महावारो
१. अनुसयवारवण्णना
३. पवत्ताविरामवसेनाति अनुसयप्पवत्तिया अविरामवसेन, अविच्छेदवसेनाति अत्थो. कथं पन कुसलाब्याकतचित्तक्खणे अनुसयानं पवत्तीति आह ‘‘मग्गेनेव…पे… पुब्बे’’ति.
२०. चित्तचेतसिकानञ्च ठानं नाम चित्तुप्पादोति आह ‘‘एकस्मिं चित्तुप्पादे’’ति. तेसं तेसं पुग्गलानन्ति पुथुज्जनादीनं पुग्गलानं. पकतिया सभावेन. सभावसिद्धा हि दुक्खाय वेदनाय कामरागस्स अननुसयनट्ठानता. एवं सेसेसुपि यथारहं वत्तब्बं. वक्खति हि ‘‘पकतिया दुक्खादीनं कामरागादीनं अननुसयनट्ठानतं सन्धाय वुत्त’’न्ति. पहानेनाति तस्स तस्स अनुसयस्स समुच्छिन्दनेन. तिण्णं पुग्गलानन्ति पुथुज्जनसोतापन्नसकदागामीनं. द्विन्नं पुग्गलानन्ति अनागामिअरहन्तानं. एत्थाति एतस्मिं पुग्गलोकासवारे. पुरिमनयेति ‘‘तिण्णं पुग्गलान’’न्तिआदिके पुरिमस्मिं विस्सज्जननये. ओकासन्ति उप्पत्तिट्ठानं, इध पन दुक्खवेदना वेदितब्बा. पच्छिमनयेति ‘‘द्विन्नं पुग्गलान’’न्तिआदिके विस्सज्जननये. अनोकासता अननुसयनट्ठानता.
अनुसयवारवण्णना निट्ठिता.
२. सानुसयवारवण्णना
६६-१३१. ‘‘सानुसयो, पजहति, परिजानाती’’ति पुग्गलो वुत्तोति ‘‘कामरागेन सानुसयो, कामरागं पजहति, कामरागं परिजानाती’’तिआदीसु अनुसयसमङ्गिभावेन पहानपरिञ्ञाकिरियाय कत्तुभावेन च पुग्गलो वुत्तो, न धम्मो. भवविसेसेन वाति केवलेन भवविसेसेन वा. इतरेसूति पटिघानुसयादीसु. भवानुसयविसेसेन वाति कामभवादिभवविसिट्ठानुसयविसेसेन वा. सानुसयतानिरनुसयतादिकाति एत्थ आदि-सद्देन पहानापहानपरिञ्ञापरिञ्ञा सङ्गय्हन्ति. ननु च भवविसेसे केसञ्चि अनुसयानं अप्पहानन्ति? न तं अनुसयकतं, अथ खो पच्चयवेकल्लतो अनोकासताय चाति नायं विरोधो. द्वीसु वेदनासूति सुखउपेक्खासु वेदनासु दुक्खाय वेदनाय कामरागानुसयेन निरनुसयोति योजेतब्बं. इदम्पि नत्थि पुग्गलवसेन वुच्चमानत्ता. तेनाह ‘‘न हि पुग्गलस्स…पे… अनुसयान’’न्ति. यदिपि पुग्गलस्स अनुसयनोकासो अनोकासो, तस्स पन सानुसयतादिहेतु होतीति दस्सेन्तो ‘‘अनुसयस्स पना’’तिआदिमाह. निरनुसयतादीनन्ति आदि-सद्देन अप्पहानापरिञ्ञा सङ्गण्हाति. परिजाननं समतिक्कमनन्ति परिञ्ञावारेपि ‘‘अपादाने निस्सक्कवचन’’न्ति वुत्तं.
