१२. ओतरणहारविभङ्गविभावना
४२. येन येन संवण्णनाविसेसभूतेन पञ्ञत्तिहारविभङ्गेन पञ्ञत्तियो विभत्ता, सो संवण्णनाविसेसभूतो विभङ्गो परिपुण्णो, ‘‘कतमो ओतरणो हारविभङ्गो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो ओतरणो हारो’’तिआदि वुत्तं. तत्थ तत्थाति तेसु निद्दिट्ठेसु सोळससु देसनाहारादीसु कतमो संवण्णनाविसेसो ओतरणो हारो ओतरणहारविभङ्गो नामाति पुच्छति. ‘‘यो च पटिच्चुप्पादो’’तिआदिनिद्देसस्स इदानि मया वुच्चमानो ‘‘उद्धं अधो सब्बधि विप्पमुत्तो’’तिआदिको वित्थारसंवण्णनाविसेसो ओतरणो हारो ओतरणहारविभङ्गो नामाति गहेतब्बो.
तत्थ पाठे ‘‘कतमे पटिच्चसमुप्पादादयो निद्धारेत्वा कतमेहि निद्धारितेहि धम्मेहि ओतरती’’ति पुच्छितब्बत्ता इमस्मिं पाठे इमे पटिच्चसमुप्पादादयो निद्धारेत्वा इमेहि निद्धारितेहि धम्मेहि ओतरतीति दस्सेतुं ‘‘उद्धं अधो सब्बधि विप्पमुत्तो’’तिआदि वुत्तं. तत्थ उद्धन्ति कामधातुतो उद्धं उपरिभागे पवत्ताय रूपधातुअरूपधातुया. अधोति रूपधातुतो हेट्ठाभागे पवत्ताय कामधातुया. सब्बधीति सब्बस्मिं कामरूपअरूपधातुम्हि. विप्पमुत्तोति पटिसन्धिवसेन अप्पवत्तनतो विप्पमुत्तो असेक्खो. अयं सेक्खो दस्सनमग्गेन सक्कायदिट्ठिया समुग्घातत्ता ‘‘अहं अस्मी’’ति अनानुपस्सी विहरति. एवं सेक्खाय विमुत्तिया चेव असेक्खाय विमुत्तिया च सेक्खो चेव असेक्खो च अतिण्णपुब्बं ओघं अपुनब्भवाय विमुत्तो उदतारीति गाथात्थो गहेतब्बो.
तस्मिं गाथापाठे ‘‘कतमे निद्धारेत्वा कतमेहि ओतरती’’ति पुच्छितब्बत्ता ‘‘उद्धन्ति रूपधातू’’तिआदि वुत्तं. उद्धन्ति मनुस्सलोकतो उद्धं चातुमहाराजिकादयोपि गहिताति अत्थसम्भवतो तं निवत्तेतुं ‘‘रूपधातु अरूपधातू’’ति वुत्तं. अधोति मनुस्सभवतो अधो चत्तारो अपायभूमियो च गहिताति अत्थसम्भवतो तं निवत्तेतुं ‘‘कामधातू’’ति वुत्तं. सब्बधीति चतुभूमिकेति अत्थसम्भवतो ‘‘तेधातुके’’ति वुत्तं. अयं असेक्खा विमुत्तीति विमुत्तस्स असेक्खस्स या विरागता अत्थि, अयम्पि विरागता असेक्खफलविमुत्ति. ‘‘उद्धं अधो सब्बधि विप्पमुत्तो’’ति पाठे वुत्तप्पकारा अयं असेक्खा विमुत्ति निद्धारिताति अत्थो. निद्धारिताय असेक्खाय विमुत्तिया यानि सद्धादिपञ्चिन्द्रियानि निद्धारितानि, तानियेव असेक्खानि पञ्चिन्द्रियानि भवन्ति. अयं वुत्तप्पकारा ओतरणा इन्द्रियेहि विमुत्तिया ओतरणा नाम पवेसना नाम.
तानियेव असेक्खानि पञ्चिन्द्रियानि विज्जाय उपकारकत्ता, पञ्ञापदट्ठानत्ता वा विज्जा भवन्ति. विज्जुप्पादा तादिसाय विज्जाय उप्पादा उप्पादहेतुतो अविज्जानिरोधो अविज्जाय निरोधो होति…पे… दुक्खक्खन्धस्स निरोधो होति, अयं वुत्तप्पकारा ओतरणा पटिच्चसमुप्पादेहि ओतरणा नाम.
