थ बहुस्सुते;
तेसं अन्नञ्च पानञ्च, वत्थसेनासनानि च;
ददेय्य उजुभूतेसु, विप्पसन्नेन चेतसा.
‘‘ते तस्स धम्मं देसेन्ति, सब्बदुक्खापनूदनं;
यं सो धम्मं इधञ्ञाय, परिनिब्बाति अनासवो’’ति.
अथ खो भगवा राजगहकं सेट्ठिं इमाहि गाथाहि अनुमोदित्वा उट्ठायासना पक्कामि.
२९६. अस्सोसुं खो मनुस्सा – ‘‘भगवता किर विहारा अनुञ्ञाता’’ति सक्कच्चं [ते सक्कच्चं (स्या. कं.)] विहारे कारापेन्ति. ते विहारा अकवाटका होन्ति; अहीपि विच्छिकापि सतपदियोपि पविसन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, कवाट’’न्ति. भित्तिछिद्दं करित्वा वल्लियापि रज्जुयापि कवाटं बन्धन्ति. उन्दूरेहिपि उपचिकाहिपि खज्जन्ति. खयितबन्धनानि कवाटानि पतन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पिट्ठसङ्घाटं उदुक्खलिकं उत्तरपासक’’न्ति. कवाटा न फुसीयन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, आविञ्छनच्छिद्दं आविञ्छनरज्जु’’न्ति. कवाटा न थकियन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, अग्गळवट्टिं कपिसीसकं सूचिकं घटिक’’न्ति.
तेन खो पन समयेन भिक्खू न सक्कोन्ति कवाटं अपापुरितुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, ताळच्छिद्दं. तीणि ताळानि – लोहताळं, कट्ठताळं, विसाणताळ’’न्ति. येहि [येपि (सी. स्या.)] ते उग्घाटेत्वा पविसन्ति [विसाणताळं, येहि ते उग्घाटेत्वा पविसन्तीति (क.)], विहारा अगुत्ता होन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, यन्तकं सूचिक’’न्ति.
तेन खो पन समयेन विहारा तिणच्छदना होन्ति; सीतकाले सीता, उण्हकाले उण्हा. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, ओगुम्फेत्वा उल्लित्तावलित्तं कातु’’न्ति.
तेन खो पन समयेन विहारा अवातपानका होन्ति अचक्खुस्सा दुग्गन्धा. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, तीणि वातपानानि – वेदिकावातपानं, जालवातपानं, सलाकवातपान’’न्ति. वातपानन्तरिकाय काळकापि वग्गुलियोपि पविसन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, वातपानचक्कलिक’’न्ति. चक्कलिकन्तरिकायपि काळकापि वग्गुलियोपि पविसन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, वातपानकवाटकं वातपानभिसिक’’न्ति.
तेन खो पन समयेन भिक्खू छमायं सयन्ति. गत्तानिपि चीवरानिपि पंसुकितानि होन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, तिणसन्थारक’’न्ति. तिणसन्थारको उन्दूरेहिपि उपचिकाहिपि खज्जति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, मिड्ढि’’न्ति [मीढन्ति (सी.), मिढिन्ति (स्या.)]. मिड्ढिया गत्तानि दुक्खा होन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, बिदलमञ्चक’’न्ति.
मञ्चपीठादिअनुजाननं
२९७. तेन खो पन समयेन सङ्घस्स सोसानिको मसारको मञ्चो उप्पन्नो होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, मसारकं मञ्च’’न्ति. मसारकं पीठं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, मसारकं पीठ’’न्ति.
तेन खो पन समयेन सङ्घस्स सोसानिको बुन्दिकाबद्धो मञ्चो उप्पन्नो होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, बुन्दिकाबद्धं मञ्च’’न्ति. बुन्दिकाबद्धं पीठं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, बुन्दिकाबद्धं पीठ’’न्ति.
तेन खो पन समयेन सङ्घस्स सोसानिको कुळीरपादको मञ्चो उप्पन्नो होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, कुळीरपादकं मञ्च’’न्ति. कुळीरपादकं पीठं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, कुळीरपादकं पीठ’’न्ति.