अनुसयनट्ठानतोति अनुसयनट्ठानहेतु. ‘‘अननुसयनट्ठानतो’’ति एत्थापि एसेव नयो. निमित्तापादानभावदस्सनत्थन्ति सानुसयवारे निमित्तभावदस्सनत्थं, पजहनपरिञ्ञावारेसु अपादानभावदस्सनत्थञ्चाति योजेतब्बं. पजहतीति एत्थ ‘‘रूपधातुया अरूपधातुया ततो मानानुसयं पजहती’’ति पाळिपदं आहरित्वा योजेतब्बं, न पजहतीति एत्थ पन ‘‘दुक्खाय वेदनाय ततो कामरागानुसयं नप्पजहती’’ति. एवमादीसूति आदि-सद्देन परिञ्ञावारम्पि सङ्गण्हाति. भुम्मनिद्देसेनेव हेतुअत्थेनेव निद्दिट्ठाति अत्थो.
चतुत्थपञ्हविस्सज्जनेनाति ‘‘यतो वा पन मानानुसयेन सानुसयो, ततो कामरागानुसयेन सानुसयो’’ति एतस्स पञ्हस्स विस्सज्जनेन. तत्थ हि ‘‘रूपधातुया अरूपधातुया’’तिआदिना सरूपतो अनुसयनट्ठानानि दस्सितानि. तदत्थेति तं अनुसयनट्ठानदस्सनं अत्थो एतस्साति तदत्थो, तस्मिं तदत्थे. ‘‘अनुसयस्स उप्पत्तिट्ठानदस्सनत्थं अयं वारो आरद्धो’’तिआदिना ‘‘यतो’’ति एतेन अनुसयनट्ठानं वुत्तन्ति इममत्थं विभावेत्वा. पमादलिखितं विय दिस्सति उप्पन्न-सद्देन वत्तमानुप्पन्ने वुच्चमाने. यथा पन उप्पज्जनवारे उप्पज्जति-सद्देन उप्पत्तियोगदीपकत्ता उप्पत्तिरहा वुच्चन्ति, एवमिधापि उप्पत्तिअरहे वुच्चमाने न कोचि विरोधो. यं पन वक्खति ‘‘न हि अपरियापन्नानं अनुसयुप्पत्तिरहट्ठानता’’ति, सोपि न दोसो. यत्थ यत्थ हि अनुसया उप्पत्तिरहा, तदेव एकज्झं गहेत्वा ‘‘सब्बत्था’’ति वुत्तन्ति. तथेव दिस्सतीति तं पमादलिखितं विय दिस्सतीति अत्थो.
यतो उप्पन्नेन भवितब्बन्ति यतो अनुसयनट्ठानतो कामगारानुसयेन उप्पन्नेन भवितब्बं, तेन कामरागानुसयेन उप्पत्तिरहट्ठाने निस्सक्कवचनं कतं ‘‘यतो’’ति. तथाति एत्थ तथा-सद्दो यथा ‘‘यतो उप्पन्नेना’’ति एत्थ उप्पत्तिरहट्ठानतो अनुसयस्स उप्पत्तिरहता वुत्ता, तथा ‘‘उप्पज्जनकेना’’ति एत्थापि सा एव वुच्चतीति दीपेतीति आह ‘‘सब्बधम्मेसु…पे… आपन्नेना’’ति. तत्थ ‘‘उप्पज्जनको’’ति वुत्ते अनुप्पज्जनको न होतीति अयमत्थो विञ्ञायति, तथा च सति तेन अनुप्पत्ति निच्छिताति उप्पन्नसभावता च पकासिता होतीति. तेनाह ‘‘सब्बधम्मेसु…पे… अपनेती’’ति. ‘‘यो यतो कामरागानुसयेन निरनुसयो, सो ततो मानानुसयेन निरनुसयो’’ति पुच्छाय ‘‘यतो ततो’’ति आगतत्ता विस्सज्जने ‘‘सब्बत्था’’ति पदस्स निस्सक्कवसेनेव सक्का योजेतुन्ति दस्सेन्तो ‘‘सब्बत्थाति…पे… न न सम्भवती’’ति आह. भुम्मतो अञ्ञत्थापि सद्दविदू इच्छन्ति, यतो सब्बेसं पादकं ‘‘सब्बत्थपादक’’न्ति वुच्चति, इध पन निस्सक्कवसेन वेदितब्बं.
सानुसयवारवण्णना निट्ठिता.
