३. परिञ्ञावारवण्णना

४३५-४८२. लोकियअब्याकतेहीति फलधम्मनिब्बानविनिमुत्तेहि अब्याकतेहि. तानि उपादायाति तानि लोकियअब्याकतानि उपादाय. तंसमानगतिकानं मनिन्द्रियादीनं ‘‘सो वेदनाक्खन्धं परिजानातीति? आमन्ता’’तिआदिना (यम. १.खन्धयमक.२०६) वेदनाक्खन्धादीनं विय परिञ्ञेय्यता वुत्ता. यञ्हि परिजानितब्बं, तदेव परिजानातीतिआदिना वुत्तं. एवमविपरीते अत्थे सिद्धेपि चोदको ‘‘मिस्सकत्ता’’ति एत्थ लब्भमानं लेसं गहेत्वा चोदेति ‘‘यदि परिञ्ञेय्यमिस्सकत्ता’’तिआदिना. तस्सत्थो – यथा इध परिञ्ञेय्यमिस्सकानं परिञ्ञेय्यता वुत्ता, एवमञ्ञत्थापि सा तेसं वत्तब्बा, तथा भावेतब्बमिस्सकानं भावेतब्बताति. तेनाह ‘‘कस्मा धम्मयमके’’तिआदि. कुसलाकुसलेसु भावनापहानाभिनिवेसो होति, येन वुत्तं ‘‘सो तं अकुसलं पजहति, कुसलं भावेती’’तिआदि. न अब्याकतभावन्ति एकेन यथा फस्सद्वारतो विय विञ्ञाणद्वारतो कुसलादीनं उप्पत्तिपरियायो, एवं वेदनाक्खन्धादीनं विय न अब्याकतादीनं परिञ्ञेय्यतापरियायोति दस्सेति.

कुसलाकुसलभावेन अग्गहिताति समुदयसभावेन अग्गहिताति अत्थो. कुसलाकुसलापीति कुसलाकुसलभावापि समाना. भावेतब्बपहातब्बभावेहि विनापि होति, यो न मग्गसमुदयसच्चपक्खियो. यथा ‘‘अनिच्चं रूप’’न्ति एत्थ ‘‘अनिच्चमेव रूपं, न निच्च’’न्ति पटियोगिविनिवत्तनमेव एव-कारेन करीयति, न तस्स दुक्खानत्ततादयो निवारिता होन्ति, एवं ‘‘पहातब्बमेवा’’ति एत्थ एव-सद्देन पटियोगिभूतं अप्पहातब्बमेव निवत्तीयति, न ततो अञ्ञविसेसाति दस्सेन्तो आह ‘‘एतेन पहातब्बमेवा’’तिआदि. भावेतब्बभावो एव तस्स अञ्ञिन्द्रियस्स गहितो उक्कंसगतिविजाननतो. ‘‘परतो लिखितब्बं उप्पटिपाटिया लिखित’’न्ति कस्मा वुत्तं. द्वे पुग्गलाति हि आदि अनुलोमे आगतं उद्धटं, चक्खुन्द्रियं न परिजानातीतिआदि पन पटिलोमे. दोमनस्सिन्द्रियं न पजहन्ति नामाति इदं ‘‘नो च दोमनस्सिन्द्रियं पजहन्ती’’ति पाळिपदस्स अत्थवचनं. यं पन ‘‘चक्खुन्द्रियमूलकं अतिक्कमित्वा दोमनस्सिन्द्रियमूलके इदं वुत्त’’न्ति वुत्तं, पटिलोमे आगतं सन्धाय वुत्तत्ता तं न युत्तं, न तं अट्ठकथाचरिया पठमं आगतं पदं लङ्घित्वा तादिसस्सेव पच्छा आगतपदस्स अत्थवण्णनं करोन्ति. पदानुक्कमतो एव हि अट्ठकथायं अत्थवण्णना आरद्धा, परियोसापिता च, तस्मा अनुपटिपाटियाव लिखितं, न उप्पटिपाटियाति दट्ठब्बं ‘‘द्वे पुग्गला’’तिआदिकस्स अनुलोमे आगतस्स उद्धटत्ता.

एत्थाति एतस्मिं परिञ्ञावारे. छ पुग्गलाति पुथुज्जनेन सद्धिं याव अनागामिमग्गट्ठा छ पुग्गला. अभिन्दित्वा गहितो तत्थ भब्बाभब्बानं किच्चविसेसस्स अग्गहितत्ता. यत्थ पन सति पुथुज्जनग्गहणसामञ्ञे भब्बानं किच्चं गहितं, यत्थ च अभब्बानं, तत्थ ते एव भिन्दित्वा वुत्ता होन्तीति दस्सेन्तो ‘‘ये च पुथुज्जना मग्गं पटिलभिस्सन्ति, ये च पुथुज्जना मग्गं न पटिलभिस्सन्ती’’ति च आदिमाह. अरहाति अरियो, अयमेव वा पाठो. पठममग्गफलसमङ्गीति पुरिममग्गफलसमङ्गी. इतरोति अरहा. एवं पुग्गलभेदं ञत्वाति इध पुथुज्जनो सो च अभब्बोति गहितो, इध भब्बो इध अरिया, ये च पठममग्गफलसमङ्गिनो याव अग्गमग्गफलसमङ्गिनोति एवं यथावुत्तं पुग्गलविभागं ञत्वा. तत्थ तत्थाति तेसं द्वे पुथुज्जना अट्ठ अरियाति इमेसं यथावुत्तपुग्गलानं भेदतो अभेदतो च गहणवसेन आगते तस्मिं तस्मिं पाठपदेसे. सन्निट्ठानेनाति सन्निट्ठानपदवसेन, निच्छयवसेनेव वा. निद्धारेत्वाति नीहरित्वा. विस्सज्जनं योजेतब्बन्ति विस्सज्जनवसेन पवत्तपाळिया यथावुत्तअत्थदस्सनेन सम्बन्धतो विभावेतब्बोति.

परिञ्ञावारवण्णना निट्ठिता.

इन्द्रिययमकवण्णना निट्ठिता.

यमकपकरण-अनुटीका समत्ता.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स