२. पवत्तिवारवण्णना

२७-१६४. दुक्खपरिञ्ञा याव दुक्खसमतिक्कमनत्थाति सप्पदेसं पवत्तापि सा तदत्थावहा भवेय्याति कस्सचि आसङ्का सियाति दस्सेन्तो आह ‘‘अरियत्ता…पे… कत्वा वुत्त’’न्ति. केचि पनेत्थ ‘‘अन्तिमभवे ठितत्ता’’ति कारणं वदन्ति, तं न युज्जति उपपत्तिया दुक्खविचारत्ता, न च सब्बे सुद्धावासा अन्तिमभविका उद्धंसोतवचनतो. ‘‘यस्स दुक्खसच्चं उप्पज्जती’’ति उप्पादावत्था. अविसेसेन दुक्खसच्चपरियापन्ना धम्मा सम्बन्धीभावेनेव तंसमङ्गी च पुग्गलो वुत्तोति दस्सेन्तो ‘‘सब्बे उपपज्जन्ता’’तिआदिं वत्वा स्वायमत्थो यस्मा निच्छयरूपेन गहितो, निच्छितस्सेव च अत्थस्स विभागदस्सनेन भवितब्बं, तस्मा ‘‘तेस्वेव…पे… उपपन्नमेवा’’ति आह. तत्थ तेस्वेव केचि दस्सीयन्तीति सम्बन्धो. एककोट्ठासुप्पत्तिसमङ्गिनोति दुक्खकोट्ठासुप्पत्तिसमङ्गिनो. तेसूति सन्निट्ठानेन गहितेसु. मग्गफलुप्पादसमङ्गीसूति मग्गफलुप्पादसमङ्गीनं, अयमेव वा पाठो.

एत्थ चातिआदिना ‘‘सब्बेस’’न्तिआदिपाळिया पिण्डत्थं दस्सेति. तत्थ समुदयसच्चुप्पादवोमिस्सस्स दुक्खसच्चुप्पादस्साति इदं अनादरे सामिवचनं. कत्थचि समुदयसच्चुप्पादवोमिस्सेपि दुक्खसच्चे तंरहितस्स समुदयसच्चुप्पादरहितस्स दुक्खसच्चुप्पादस्स दस्सनवसेन वुत्तन्ति योजना. केचि पन ‘‘समुदयसच्चावोमिस्सस्सा’’ति पठन्ति, तेसं ‘‘तंरहितस्सा’’ति इदं पुरिमपदस्स अत्थविवरणं वेदितब्बं. तंसहितस्साति समुदयसच्चुप्पादसहितस्स दुक्खसच्चुप्पादस्स दस्सनवसेन वुत्तन्ति योजना. तेसन्ति असञ्ञसत्तानं, पवत्तियं दुक्खसच्चस्स उप्पादो ‘‘पवत्ते’’तिआदिना वुत्तेसु द्वीसुपि कोट्ठासेसु न गहितोति अत्थो. पटिसन्धियं पन तेसं उप्पादस्स पठमकोट्ठासेन गहितता दस्सिता एव. तथा निरोधो चाति यथा असञ्ञसत्तानं पटिसन्धियं दुक्खसच्चस्स उप्पादो पठमकोट्ठासेन गहितो, पवत्तियं पन सो द्वीहि कोट्ठासेहि न गहितो, तथा तेसं दुक्खसच्चस्स निरोधोपीति अत्थो. तथा हि ‘‘सब्बेसं चवन्तानं पवत्ते तण्हाविप्पयुत्तचित्तस्स भङ्गक्खणे’’तिआदिना (यम. १.सच्चयमक.८८) निरोधवारे पाळि पवत्ता. एसेव नयोति य्वायं ‘‘एत्थ चा’’तिआदिना समुदयसच्चयमके पाळिया अत्थनयो वुत्तो, मग्गसच्चयमकेपि एसेव नयो, एवमेव तत्थापि अत्थो नेतब्बोति अत्थो. तथा हि ‘‘सब्बेसं उपपज्जन्तान’’न्तिआदिना तत्थ पाळि पवत्ता.

