२. आरम्मणपच्चयनिद्देसवण्णना

२. उप्पज्जनक्खणेयेवाति एत्थ उप्पादतो पट्ठाय याव भङ्गा उद्धं पज्जनं गमनं पवत्तनं उप्पज्जनं, तस्स खणो, तस्मिं उप्पज्जनक्खणेति एवं वा अत्थो दट्ठब्बो. एवञ्हि सति उप्पज्जनसद्देन उप्पन्नसद्देन विय सब्बे पवत्तमानभावा सङ्गहिता होन्ति, न उप्पादमत्तं. तेनाति चक्खुविञ्ञाणादीनं वत्तमानक्खणेयेव रूपादीनं आरम्मणपच्चयत्तेन. अनालम्बियमानानन्ति सब्बेन सब्बं नालम्बियमानानन्ति अत्थो. अञ्ञथा हि यथावुत्तानं रूपादीनं यदा आरम्मणपच्चयत्ताभावो, तदा अनालम्बियमानतावाति. सब्बरूपानीति सब्बानि रूपायतनानि, यत्तकानि तानि आपाथगतानि योग्यदेसे ठितानि, तानि सब्बानीति अत्थो. सह न होन्तीति एकज्झं आरम्मणं न होन्ति. सतिपि हि अनेकेसं एकज्झं आपाथगमने यत्थ यत्थ पुब्बाभोगो, तं तंयेव आरम्मणं होति, न सब्बं. नीलादिसङ्घातवसेन चेतं वुत्तं, न पच्चेकं नीलादिरूपायतनमत्तवसेन. समुदितानियेव हि रूपायतनानि चक्खुविञ्ञाणस्स आरम्मणं, न विसुं विसुन्ति धातुविभङ्गवण्णनायं दस्सितोयं नयो. यं पन अट्ठकथायं ‘‘ते ते विसुं विसुं आरम्मणपच्चयो होन्ती’’तिपि वुत्तं, तम्पि यथावुत्तमेवत्थं सन्धाय वुत्तं. अञ्ञथा रूपायतनं मनिन्द्रियगोचरं नाम न सिया. सद्दादीसुपि एसेव नयो. तेनेवाह ‘‘तथा सद्दादयोपी’’ति. ‘‘सह न होन्ती’’ति वुत्तमत्थं पाळिया विभावेतुं ‘‘यं यन्ति हि वचनं रूपादीनि भिन्दती’’ति आह.

‘‘ये एते’’तिआदिको पुरिमो अत्थो, ‘‘न एकतो होन्ती’’तिआदिको पन पच्छिमो, ‘‘सब्बारम्मणतादिवसेन वा इधापि अत्थो गहेतब्बो’’ति कस्मा वुत्तं. न हि ‘‘यं यं वा पनारब्भा’’ति इमिस्सा पाळिया विय ‘‘यं यं धम्मं आरब्भा’’ति इमस्स पाठस्स पुरतो मनोविञ्ञाणस्स सब्बारम्मणता नागता. वुत्तञ्हि ‘‘सब्बे धम्मा मनोविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं आरम्मणपच्चयेन पच्चयो’’ति. न हि अनन्तरमेव पाळियं सरूपतो आगतमत्थं गहेत्वा पदन्तरं संवण्णेतब्बं. तत्थ हि ‘‘रूपारम्मणं वा’’तिआदिना नियमवसेन छ आरम्मणानि वत्वा ‘‘यं यं वा पनारब्भा’’ति वचनं सब्बारम्मणतादिदस्सनन्ति युत्तमेवेतन्ति, इध पन सब्बारम्मणतं वत्वा पुन ‘‘यं यं धम्मं आरब्भा’’ति वुच्चमानं सब्बारम्मणतादस्सनन्ति कथमिदं युज्जेय्य? कमाभावोपि ‘‘सब्बे धम्मा’’ति अविसेसवचनेनेव सिद्धो आरम्मणानुपुब्बियाव अग्गहितत्ता. न हि मनोधातुया विय मनोविञ्ञाणधातुया इध आरम्मणानि अनुपुब्बतो गहितानि, तत्थ विय वा एतेनेव नियमाभावोपि संवण्णितोति वेदितब्बो. तस्मा अट्ठकथायं वुत्तनयेनेवेत्थ अत्थो गहेतब्बो.

पवत्तन्ति पवत्तनं. नदिया सन्दनं पब्बतस्स ठानन्ति हि वुत्ता अविरतमविच्छेदनायं तथापवत्तिकिरियाव. तेनाह ‘‘अविरतं अविच्छिन्नं सन्दन्ती’’ति. एवन्ति यथा ‘‘सन्दन्ती’’ति वत्तमानवचनं वुत्तं, एवं ‘‘ये ये धम्मा उप्पज्जन्ती’’ति सब्बसङ्गहवसेन उप्पज्जनस्स गहितत्ता आरम्मणपवग्गतो ‘‘उप्पज्जन्ती’’ति वत्तमानवचनं वुत्तन्ति अत्थो. तेनाह अट्ठकथायं ‘‘सब्बकालसङ्गहवसेना’’तिआदि. तथा च वुत्तं ‘‘अतीतानागत…पे… अधिप्पायो’’ति, अतीतानागतपच्चुप्पन्नानं चित्तचेतसिकानन्ति अत्थो. समुदायवसेनाति चित्तेन रासीकरणवसेन. अधिप्पायोति इमिना वत्तमानुपचारेन विनाव ‘‘ये ये धम्मा उप्पज्जन्ती’’ति एत्थ वत्तमानत्थं सक्का योजेतुन्ति इममत्थं उल्लिङ्गेति. तेनाह ‘‘इमे पना’’तिआदि. यदिपि पच्चयधम्मा केचि अतीता अनागतापि होन्ति, पच्चयुप्पन्नधम्मो पन पच्चुप्पन्नो एवाति आह ‘‘अतीतानागतानं न होन्ती’’ति. उप्पादे वा हि पच्चयुप्पन्नस्स पच्चयेन भवितब्बं ठितियं वाति. तस्माति यस्मा अतीतानागता परमत्थतो नत्थि, तस्मा. तेसूति पच्चयुप्पन्नेसु. तंतंपच्चयाति तं तं रूपादिआरम्मणं पच्चयो एतेसन्ति तंतंपच्चया. अयमत्थो दस्सितो होति समानसभावत्ता. न हि अत्थाभेदेन सभावभेदो अत्थि. न पन तंतंपच्चयवन्तता दस्सिता होति अतीतानागतेसु निप्परियायेन तदभावतो. यस्मा पच्चयवन्तो पच्चयुप्पन्नायेव, ते च पच्चुप्पन्नायेवाति.