तानियेव असेक्खानि पञ्चिन्द्रियानि तीहि खन्धेहि सङ्गहितानि सद्धावीरियेहि सीलसम्भवतो, सतिया च पञ्ञानुवत्तकत्ता. सेसा वुत्तनयानुसारेन वेदितब्बा.
‘‘उद्धं अधो सब्बधि विप्पमुत्तो’’ति पाठे निद्धारेत्वा ओतरणा आचरियेन विभत्ता, अम्हेहि च ञाता, ‘‘अयं अहस्मीति अनानुपस्सी’’ति पाठे ‘‘कतमे निद्धारेत्वा कतमेहि ओतरणेहि ओतरती’’ति वत्तब्बत्ता ‘‘अयं अहस्मीति अनानुपस्सीति अयं सक्कायदिट्ठिया’’तिआदि वुत्तं. यो अयं सेक्खो ‘‘अहमस्मी’’ति नानुपस्सी, तस्स सेक्खस्स सक्कायदिट्ठिया यो समुग्घातो अत्थि, या समुग्घातसङ्खाता समुग्घातविमुत्ति सेक्खा विमुत्ति होति, तस्सा सेक्खाय विमुत्तिया यानि सद्धादिपञ्चिन्द्रियानि निद्धारितानि, तानियेव सेक्खानि पञ्चिन्द्रियानि भवन्ति. अयं वुत्तप्पकारा ओतरणा इन्द्रियेहि ओतरणा नाम. सेसा वुत्तनयानुसारेन वेदितब्बा.
४३. ‘‘उद्धं अधो’’तिआदिगाथायं ओतरणा आचरियेन विभत्ता, अम्हेहि च ञाता, ‘‘निस्सितस्स चलित’’न्तिआदिपाठे ‘‘कतमे निद्धारेत्वा कतमेहि ओतरती’’ति पुच्छितब्बत्ता ‘‘निस्सितस्स चलितं, अनिस्सितस्स चलितं नत्थी’’तिआदि वुत्तं. निस्सितस्स पुग्गलस्स चलितं चलनं अत्थि, अनिस्सितस्स पुग्गलस्स चलितं चलनं नत्थि. चलिते चलने असति पस्सद्धि भवति, पस्सद्धिया सति विज्जमानाय नति न होति, नतिया असति अविज्जमानाय आगतिगति न होति, आगतिगतिया असति अविज्जमानाय चुतूपपातो न होति, चुतूपपाते असति अविज्जमाने इध छसु अज्झत्तिकायतनेसु अत्तानं नेव पस्सति, हुरं वा छसु बाहिरायतनेसु अत्तानं न पस्सति, उभयं अन्तरेन वज्जेत्वा फस्सादिसमुदायेसु धम्मेसु अत्तानं न पस्सति, एसोव पटिच्चसमुप्पादो ‘‘अविज्जानिरोधा’’तिआदिको दुक्खस्स अन्तो अवसानं करोतीति अत्थो.
निस्सितस्स चलितन्ति एत्थ ‘‘निस्सयो कतिविधो’’ति पुच्छितब्बत्ता ‘‘निस्सितस्स चलितन्ति निस्सयो नामा’’तिआदि वुत्तं. तत्थाति तेसु दुविधेसु तण्हानिस्सयदिट्ठिनिस्सयेसु या चेतना रत्तस्स पुग्गलस्स निद्धारिता, अयं चेतनाधम्मो तण्हानिस्सयो नाम. या चेतना मूळ्हस्स पुग्गलस्स निद्धारिता. अयं चेतनाधम्मो दिट्ठिनिस्सयो नाम. सा दुविधा चेतना पन सङ्खारा नाम. सङ्खारपच्चया विञ्ञाणं…पे… सब्बो पटिच्चसमुप्पादो निद्धारितो. अयं वुत्तप्पकारा ओतरणा पटिच्चसमुप्पादेहि ओतरणा नाम.
तत्थाति तस्मिं तण्हानिस्सयदिट्ठिनिस्सये या वेदना रत्तस्स पुग्गलस्स निद्धारिता, अयं सुखा वेदना. या चेतना सम्मूळ्हस्स पुग्गलस्स निद्धारिता, अयं अदुक्खमसुखा वेदना. येभुय्येन सेसा वुत्तनयानुसारेन वेदितब्बा.
४४. ‘‘निस्सितस्स चलित’’न्तिआदिपाठे ओतरणा आचरियेन विभत्ता, अम्हेहि च ञाता.