३. पजहनवारवण्णना
१३२-१९७. अप्पजहनसब्भावाति अप्पहानस्स, अप्पहीयमानस्स वा सब्भावा. तस्माति यस्मा यो कामरागानुसयं पजहति, न सो मानानुसयं निरवसेसतो पजहति, यो च मानानुसयं निरवसेसतो पजहति, न सो कामरागानुसयं पजहति पगेव पहीनत्ता, तस्मा ‘‘यो वा पन मानानुसयं पजहति, सो कामरागानुसयं पजहतीति? नो’’ति वुत्तन्ति वेदितब्बं. यदि एवं पठमपुच्छायं कथन्ति आह ‘‘यस्मा पन…पे… वुत्त’’न्ति. तत्थ पहानकरणमत्तमेवाति पहानकिरियासम्भवमत्तमेव, न निरवसेसप्पहानन्ति अधिप्पायो. ते ठपेत्वाति दिट्ठिविचिकिच्छानुसयादीनं निरवसेसपजहनके अट्ठमकादिके ठपेत्वा. अवसेसाति तस्स तस्स अनुसयस्स निरवसेसप्पजहनकेहि अवसिट्ठा. तेसु येसं एकच्चे अनुसया पहीना, तेपि अप्पजहनसब्भावेनेव नप्पजहन्तीति वुत्ता. न च यथाविज्जमानेनाति मग्गकिच्चभावेन विज्जमानप्पकारेन पहानेन वज्जिता रहिता एव वुत्ताति योजना.
केसञ्चीति सोतापन्नसकदागामिमग्गसमङ्गिसकदागामीनं. पुन केसञ्चीति अनागामिअग्गमग्गसमङ्गिअरहन्तानं. उभयन्ति कामरागविचिकिच्छानुसयद्वयं. सेसानन्ति ‘‘सेसा’’ति वुत्तानं यथावुत्तपुग्गलानं. तेसन्ति वुत्तप्पकारानं द्विन्नं अनुसयानं. उभयाप्पजहनस्साति कामरागविचिकिच्छानुसयाप्पजहनस्स. कारणं न होतीति येसं विचिकिच्छानुसयो पहीनो, तेसं तस्स पहीनता, येसं यथावुत्तं उभयप्पहीनं, तेसं तदप्पजहनस्स कारणं न होतीति अत्थो. तेनाह ‘‘तेसं पहीनत्ता ‘नप्पजहन्ती’ति न सक्का वत्तु’’न्ति. अथ पन न तत्थ कारणं वुत्तं, येन कारणवचनेन यथावुत्तदोसापत्ति सिया, केवलं पन सन्निट्ठानेन तेसं पुग्गलानं गहिततादस्सनत्थं वुत्तं ‘‘कामरागानुसयञ्च नप्पजहन्ती’’ति, एवम्पि पुच्छितस्स संसयत्थस्स कारणं वत्तब्बं. तथा च सति ‘‘सेसपुग्गला तस्स अनुसयस्स पहीनत्ता नप्पजहन्ती’’ति कारणं वत्तब्बमेवाति चोदनं सन्धायाह ‘‘न वत्तब्ब’’न्तिआदि. तत्थ न वत्तब्बन्ति वुत्तनयेन कारणं न वत्तब्बं कारणभावस्सेव अभावतो. ‘‘उभयाप्पजहनस्स कारणं न होती’’ति वुत्तं, यथा पन वत्तब्बं, तं दस्सेतुं ‘‘यो कामरागानुसयं…पे… वत्तब्बत्ता’’ति आह. तेन पहीनाप्पहीनवसेन कारणं न वत्तब्बं, पहीनानंयेव पन वसेन वत्तब्बन्ति दस्सेति. संसयत्थसङ्गहितेति संसयत्थेन पदेन सङ्गहिते. सन्निट्ठानपदसङ्गहितं पन पहीयमानत्ता ‘‘नप्पजहती’’ति न सक्का वत्तुन्ति.
पजहनवारवण्णना निट्ठिता.