यं यं धम्मं ते ते धम्माति यंनिमित्तायंवचनभेदो, तं दस्सेतुं ‘‘एत्थ चा’’तिआदि आरद्धं. रूपारूपधम्मा हि कलापतो पवत्तमानापि चित्तचेतसिकानं कदाचि विसुं विसुं आरम्मणं होन्ति, कदाचि एकज्झं, न एत्थ नियमो अत्थि, पुरिमाभोगोयेव पन तथागहणे कारणं. तयिमं दीपेतुं भगवता यंवचनभेदो कतोति च सक्का वत्तुं, यस्मा पन एककलापपरियापन्नानम्पि धम्मानं एकज्झं गहणे न समुदायो गय्हति तदाभोगाभावतो, अथ खो समुदिता धम्मा एवाति सहग्गहणम्पि विसुंगहणगतिकं, तस्मा विसुंगहणसब्भावदीपनत्थं ‘‘यं य’’न्ति वत्वा सतिपि विसुंगहणे ते सब्बे एकज्झं आरम्मणपच्चयो होन्तीति दस्सनत्थं ‘‘ते ते’’ति वुत्तन्ति इममत्थं दस्सेन्तो ‘‘चत्तारो हि खन्धा’’तिआदिमाह. तत्थ वेदनादीसूति वेदनादीसु चतूसु खन्धेसु अभिन्दित्वा गहणवसेन, भिन्दित्वा पन गहणवसेन फस्सादीसु. यो च रूपादिकोति इदं विञ्ञाणन्तरस्स साधारणारम्मणवसेन वुत्तं, ये च अनेके फस्सादयोति इदं असाधारणारम्मणवसेन. ते सब्बेति ते साधारणासाधारणप्पभेदे सब्बेपि आरम्मणधम्मे. एकेकमेव आरब्भ उप्पज्जन्तीति एत्थ यं वत्तब्बं, तं हेट्ठा वुत्तमेव. रूपारम्मणधम्मा च अनेके नीलादिभेदतो. तथाति अनेके. तेन भेरिसद्दादिके, मूलगन्धादिके, मूलरसादिके, कथिनसम्फस्सादिके, वेदनादिके च सङ्गण्हाति. अनेकेति हि इमिना अनेककलापगतानंयेव वण्णादीनं इन्द्रियविञ्ञाणारम्मणभावमाह. सामञ्ञतो हि वुत्तं यथारहं भिन्दित्वा निदस्सितब्बं होतीति.

कुसलविपाकस्साति कुसलस्स विपाकस्स च. न हि निब्बानं पुब्बे निवुत्थन्ति इदं ‘‘दिट्ठनिब्बानोयेवा’’तिआदिना वक्खमानमेव अत्थं हदये ठपेत्वा वुत्तं. पुब्बेनिवासानुस्सतिञाणेन हि निब्बानविभावनं अदिट्ठसच्चस्स वा सिया दिट्ठसच्चस्सपि वा. तत्थ अदिट्ठसच्चेन ताव तं विभावेतुमेव न सक्का अप्पटिविद्धत्ता, इतरस्स पन पगेव विभूतमेवाति तं तेन विभावितं नाम होतीति अधिप्पायो. एत्थ च ‘‘न च तं वुत्त’’न्ति इमिना पुब्बेनिवासानुस्सतिञाणस्स निब्बानारम्मणकरणाभावं आगमतो दस्सेत्वा ‘‘न हि निब्बान’’न्तिआदिना युत्तितो दस्सेति. तत्थ ‘‘न पुब्बे निवुत्थं असङ्खतत्ता’’ति कस्मा वुत्तं? गोचरासेवनाय आसेवितस्सपि निवुत्थन्ति इच्छितत्ता. दिट्ठसच्चोयेव हि पुब्बेनिवासानुस्सतिञाणेन निब्बानं विभावेति, न अदिट्ठसच्चो. तं पन ञाणं खन्धे विय खन्धपटिबद्धेपि विभावेतीति निब्बानारम्मणखन्धविभावने निब्बानम्पि विभावेतीति सक्का विञ्ञातुं. एतेन पयोजनाभावचोदना पटिक्खित्ताति दट्ठब्बा. एवं अनागतंसञाणेपि योजेतब्बन्ति यथा पुब्बेनिवासानुस्सतिञाणस्स निब्बानारम्मणता दस्सिता, एवं अनागतंसञाणेपि यथारहं योजेतब्बं. तत्थ पन ‘‘खन्धपटिबद्धविभावनकाले’’तिआदिना योजना वेदितब्बा. तेन वुत्तं ‘‘यथारह’’न्ति. कस्सचि अभिञ्ञाप्पत्तस्सपि रूपावचरस्स, पगेव इतरस्स.

आरम्मणपच्चयनिद्देसवण्णना निट्ठिता.