तेन खो पन समयेन सङ्घस्स सोसानिको आहच्चपादको मञ्चो उप्पन्नो होति. भगवतो एतमत्थं ओराचेसुं. ‘‘अनुजानामि, भिक्खवे, आहच्चपादकं मञ्च’’न्ति. आहच्चपादकं पीठं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, आहच्चपादकं पीठ’’न्ति.
तेन खो पन समयेन सङ्घस्स आसन्दिको उप्पन्नो होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, आसन्दिक’’न्ति. उच्चको आसन्दिको उप्पन्नो होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, उच्चकम्पि आसन्दिक’’न्ति. सत्तङ्गो उप्पन्नो होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, सत्तङ्ग’’न्ति. उच्चको सत्तङ्गो उप्पन्नो होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, उच्चकम्पि सत्तङ्ग’’न्ति. भद्दपीठं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भद्दपीठ’’न्ति. पीठिका उप्पन्ना होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पीठिक’’न्ति. एळकपादकं पीठं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, एळकपादकं पीठ’’न्ति. आमलकवट्टिकं [आमलकवण्टिकं (स्या.)] पीठं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, आमलकवट्टिकं पीठ’’न्ति. फलकं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, फलक’’न्ति. कोच्छं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, कोच्छ’’न्ति. पलालपीठं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पलालपीठ’’न्ति.
तेन खो पन समयेन छब्बग्गिया भिक्खू उच्चे मञ्चे सयन्ति. मनुस्सा विहारचारिकं आहिण्डन्ता पस्सित्वा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, उच्चे मञ्चे सयितब्बं. यो सयेय्य, आपत्ति दुक्कटस्सा’’ति.
तेन खो पन समयेन अञ्ञतरो भिक्खु नीचे मञ्चे सयन्तो अहिना दट्ठो होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, मञ्चपटिपादक’’न्ति.
तेन खो पन समयेन छब्बग्गिया भिक्खू उच्चे मञ्चपटिपादके धारेन्ति, सह मञ्चपटिपादकेहि पवेधेन्ति. मनुस्सा विहारचारिकं आहिण्डन्ता पस्सित्वा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, उच्चा मञ्चपटिपादका धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, अट्ठङ्गुलपरमं मञ्चपटिपादक’’न्ति.
तेन खो पन समयेन सङ्घस्स सुत्तं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, सुत्तं मञ्चं वेठेतु’’न्ति [वेतुन्ति (सी.)]. अङ्गानि बहुसुत्तं परियादियन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, अङ्गे विज्झित्वा अट्ठपदकं वेठेतु’’न्ति. चोळकं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, चिमिलिकं कातु’’न्ति. तूलिका उप्पन्ना होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, विजटेत्वा बिब्बोहनं [बिम्बोहनं (सी. स्या. बिम्ब + ओहनं)] कातुं. तीणि तूलानि – रुक्खतूलं, लतातूलं, पोटकितूल’’न्ति.
तेन खो पन समयेन छब्बग्गिया भिक्खू अद्धकायिकानि [अड्ढकायिकानि (क.)] बिब्बोहनानि धारेन्ति. मनुस्सा विहारचारिकं आहिण्डन्ता पस्सित्वा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, अड्ढकायिकानि बिब्बोहनानि धारेतब्बानि. यो धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, सीसप्पमाणं बिब्बोहनं कातु’’न्ति.
तेन खो पन समयेन राजगहे गिरग्गसमज्जो होति. मनुस्सा महामत्तानं अत्थाय भिसियो पटियादेन्ति – उण्णभिसिं, चोळभिसिं, वाकभिसिं, तिणभिसिं, पण्णभिसिं. ते वीतिवत्ते समज्जे छविं उप्पाटेत्वा हरन्ति. अद्दसासुं खो भिक्खू समज्जट्ठाने बहुं उण्णम्पि चोळकम्पि वाकम्पि तिणम्पि पण्णम्पि छट्टितं. दिस्वान भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पञ्च भिसियो – उण्णभिसिं, चोळभिसिं, वाकभिसिं, तिणभिसिं, पण्णभिसि’’न्ति.