५. पहीनवारवण्णना
२६४-२७४. फलट्ठवसेनेव देसना आरद्धा, न मग्गट्ठवसेन, कुतो पुथुज्जनवसेन. कस्मा? फलक्खणे हि अनुसया पहीनाति वुच्चन्ति, मग्गक्खणे पन पहीयन्तीति. तेनेवाह ‘‘मग्गसमङ्गीनं अग्गहिततं दीपेती’’ति. पटिलोमे हि पुथुज्जनवसेनपि देसना गहिता ‘‘यस्स दिट्ठानुसयो अप्पहीनो, तस्स विचिकिच्छानुसयो अप्पहीनोति? आमन्ता’’तिआदिना. अनुसयच्चन्तपटिपक्खेकचित्तक्खणिकानन्ति अनुसयानं अच्चन्तं पटिपक्खभूतएकचित्तक्खणिकानं. मग्गसमङ्गीनन्ति मग्गट्ठानं. एत्थ च अनुसयानं अच्चन्तपटिपक्खताग्गहणेन उप्पत्तिरहतं पटिक्खिपति. न हि ते अच्चन्तपटिपक्खसमुप्पत्तितो परतो उप्पत्तिरहा होन्ति. मग्गसमङ्गिताग्गहणेन अनुप्पत्तिरहतापादिततं पटिक्खिपति. न हि मग्गक्खणे ते अनुप्पत्तिरहतं आपादिता नाम होन्ति, अथ खो आपादीयन्तीति. एकचित्तक्खणिकताग्गहणेन सन्तानब्यापारं. तेनाह ‘‘न कोची’’तिआदि. तत्थ तेति मग्गसमङ्गिनो. न केवलं पहीनवारेयेव, अथ खो अञ्ञेसुपीति दस्सेन्तो ‘‘अनुसय…पे… गहिता’’ति आह.
२७५-२९६. यत्थ अनुसयो उप्पत्तिरहो, तत्थेवस्स अनुप्पत्तिरहतापादनन्ति ‘‘अत्तनो अत्तनो ओकासे एव अनुप्पत्तिधम्मतं आपादितो’’ति आह. तथा हि वुत्तं ‘‘चक्खुं लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसती’’ति (विभ. २०३) वत्वा पुन वुत्तं ‘‘चक्खुं लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झती’’ति (विभ. २०४). तस्माति यस्मा तदोकासत्तमेव कामधातुआदिओकासत्तमेव अनुसयानं दीपेन्ति पहीनाप्पहीनवचनानि, तस्मा. अनोकासे तदुभयावत्तब्बता वुत्ताति यस्मा कामरागपटिघानुसयानं द्विन्नं उप्पत्तिट्ठानं, सो एव पहानोकासोति स्वायं तेसं अञ्ञमञ्ञं अनोकासो, तस्मिं अनोकासे तदुभयस्स पहानाप्पहानस्स नवत्तब्बता वुत्ता. कामरागानुसयोकासे हि पटिघानुसयस्स अप्पहीनत्ता सो ‘‘तत्थ पहीनो’’ति न वत्तब्बो, अट्ठितत्ता पन ‘‘तत्थ अप्पहीनो’’ति च, तस्मा अनोकासे तदुभयावत्तब्बता वुत्ताति. तेन सद्धिं समानोकासेति तेन कामरागेन सद्धिं समानोकासे. ‘‘साधारणट्ठाने’’ति वुत्ते कामधातुयं सुखुपेक्खासु पहीनो नाम होति, न समानकाले पहीनो ततियचतुत्थमग्गवज्झत्ता कामरागमानानुसयानं.
पहीनवारवण्णना निट्ठिता.