एवञ्च सतीति एवं खणवसेन ओकासग्गहणे सतीति यथावुत्तमत्थं अननुजाननवसेन पच्चामसति. एतस्स विस्सज्जनेति एतस्स यमकपदस्स विस्सज्जने. ‘‘अग्गमग्गस्स उप्पादक्खणे, अरहन्तानं चित्तस्स उप्पादक्खणे, यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति, तस्स चित्तस्स उप्पादक्खणे, असञ्ञसत्तं उपपज्जन्तानं तेसं तत्थ दुक्खसच्चं उप्पज्जति, नो च तेसं तत्थ समुदयसच्चं उप्पज्जिस्सती’’ति (यम. १.सच्चयमक.७१) पुरिमकोट्ठासस्स आगतत्ता विरोधो नत्थीति ‘‘पच्छिमकोट्ठासे’’तिआदि वुत्तं. तत्थ तस्माति यस्मा न उपपत्तिचित्तुप्पादक्खणो भाविनो समुदयपच्चुप्पादस्स आधारो, अथ खो कामावचरादिओकासो, तस्मा. पुग्गलोकासवारो हेसाति यस्मा पुग्गलोकासवारो एस, तस्मा ‘‘तेसं तत्था’’ति एत्थ ओकासवसेन तत्थ-सद्दस्स अत्थो वेदितब्बो. यदि पुग्गलोकासवारे कामावचरादिओकासवसेनेव अत्थो गहेतब्बो, न खणवसेन, अथ कस्मा ‘‘सब्बेसं उपपज्जन्तान’’न्तिआदिना ओकासं अनामसित्वा तत्थ विस्सज्जनं पवत्तन्ति चोदनं सन्धायाह ‘‘तत्थ…पे… सो एवा’’ति. तत्थ तत्थाति ओकासवारे. पुग्गलविसेसदस्सनत्थन्ति पुग्गलसङ्खातविसेसदस्सनत्थं. यत्थ तेति यस्मिं कामावचरादिओकासे ते पुग्गला.

केचीति धम्मसिरित्थेरं सन्धायाह. सो हि ‘‘पवत्ते चित्तस्स भङ्गक्खणे दुक्खसच्चं नुप्पज्जती’’ति एत्थ चित्तजरूपमेव अधिप्पेतं चित्तपटिबद्धवुत्तित्ताति कारणं वदति. अपरे ‘‘अरूपेति इमं पुरिमापेक्खम्पि होतीति तेन पवत्तं विसेसेत्वा अरूपभववसेन अयमत्थो वुत्तो, तस्मा ‘यस्स वा पन समुदयसच्चं निरुज्झति, तस्स दुक्खसच्चं उप्पज्जतीति? नो’तिआदीसुपि एवमत्थो वेदितब्बो’’ति वदन्ति. पुग्गलो न चित्तं अपेक्खित्वाव गहितोति इदं चित्तस्स अनधिकतत्ता वुत्तं. यत्थ पन समुदयसच्चस्स उप्पादनिच्छयो, तत्थेव तस्स अनुप्पादनिच्छयेनपि भवितब्बं चित्तेन च विना पुग्गलस्सेव अनुपलब्भनतोति ‘‘यस्स समुदयसच्चं नुप्पज्जती’’ति एत्थ समुदयसच्चाधारं चित्तं अत्थतो गहितमेवाति सक्का विञ्ञातुं. अपिच इन्द्रियबद्धेपि न सब्बो रूपुप्पादो एकन्तेन चित्तुप्पादाधीनोति सक्का वत्तुं चित्तुप्पत्तिया विनापि तत्थ रूपुप्पत्तिदस्सनतो, तस्मा चित्तजरूपमेव चित्तस्स उप्पादक्खणे उप्पज्जति, न इतरं, इतरं पन तस्स तीसुपि खणेसु उप्पज्जतीति निट्ठमेत्थ गन्तब्बं. विभजितब्बा अविभत्ता नाम नत्थीति सियायं पसङ्गो पठमवारे, दुतियवारे पन विभजना एव साति नायं पसङ्गो लब्भति, पठमवारेपि वा नायं पसङ्गो. कस्मा? एसा हि यमकस्स पकति, यदिदं यथालाभवसेन योजना.