तेन खो पन समयेन सङ्घस्स सेनासनपरिक्खारिकं दुस्सं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भिसिं ओनन्धितु’’न्ति [ओनद्धितुं (स्या.)].
तेन खो पन समयेन भिक्खू मञ्चभिसिं पीठे सन्थरन्ति, पीठभिसिं मञ्चे सन्थरन्ति. भिसियो परिभिज्जन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, ओनद्धमञ्चं [ओनद्धमञ्चं (क.) एवमुपरिपि] ओनद्धपीठ’’न्ति. उल्लोकं अकरित्वा सन्थरन्ति, हेट्ठतो निपतन्ति [निपटन्ति (क.), निप्फटन्ति (सी.), निप्पाटेन्ति (स्या.)] …पे… ‘‘अनुजानामि, भिक्खवे, उल्लोकं करित्वा सन्थरित्वा भिसिं ओनन्धितु’’न्ति. छविं उप्पाटेत्वा हरन्ति…पे… ‘‘अनुजानामि, भिक्खवे, फोसितु’’न्ति. हरन्तियेव…पे… ‘‘अनुजानामि, भिक्खवे, भत्तिकम्म’’न्ति. हरन्तियेव…पे… ‘‘अनुजानामि, भिक्खवे, हत्थभत्तिकम्म’’न्ति. हरन्तियेव…पे… ‘‘अनुजानामि, भिक्खवे, हत्थभत्ति’’न्ति.
सेतवण्णादिअनुजाननं
२९८. तेन खो पन समयेन तित्थियानं सेय्यायो सेतवण्णा होन्ति, काळवण्णकता भूमि, गेरुकपरिकम्मकता भित्ति. बहू मनुस्सा सेय्यापेक्खका गच्छन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, विहारे सेतवण्णं काळवण्णं गेरुकपरिकम्म’’न्ति.
तेन खो पन समयेन फरुसाय भित्तिया सेतवण्णो न निपतति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, थुसपिण्डं दत्वा पाणिकाय पटिबाहेत्वा सेतवण्णं निपातेतु’’न्ति. सेतवण्णो अनिबन्धनीयो होति…पे… ‘‘अनुजानामि, भिक्खवे, सण्हमत्तिकं दत्वा पाणिकाय पटिबाहेत्वा सेतवण्णं निपातेतु’’न्ति. सेतवण्णो अनिबन्धनीयो होति…पे… ‘‘अनुजानामि, भिक्खवे, इक्कासं पिट्ठमद्द’’न्ति.
तेन खो पन समयेन फरुसाय भित्तिया गेरुका न निपतति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, थुसपिण्डं दत्वा पाणिकाय पटिबाहेत्वा गेरुकं निपातेतु’’न्ति. गेरुका अनिबन्धनीया होति …पे… ‘‘अनुजानामि, भिक्खवे, कुण्डकमत्तिकं दत्वा पाणिकाय पटिबाहेत्वा गेरुकं निपातेतु’’न्ति. गेरुका अनिबन्धनीया होति…पे… ‘‘अनुजानामि, भिक्खवे, सासपकुट्टं सित्थतेलक’’न्ति. अच्चुस्सन्नं होति…पे… ‘‘अनुजानामि, भिक्खवे, चोळकेन पच्चुद्धरितु’’न्ति.
तेन खो पन समयेन फरुसाय भूमिया काळवण्णो न निपतति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, थुसपिण्डं दत्वा पाणिकाय पटिबाहेत्वा काळवण्णं निपातेतु’’न्ति. काळवण्णो अनिबन्धनीयो होति…पे… ‘‘अनुजानामि, भिक्खवे, गण्डुमत्तिकं दत्वा पाणिकाय पटिबाहेत्वा काळवण्णं निपातेतु’’न्ति. काळवण्णो अनिबन्धनीयो होति…पे… ‘‘अनुजानामि, भिक्खवे, इक्कासं कसाव’’न्ति.