७. धातुवारवण्णना
३३२-३४०. अप्पहीनुप्पत्तिरहभावा इध अनुगमनसयनानीति दस्सेन्तो ‘‘यस्मिं …पे… अत्थो’’ति आह. इधापि युत्ताति पुब्बे वुत्तमेवत्थं परामसति. तथा हि वुत्तं ‘‘कारणलाभे उप्पत्तिअरहतं दस्सेती’’ति (यम. मूलटी. अनुसययमक १). छ पटिसेधवचनानीति तिस्सन्नं धातूनं चुतूपपातविसिट्ठानं पटिसेधनवसेन वुत्तवचनानि, ततो एव धातुविसेसनिद्धारणानि न होन्ति. पटिसेधोति हि इध सत्तापटिसेधो वुत्तोति अधिप्पायेन वदति. अञ्ञत्थे पन न-कारे नायं दोसो. इमं नाम धातुं. तंमूलिकासूति पटिसेधमूलिकासु. एवञ्हीति ‘‘न कामधातुया चुतस्स कामधातुं उपपज्जन्तस्सा’’तिआदिना पठमयोजनाय सति. नकामधातुआदीसु उपपत्तिकित्तनेनेव नकामधातुआदिग्गहणेनपि धातुविसेसस्सेव गहितताय अत्थतो विञ्ञायमानत्ता. तेनाह ‘‘न कामधातु…पे… विञ्ञायती’’ति. भञ्जितब्बाति विभजितब्बा. विभागो पनेत्थ दुविधो इच्छितोति आह ‘‘द्विधा कातब्बाति अत्थो’’ति. पुच्छा च विस्सज्जनानि च पुच्छाविस्सज्जनानि. यथा अवुत्ते भङ्गाभावस्स अविञ्ञातत्ता ‘‘अनुसया भङ्गा नत्थी’’ति वत्तब्बं, तथा तयिदं ‘‘कति अनुसया भङ्गा’’ति एतदपेक्खन्ति तदपि वत्तब्बं. पुच्छापेक्खञ्हि विस्सज्जनन्ति.
धातुवारवण्णना निट्ठिता.
अनुसययमकवण्णना निट्ठिता.
८. चित्तयमकं
उद्देसवारवण्णना
१-६२. सरागादीति एत्थ आदि-सद्देन ‘‘यस्स सरागं चित्तं उप्पज्जति, न निरुज्झती’’ति आरभित्वा याव ‘‘यस्स अविमुत्तं चित्त’’न्ति वारो, ताव सङ्गण्हाति. कुसलादीति पन आदि-सद्देन ‘‘यस्स कुसलं चित्तं उप्पज्जति, न निरुज्झती’’ति आरभित्वा याव ‘‘यस्स सरणं चित्तं उप्पज्जति, न निरुज्झती’’ति वारो, ताव सङ्गण्हाति, तस्मा सरागादिकुसलादीहीति सरागादीहि अविमुत्तन्तेहि, कुसलादीहि अरणन्तेहि पदेहि मिस्सका वारा. सुद्धिकाति केवला यथावुत्तसरागादीहि कुसलादीहि च अमिस्सका. तयो तयोति पुग्गलधम्मवसेन तयो तयो महावारा. यदि एवं कथं सोळस पुग्गलवाराति आह ‘‘तत्थ तत्थ पन वुत्ते सम्पिण्डेत्वा’’ति. तत्थ तत्थ सोळसविधे सरागादिमिस्सकचित्ते वुत्ते पुग्गले एव एकज्झं सम्पिण्डेत्वा सङ्गहेत्वा ‘‘सोळस पुग्गलवारा’’ति वुत्तं. ‘‘धम्मपुग्गलधम्मवारा’’ति एत्थापि एसेव नयो. न निरन्तरं वुत्तेति धम्मे पुग्गलधम्मे च अनामसित्वा सोळससुपि ठानेसु निरन्तरं पुग्गले एव वुत्ते सम्पिण्डेत्वा सोळस पुग्गलवारा न वुत्ताति अत्थो.
संसग्गवसेनाति संसज्जनवसेन देसनाय विमिस्सनवसेन. अञ्ञथा हि उप्पादनिरोधा पच्चुप्पन्नानागतकाला च कथं संसज्जीयन्ति. सेसानम्पि वारानन्ति उप्पादुप्पन्नवारादीनं. तंतंनामताति यथा ‘‘यस्स चित्तं उप्पज्जति, तस्स चित्तं उप्पन्न’’न्तिआदिना उप्पादउप्पन्नभावामसनतो उप्पादउप्पन्नवारोति नामं पाळितो एव विञ्ञायति, एवं सेसवारानम्पीति आह ‘‘तंतंनामता पाळिअनुसारेन वेदितब्बा’’ति.