दुतिये चित्ते वत्तमानेति एत्थ ‘‘पठमं भवङ्गं, दुतियं चित्त’’न्ति वदन्ति. भवनिकन्तिया आवज्जनम्पि विपाकप्पवत्तितो विसदिसत्ता ‘‘दुतिय’’न्ति वत्तुं सक्का, ततो पट्ठाय पुब्बे तस्स तत्थ समुदयसच्चं नुप्पज्जित्थाति वत्तब्बाति अपरे. भवनिकन्तिया पन सहजातं पठमं चित्तं इध दुतियं चित्तन्ति अधिप्पेतं. ततो पुब्बे पवत्तं सब्बं अब्याकतभावेन समानजातिकत्ता एकन्ति कत्वा ततो पट्ठाय हेट्ठा तस्स तत्थ समुदयसच्चं नुप्पज्जित्थेवाति. तेनाह ‘‘सब्बन्तिमेन परिच्छेदेना’’तिआदि. तस्मिन्ति दुतिये चित्ते. तेन समानगतिकत्ताति तेन यथावुत्तदुतियचित्तेन च तंसमङ्गिनो वा दुक्खसच्चं उप्पज्जित्थ, नो च समुदयसच्चन्ति वत्तब्बभावेन समानगतिकत्ता. एवञ्च कत्वाति तेन समानगतिकताय दस्सितत्ता एव. यथावुत्ताति दुतियाकुसलचित्ततो पुरिमसब्बचित्तसमङ्गिनो अग्गहिता होन्ति इतरभावाभावतो. वुत्तमेवत्थं पाठन्तरेन समत्थेतुं ‘‘यथा’’तिआदि वुत्तं. तेति चतुवोकारा. वज्जेतब्बाति ‘‘इतरेस’’न्ति विसेसनेन निवत्तेतब्बा. पञ्चवोकारा विय यथावुत्ता सुद्धावासाति दुतियचित्तक्खणसमङ्गिभावेन वुत्तप्पकारा यथा सुद्धावाससङ्खाता पञ्चवोकारा पुब्बे वुत्ता सन्ति, एवं चतुवोकारा पुब्बे वुत्ता न हि सन्तीति योजना.

‘‘यस्स यत्था’’ति पुग्गलोकासा आधेय्याधारभावेन अपेक्खिताति आह ‘‘पुग्गलोकासा अञ्ञमञ्ञपरिच्छिन्ना गहिता’’ति. कामावचरे…पे… उपपन्नाति एत्थ कामावचरे अभिसमेताविनो रूपावचरं उपपन्ना, रूपावचरे अभिसमेताविनो अरूपावचरं उपपन्ना, वा-सद्देन कामावचरे अभिसमेताविनो अरूपावचरं उपपन्नाति च योजेतब्बं. तत्थाति उपपन्नोकासे. अभिसमयोति उपरिमग्गाभिसमयो याव उपपन्नो न भविस्सति, ताव ते तत्थ उपपन्नपुग्गला एत्थ एतस्मिं ‘‘अभिसमेतावीन’’न्तिआदिना वुत्ते दुतियकोट्ठासे न गय्हन्ति पुग्गलोकासानं अञ्ञमञ्ञं परिच्छिन्नत्ता. यदि एवं किं ते इमस्मिं यमके असङ्गहिताति आह ‘‘ते पना’’तिआदि. तत्थ यं वुत्तं ‘‘समानगतिकाति विसुं न दस्सिता’’ति, तं पाकटतरं कातुं ‘‘अनभिसमेतावीन’’न्तिआदि वुत्तं. तस्सत्थो – ‘‘अनभिसमेतावीन’’न्ति इमिना पठमपदेन गहिता सब्बत्थ मग्गुप्पत्तिरहे सम्पत्तिभवे तत्थ सुद्धावासे ये अनभिसमेताविनो, तेसु द्विप्पकारेसु सुद्धावासा यस्मिं काले तत्थ अनभिसमेताविनोति गहेतब्बा, तत्थ नेसं तथा गहेतब्बकालस्स विसेसनत्थं ‘‘सुद्धावासानं दुतिये चित्ते वत्तमाने’’ति वुत्तन्ति.