पटिभानचित्तपटिक्खेपं
२९९. तेन खो पन समयेन छब्बग्गिया भिक्खू विहारे पटिभानचित्तं कारापेन्ति – इत्थिरूपकं पुरिसरूपकं. मनुस्सा विहारचारिकं आहिण्डन्ता पस्सित्वा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, पटिभानचित्तं कारापेतब्बं – इत्थिरूपकं पुरिसरूपकं. यो कारापेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, मालाकम्मं लताकम्मं मकरदन्तकं पञ्चपटिक’’न्ति.
इट्ठकाचयादिअनुजाननं
३००. तेन खो पन समयेन विहारा नीचवत्थुका होन्ति, उदकेन ओत्थरिय्यन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, उच्चवत्थुकं कातु’’न्ति. चयो परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, चिनितुं तयो चये – इट्ठकाचयं, सिलाचयं, दारुचय’’न्ति. आरोहन्ता विहञ्ञन्ति…पे… ‘‘अनुजानामि, भिक्खवे, तयो सोपाने – इट्ठकासोपानं, सिलासोपानं, दारुसोपान’’न्ति. आरोहन्ता परिपतन्ति…पे… ‘‘अनुजानामि, भिक्खवे, आलम्बनबाह’’न्ति.
तेन खो पन समयेन विहारा आळकमन्दा होन्ति. भिक्खू हिरियन्ति निपज्जितुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, तिरोकरणि’’न्ति. तिरोकरणिं उक्खिपित्वा ओलोकेन्ति…पे… ‘‘अनुजानामि, भिक्खवे, अड्ढकुट्टक’’न्ति. अड्ढकुट्टका उपरितो ओलोकेन्ति…पे… ‘‘अनुजानामि, भिक्खवे, तयो गब्भे – सिविकागब्भं, नाळिकागब्भं, हम्मियगब्भ’’न्ति.
तेन खो पन समयेन भिक्खू खुद्दके विहारे मज्झे गब्भं करोन्ति. उपचारो न होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, खुद्दके विहारे एकमन्तं गब्भं कातुं, महल्लके मज्झे’’ति.
तेन खो पन समयेन विहारस्स कुट्टपादो जीरति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, कुलङ्कपादक’’न्ति [कुळुङ्कपादकन्ति (सी.)]. विहारस्स कुट्टो ओवस्सति…पे…‘‘अनुजानामि, भिक्खवे, परित्ताणकिटिकं उद्दसुध’’न्ति [उद्धासुधन्ति (स्या.)].
तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो तिणच्छदना अहि खन्धे पतति. सो भीतो विस्सरमकासि. भिक्खू उपधावित्वा तं भिक्खुं एतदवोचुं – ‘‘किस्स त्वं, आवुसो, विस्सरमकासी’’ति? अथ खो सो भिक्खूनं एतमत्थं आरोचेसि. भिक्खू भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, वितान’’न्ति.
तेन खो पन समयेन भिक्खू मञ्चपादेपि पीठपादेपि थविकायो लग्गेन्ति. उन्दूरेहिपि उपचिकाहिपि खज्जन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भित्तिखिलं नागदन्तक’’न्ति.
तेन खो पन समयेन भिक्खू मञ्चेपि पीठेपि चीवरं निक्खिपन्ति. चीवरं परिभिज्जिति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, विहारे चीवरवंसं चीवररज्जु’’न्ति.
तेन खो पन समयेन विहारा अनाळिन्दका होन्ति अप्पटिस्सरणा. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, आळिन्दं पघनं पकुट्टं [पकुड्डं (सी.)] ओसारक’’न्ति. आळिन्दा पाकटा होन्ति. भिक्खू हिरियन्ति निपज्जितुं…पे… ‘‘अनुजानामि, भिक्खवे, संसरणकिटिकं उग्घाटनकिटिक’’न्ति.