उद्देसवारवण्णना निट्ठिता.
निद्देसवारवण्णना
६३. तथारूपस्सेवाति पच्छिमचित्तसमङ्गिनो एव. तञ्च चित्तन्ति तञ्च यथावुत्तक्खणं पच्छिमचित्तं. ‘‘एवंपकार’’न्ति इमस्स अत्थं दस्सेतुं ‘‘भङ्गक्खणसमङ्गिमेवा’’ति वुत्तं निरुज्झमानाकारस्स ‘‘एवंपकार’’न्ति वुत्तत्ता.
६५-८२. द्वयमेतन्ति यं ‘‘खणपच्चुप्पन्नमेव चित्तं उप्पादक्खणापगमेन उप्पज्जित्थ नाम, तदेव उप्पादक्खणे उप्पादं पत्तत्ता उप्पज्जित्थ, अनतीतत्ता उप्पज्जति नामा’’ति वुत्तं, एतं उभयम्पि. एवं न सक्का वत्तुन्ति इमिना वुत्तप्पकारेन न सक्का वत्तुं, पकारन्तरेन पन सक्का वत्तुन्ति अधिप्पायो. तत्थ ‘‘न ही’’तिआदिना पठमपक्खं विभावेति. विभजितब्बं सियाति ‘‘भङ्गक्खणे तं चित्तं उप्पज्जित्थ, नो च उप्पज्जति, उप्पादक्खणे तं चित्तं उप्पज्जित्थ चेव उप्पज्जति चा’’ति विभजितब्बं सिया, न च विभत्तं. ‘‘आमन्ता’’ति वत्तब्बं सिया खणपच्चुप्पन्ने चित्ते वुत्तनयेन उभयस्सपि लब्भमानत्ता, न च वुत्तं. इदानि येन पकारेन सक्का वत्तुं, तं दस्सेतुं ‘‘चित्तस्स भङ्गक्खणे’’तिआदिमाह. पुग्गलो वुत्तो, पुग्गलवारो हेसोति अधिप्पायो. तस्साति पुग्गलस्स. न च किञ्चि चित्तं उप्पज्जति चित्तस्स भङ्गक्खणसमङ्गिभावतो. तं पन चित्तं उप्पज्जति, यं चित्तसमङ्गी सो पुग्गलोति एवमेत्थ अत्थो दट्ठब्बो. यदि अनेकचित्तवसेनायं यमकदेसना पवत्ताति चोदनं सन्धायाह ‘‘चित्तन्ति हि…पे… तिट्ठती’’ति. सन्निट्ठानवसेन नियमो वेदितब्बो, अञ्ञथा ‘‘नो च तेसं चित्तं उप्पज्जती’’तिआदिना पटिसेधो न युज्जेय्याति अधिप्पायो. तादिसन्ति तथारूपं, यदवत्थो उप्पन्नउप्पज्जमानतादिपरियायेहि वत्तब्बो होति, तदवत्थन्ति अत्थो.