‘‘ये केचि सोका परिदेविता वा…पे…
पियं न कयिराथ कुहिञ्चि लोके’’ति. –
गाथापाठे ‘‘कतमे निद्धारेत्वा कतमेहि ओतरती’’ति पुच्छितब्बत्ता ‘‘ये केचि सोका’’तिआदि वुत्तं. ये केचि सोका वा या काचि परिदेविता वा अनेकरूपा या काचि दुक्खा वा लोकस्मिं सम्भवन्ति. एते सोकादयो पियं पटिच्च पभवन्ति, पिये असन्ते एते सोकादयो न भवन्ति. तस्मा पिये असन्ते सोकादीनं अभावतो येसं वीतसोकानं कुहिञ्चि लोकेपि नत्थि, ते वीतसोका सुखिनो भवन्ति. तस्मा वीतसोकानं सुखसम्पन्नत्ता असोकं विरजं पत्थयानो सप्पुरिसो कुहिञ्चि लोके पियं न कयिराथाति गाथात्थो.
‘‘ये केचि सोका परिदेविता वा, दुक्खा च लोकस्मिमनेकरूपा पियं पटिच्च पभवन्ति एते’’ति एत्थ पाठे या वेदना निद्धारिता, अयं दुक्खा वेदना. सेसा वुत्तनयानुसारेन वेदितब्बा.
‘‘ये केचि सोका’’तिआदिगाथापाठे ओतरणा आचरियेन विभत्ता, अम्हेहि च ञाता, ‘‘कामं कामयमानस्सा’’तिआदिगाथापाठे ‘‘कतमे निद्धारेत्वा कतमेहि ओतरती’’ति वत्तब्बत्ता ‘‘कामं कामयमानस्सा’’तिआदि वुत्तं. तस्सं गाथायं अत्थो हेट्ठा वुत्तोव.
तत्थाति तस्मिं ‘‘पीतिमनो होती’’ति पाठे या पीतिमनता वुत्ता निद्धारिता, अयं पीतिमनता अनुनयो होति. ‘‘सल्लविद्धोव रुप्पती’’ति पाठे यं रुप्पनं आह, इदं रुप्पनं पटिघं होति, अनुनयो च पटिघञ्च निद्धारिताति अत्थो.
‘‘अनुनये च पटिघे च निद्धारिते कतमो धम्मो निद्धारितो’’ति वत्तब्बत्ता ‘‘अनुनयो पटिघञ्च पन तण्हापक्खो’’ति वुत्तं. तण्हापक्खोति तण्हापक्खत्ता तण्हा निद्धारिता. ‘‘अनुनयो तण्हापक्खो होतु, पटिघं पन तण्हापक्खं न सिया’’ति चे वदेय्य? पटिघस्स अत्तसिनेहवसेन पवत्तनतो पटिघम्पि तण्हापक्खं होति. ‘‘तण्हाय निद्धारिताय कतमो निद्धारितो’’ति वत्तब्बत्ता ‘‘तण्हाय च पना’’तिआदि वुत्तं. दसन्नं रूपायतनानं तण्हाय पदट्ठानत्ता दस रूपानि आयतनानि निद्धारितानि. अयं वुत्तप्पकारा ओतरणा आयतनेहि ओतरणा नाम. सुत्ते आगता पटिच्चसमुप्पादादयो तेन संवण्णनाविसेसेन नयेन निद्धारिता, सुत्तत्थमुखेन वा निद्धारिता, तेन…पे… नयेन निद्धारितेसु पटिच्चसमुप्पादादीसु यो संवण्णनानयविसेसो तदत्थवाचकवसेन वा तदत्थञापकवसेन वा ओतरति पविसति समोसरति, सो संवण्णनानयविसेसो ओतरणो हारो नामाति अधिप्पायो दट्ठब्बो. सेसेसुपि वुत्तनयानुसारेन ओतरणा गहेतब्बा. ‘‘तेनाह आयस्मा’’तिआद्यानुसन्ध्यादिअत्थो चेव ‘‘नियुत्तो ओतरणो हारो’’ति अनुसन्ध्यादिअत्थो च वुत्तनयानुसारेन वेदितब्बो.
इति ओतरणहारविभङ्गे सत्तिबलानुरूपा रचिता
विभावना निट्ठिता.
पण्डितेहि पन अट्ठकथाटीकानुसारेन गम्भीरत्थो वित्थारतो विभजित्वा गहेतब्बोति.