उपट्ठानसालाअनुजाननं
३०१. तेन खो पन समयेन भिक्खू अज्झोकासे भत्तविस्सग्गं करोन्ता सीतेनपि उण्हेनपि किलमन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, उपट्ठानसाल’’न्ति. उपट्ठानसाला नीचवत्थुका होति, उदकेन ओत्थरिय्यति…पे… ‘‘अनुजानामि, भिक्खवे, उच्चवत्थुकं कातु’’न्ति. चयो परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, चिनितुं तयो चये – इट्ठकाचयं, सिलाचयं, दारुचय’’न्ति. आरोहन्ता विहञ्ञन्ति…पे… ‘‘अनुजानामि, भिक्खवे, तयो सोपाने – इट्ठकासोपानं, सिलासोपानं, दारुसोपान’’न्ति. आरोहन्ता परिपतन्ति…पे… ‘‘अनुजानामि, भिक्खवे, आलम्बनबाह’’न्ति. उपट्ठानसालाय तिणचुण्णं परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, ओगुम्फेत्वा उल्लित्तावलित्तं कातुं – सेतवण्णं काळवण्णं गेरुकपरिकम्मं मालाकम्मं लताकम्मं मकरदन्तकं पञ्चपटिकं चीवरवंसं चीवररज्जु’’न्ति.
तेन खो पन समयेन भिक्खू अज्झोकासे छमाय चीवरं पत्थरन्ति. चीवरं पंसुकितं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, अज्झोकासे चीवरवंसं चीवररज्जु’’न्ति. पानीयं ओतप्पति…पे… ‘‘अनुजानामि, भिक्खवे, पानीयसालं पानीयमण्डप’’न्ति. पानीयसाला नीचवत्थुका होति, उदकेन ओत्थरिय्यति…पे… ‘‘अनुजानामि, भिक्खवे, उच्चवत्थुकं कातु’’न्ति. चयो परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, चिनितुं तयो चये – इट्ठकाचयं, सिलाचयं, दारुचय’’न्ति. आरोहन्ता विहञ्ञन्ति…पे… ‘‘अनुजानामि, भिक्खवे, तयो सोपाने – इट्ठकासोपानं, सिलासोपानं, दारुसोपान’’न्ति. आरोहन्ता परिपतन्ति…पे… ‘‘अनुजानामि, भिक्खवे, आलम्बनबाह’’न्ति. पानीयसालाय तिणचुण्णं परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, ओगुम्फेत्वा उल्लित्तावलित्तं कातुं – सेतवण्णं काळवण्णं गेरुकपरिकम्मं मालाकम्मं लताकम्मं मकरदन्तकं पञ्चपटिकं चीवरवंसं चीवररज्जु’’न्ति. पानीयभाजनं न संविज्जति…पे… ‘‘अनुजानामि, भिक्खवे, पानीयसङ्खं पानीयसरावक’’न्ति.
पाकारादिअनुजाननं
३०२. तेन खो पन समयेन विहारा अपरिक्खित्ता होन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, परिक्खिपितुं तयो पाकारे – इट्ठकापाकारं, सिलापाकारं, दारुपाकार’’न्ति. कोट्ठको न होति…पे… ‘‘अनुजानामि, भिक्खवे, कोट्ठक’’न्ति. कोट्ठको नीचवत्थुको होति, उदकेन ओत्थरिय्यति…पे… ‘‘अनुजानामि, भिक्खवे, उच्चवत्थुकं कातु’’न्ति. कोट्ठकस्स कवाटं न होति…पे… ‘‘अनुजानामि, भिक्खवे, कवाटं पिट्ठसङ्घाटं उदुक्खलिकं उत्तरपासकं अग्गळवट्टिं कपिसीसकं सूचिकं घटिकं ताळच्छिद्दं आविञ्छनच्छिद्दं आविञ्छनरज्जु’’न्ति. कोट्ठके तिणचुण्णं परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, ओगुम्फेत्वा उल्लित्तावलित्तं कातुं – सेतवण्णं काळवण्णं गेरुकपरिकम्मं मालाकम्मं लताकम्मं मकरदन्तकं पञ्चपटिक’’न्ति.