८३-११३. इमस्स पुग्गलवारत्ताति ‘‘यस्स चित्तं उप्पज्जमान’’न्तिआदिनयप्पवत्तस्स इमस्स अतिक्कन्तकालवारस्स पुग्गलवारत्ता. पुग्गलो पुच्छितोति ‘‘यस्स चित्तं उप्पज्जमानं…पे… तस्स चित्त’’न्ति चित्तसमङ्गिपुग्गलो पुच्छितोति पुग्गलस्सेव विस्सज्जनेन भवितब्बं, इतरथा अञ्ञं पुच्छितं अञ्ञं विस्सज्जितं सिया. न कोचि पुग्गलो न गहितो सब्बसत्तानं अनिब्बत्तचित्तताभावतो. ते च पन सब्बे पुग्गला. निरुज्झमानक्खणातीतचित्ताति निरुज्झमानक्खणा हुत्वा अतीतचित्ता. तथा दुतियततियाति यथा पठमपञ्हो अनवसेसपुग्गलविसयत्ता पटिवचनेन विस्सज्जेतब्बो सिया, तथा ततो एव दुतियततियपञ्हा ‘‘आमन्ता’’इच्चेव विस्सज्जेतब्बा सियुन्ति अत्थो. चतुत्थो पन पञ्हो एवं विभजित्वा पुग्गलवसेनेव विस्सज्जेतब्बोति दस्सेन्तो ‘‘पच्छिमचित्तस्सा’’तिआदिं वत्वा तथा अवचने कारणं दस्सेन्तो ‘‘चित्तवसेन पुग्गलववत्थानतो’’तिआदिमाह. ‘‘भङ्गक्खणे चित्तं उप्पादक्खणं वीतिक्कन्त’’न्ति इमिना वत्तमानस्स चित्तस्स वसेन पुग्गलो उप्पादक्खणातीतचित्तो, ‘‘अतीतं चित्तं उप्पादक्खणञ्च वीतिक्कन्तन्ति भङ्गक्खणञ्च वीतिक्कन्त’’न्ति इमिना पन अतीतस्स चित्तस्स वसेन पुग्गलो उप्पादक्खणातीतचित्तो वुत्तो.
तत्थाति तेसु द्वीसु पुग्गलेसु. पुरिमस्साति पठमं वुत्तस्स सन्निट्ठानपदसङ्गहितस्स चित्तं न भङ्गक्खणं वीतिक्कन्तं. ‘‘नो च भङ्गक्खणं वीतिक्कन्त’’न्ति हि वुत्तं. पच्छिमस्स वीतिक्कन्तं चित्तं भङ्गक्खणन्ति सम्बन्धो. ‘‘भङ्गक्खणञ्च वीतिक्कन्त’’न्ति हि वुत्तं. एवमादिको पुग्गलविभागोति दुतियपञ्हादीसु वुत्तं सन्धायाह. तस्स चित्तस्स तंतंखणवीतिक्कमावीतिक्कमदस्सनवसेनाति तस्स तस्स उप्पादक्खणस्स भङ्गक्खणस्स च यथारहं वीतिक्कमस्स अवीतिक्कमस्स च दस्सनवसेन दस्सितो होति पुग्गलविभागोति योजना. इधाति इमस्मिं अतिक्कन्तकालवारे. पुग्गलविसिट्ठं चित्तं पुच्छितं ‘‘यस्स चित्तं तस्स चित्त’’न्ति वुत्तत्ता. यदिपि पुग्गलप्पधाना पुच्छा पुग्गलवारत्ता. अथापि चित्तप्पधाना पुग्गलं विसेसनभावेन गहेत्वा चित्तस्स विसेसितत्ता. उभयथापि दुतियपुच्छाय ‘‘आमन्ता’’ति वत्तब्बं सिया अनवसेसपुग्गलविसयत्ता. तथा पन अवत्वा ‘‘अतीतं चित्त’’न्ति वुत्तं, कस्मा निरोधक्खण…पे… दस्सनत्थन्ति दट्ठब्बन्ति योजना. एस नयो ‘‘न निरुज्झमान’’न्ति एत्थापीति निरुज्झमानं खणं निरोधक्खणं खणं वीतिक्कन्तकालं किं तस्स चित्तं न होतीति अत्थो.
११४-११६. सरागपच्छिमचित्तस्साति सरागचित्तेसु पच्छिमस्स चित्तस्स, एकस्स पुग्गलस्स रागसम्पयुत्तचित्तेसु यं सब्बपच्छिमं चित्तं, तस्स. सो पन पुग्गलो अनागामी वेदितब्बो. न निरुज्झति निरोधासमङ्गिताय. निरुज्झिस्सति इदानि निरोधं पापुणिस्सति. अप्पटिसन्धिकत्ता पन ततो अञ्ञं नुप्पज्जिस्सति. इतरेसन्ति यथावुत्तसरागपच्छिमचित्तसमङ्गिं वीतरागचित्तसमङ्गिञ्च ठपेत्वा अवसेसानं इतरसेक्खानञ्चेव पुथुज्जनानञ्च.
निद्देसवारवण्णना निट्ठिता.
चित्तयमकवण्णना निट्ठिता.