३. परिञ्ञावारवण्णना

१६५-१७०. एत्थेवाति इमस्मिं सच्चयमके एव. अपरिञ्ञेय्यतादस्सनत्थन्ति एत्थ अ-कारो न परिञ्ञेय्याभाववचनो, नापि परिञ्ञेय्यपटिपक्खवचनो, अथ खो तदञ्ञवचनोति यथारहं सच्चेसु लब्भमानानं पहातब्बतादीनम्पि दस्सने आपन्नेयेव समयवारो दस्सनपरो, येसञ्च न दस्सनपरो, तेसु केसुचि सच्चेसु लब्भमानानम्पि केसञ्चि विसेसानं अयं वारो न दस्सनपरोति दस्सेन्तो ‘‘सच्छिकरण…पे… दस्सनत्थञ्चा’’ति आह. समुदये पहानपरिञ्ञाव वुत्ता, न तीरणपरिञ्ञाति युत्तं तावेतं समुदयस्सपि तीरेतब्बसभावत्ता, ‘‘दुक्खे तीरणपरिञ्ञाव वुत्ता, न पहानपरिञ्ञा’’ति इदं पन कस्मा वुत्तं, ननु दुक्खं अप्पहातब्बमेवाति? समुदयसच्चविभङ्गे वुत्तानं केसञ्चि समुदयकोट्ठासानं दुक्खसच्चे सङ्गहणतो दुक्खसमुदये वा असङ्करतोव गहेत्वा भूतकथनमेतं दट्ठब्बं. उभयत्थाति दुक्खे समुदये च वुत्ता. कस्मा? तेसं साधारणाति. एवं साधारणासाधारणभेदभिन्नं यथावुत्तं परिञ्ञाकिच्चं पुब्बभागे नानक्खणे लब्भमानम्पि मग्गकाले एकक्खणे एव लब्भति एकञाणकिच्चत्ताति दस्सेतुं ‘‘मग्गञाणञ्ही’’तिआदि वुत्तं.

परिञ्ञावारवण्णना निट्ठिता.

सच्चयमकवण्णना निट्ठिता.