एतेनाति एतेन वचनेन. वोदानचित्तं नाम मग्गचित्तानं अनन्तरपच्चयभूतं चित्तं, इध पन अग्गमग्गचित्तस्स. ततोति यथावुत्तवोदानचित्ततो पुरिमतरचित्तसमङ्गिनो, अनुलोमञाणसम्पयुत्तचित्तसमङ्गिनो, अवसिट्ठवुट्ठानगामिनिविपस्सनाचित्तादिसमङ्गिनोपि. तेनाह ‘‘याव सब्बन्तिमतण्हासम्पयुत्तचित्तसमङ्गी, ताव दस्सिता’’ति.

पटिसन्धिचुतिचित्तानं भङ्गुप्पादक्खणा पवत्ते चित्तस्स भङ्गुप्पादक्खणेहि दुक्खसच्चादीनं नुप्पादादीसु समानगतिकाति कत्वा वुत्तं ‘‘पवत्ते चित्तस्सा’’तिआदि. तत्थ चुतिचित्तस्सपि उप्पादक्खणस्स गहणं दट्ठब्बन्ति योजना. द्वीसुपि कोट्ठासेसूति समुदयसच्चस्स भाविनो निरोधस्स अप्पटिक्खेपपटिक्खेपवसेन पवत्तेसु पुरिमपच्छिमकोट्ठासेसु. न विसेसितन्ति यथावुत्ते अप्पटिक्खेपे च सतिपि विसेसेत्वा न वुत्तन्ति अत्थो. एकस्सपि पुग्गलस्स तादिसस्स मग्गस्स च फलस्स च भङ्गक्खणसमङ्गिनो पुरिमकोट्ठासस्सेव अभजनतो कोट्ठासद्वयसम्भवाभावतोति अत्थो. इदानि तमेवत्थं विवरितुं ‘‘यस्स दुक्खसच्च’’न्तिआदि वुत्तं. केसञ्चि पुग्गलानं. निद्धारणे चेतं सामिवचनं. ‘‘मग्गस्स च फलस्स चा’’ति वुत्तमग्गफलानि दस्सेन्तो ‘‘तिण्णं फलानं द्विन्नञ्च मग्गान’’न्ति आह. तानि पन हेट्ठिमानि तीणि फलानि मज्झे च द्वे मग्गा वेदितब्बा. निरन्तरं अनुप्पादेत्वाति पटिपक्खधम्मेहि अवोकिण्णं कत्वा सह विपस्सनाय मग्गं उप्पादेन्तेन या सातच्चकिरिया कातब्बा, तं अकत्वाति अत्थो. तेनाह ‘‘अन्तरन्तरा…पे… उप्पादेत्वा’’ति. ‘‘अरूपे मग्गस्स च फलस्स च भङ्गक्खणे’’ति अविसेसतो वुत्ते कथमयं विसेसो लब्भतीति आह ‘‘सामञ्ञवचनेनपी’’तिआदि. तेन अपवादविसयपरियायेन उपसग्गा अभिनिविसन्तीति लोकसिद्धोयं ञायोति दस्सेति.

पवत्तिवारवण्णना निट्ठिता.