तेन खो पन समयेन परिवेणं चिक्खल्लं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, मरुम्बं उपकिरितु’’न्ति. न परियापुणन्ति…पे… ‘‘अनुजानामि, भिक्खवे, पदरसिलं निक्खिपितु’’न्ति. उदकं सन्तिट्ठति…पे… ‘‘अनुजानामि, भिक्खवे, उदकनिद्धमन’’न्ति.
तेन खो पन समयेन भिक्खू परिवेणे तहं तहं अग्गिट्ठानं करोन्ति. परिवेणं उक्लापं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, एकमन्तं अग्गिसालं कातु’’न्ति. अग्गिसाला नीचवत्थुका होति, उदकेन ओत्थरिय्यति…पे… ‘‘अनुजानामि, भिक्खवे, उच्चवत्थुकं कातु’’न्ति. चयो परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, चिनितुं तयो चये – इट्ठकाचयं, सिलाचयं, दारुचय’’न्ति. आरोहन्ता विहञ्ञन्ति…पे… ‘‘अनुजानामि, भिक्खवे, तयो सोपाने – इट्ठकासोपानं, सिलासोपानं, दारुसोपान’’न्ति. आरोहन्ता परिपतन्ति…पे… ‘‘अनुजानामि, भिक्खवे, आलम्बनबाह’’न्ति. अग्गिसालाय कवाटं न होति…पे… ‘‘अनुजानामि, भिक्खवे, कवाटं पिट्ठसङ्घाटं उदुक्खलिकं उत्तरपासकं अग्गळवट्टिं कपिसीसकं सूचिकं घटिकं ताळच्छिद्दं आविञ्छनच्छिद्दं आविञ्छनरज्जु’’न्ति. अग्गिसालाय तिणचुण्णं परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, ओगुम्फेत्वा उल्लित्तावलित्तं कातुं – सेतवण्णं काळवण्णं गेरुकपरिकम्मं मालाकम्मं लताकम्मं मकरदन्तकं पञ्चपटिकं चीवरवंसं चीवररज्जु’’न्ति.
आरामपरिक्खेपअनुजाननं
३०३. तेन खो पन समयेन आरामो अपरिक्खित्तो होति. अजकापि पसुकापि उपरोपे विहेठेन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, परिक्खिपितुं तयो वाटे – वेळुवाटं, कण्डकवाटं [वटे वेळुवटं कण्डकवटं (स्या.)], परिख’’न्ति. कोट्ठको न होति. तथेव अजकापि पसुकापि उपरोपे विहेठेन्ति…पे… ‘‘अनुजानामि, भिक्खवे, कोट्ठकं अपेसिं यमककवाटं तोरणं पलिघ’’न्ति. कोट्ठके तिणचुण्णं परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, ओगुम्फेत्वा उल्लित्तावलित्तं कातुं – सेतवण्णं काळवण्णं गेरुकपरिकम्मं मालाकम्मं लताकम्मं मकरदन्तकं पञ्चपटिक’’न्ति. आरामो चिक्खल्लो होति…पे… ‘‘अनुजानामि, भिक्खवे, मरुम्बं उपकिरितु’’न्ति. न परियापुणन्ति…पे… ‘‘अनुजानामि, भिक्खवे, पदरसिलं निक्खिपितु’’न्ति. उदकं सन्तिट्ठति…पे… ‘‘अनुजानामि, भिक्खवे, उदकनिद्धमन’’न्ति.
तेन खो पन समयेन राजा मागधो सेनियो बिम्बिसारो सङ्घस्स अत्थाय सुधामत्तिकालेपनं पासादं कारेतुकामो होति. अथ खो भिक्खूनं एतदहोसि – ‘‘किं नु खो भगवता छदनं अनुञ्ञातं, किं अननुञ्ञात’’न्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पञ्च छदनानि – इट्ठकाछदनं, सिलाछदनं, सुधाछदनं, तिणच्छदनं, पण्णच्छदन’’न्ति.
पठमभाणवारो निट्ठितो.