१. पण्णत्तिवारो

उद्देसवारवण्णना

१-१६. यथा मूलयमके कुसलादिधम्मा देसिताति कुसलाकुसलाब्याकता धम्मा कुसलकुसलमूलादिविभागतो मूलयमके यमकवसेन यथा देसिता. अञ्ञथाति कुसलकुसलमूलादिविभागतो अञ्ञथा, खन्धादिवसेनाति अत्थो.

उद्देसवारवण्णना निट्ठिता.

२. पवत्तिवारवण्णना

३३-३४. तं पन कम्मसमुट्ठानादिरूपं अग्गहेत्वा. केचीति धम्मसिरित्थेरं सन्धायाह. सो हि ‘‘चित्तसमुट्ठानरूपवसेन वुत्त’’न्ति अट्ठकथं आहरित्वा ‘‘इमस्मिं पञ्हे कम्मसमुट्ठानादिरूपञ्च लब्भती’’ति अवोच. तथा च वत्वा पटिलोमपाळिं दस्सेत्वा ‘‘चित्तसमुट्ठानरूपमेव इधाधिप्पेतं. कम्मसमुट्ठानादिरूपे न विधानं, नापि पटिसेधो’’ति आह. तथाति यथा वुत्तप्पकारे पाठे चित्तसमुट्ठानरूपमेव अधिप्पेतं, तथा एत्थापीति अत्थो. नोति वुत्तन्ति वदन्तीति सम्बन्धो. तं पनेतन्ति यथा उद्धटस्स पाठस्स अत्थवचनं, एवं न सक्का वत्तुं. कस्माति आह ‘‘चित्तस्स भङ्गक्खणे…पे… पटिसेधसिद्धितो’’ति. स्वायं पटिसेधो हेट्ठा दस्सितोयेवाति अधिप्पायो.

ये च वदन्तीति एत्थ ये चाति वजिरबुद्धित्थेरं सन्धायाह. सो हि ‘‘सोतापत्तिमग्गक्खणे’’तिआदिना पटिसम्भिदामग्गपाळिं आहरित्वा ‘‘यथा तत्थ सतिपि कम्मजादिरूपे ठपेत्वा चित्तसमुट्ठानरूपन्ति चित्तपटिबद्धत्ता चित्तजरूपमेव ठपेतब्बभावेन उद्धटं, एवमिधापि चित्तजरूपमेव कथित’’न्ति वदति. तञ्च नेसं वचनं तथा न होति, यथा तेहि उदाहटं, विसमोयं उपञ्ञासोति अत्थो. यथा च तं तथा न होति, तं दस्सेतुं ‘‘येसञ्ही’’तिआदि वुत्तं. तेसन्ति कम्मजादीनं. तस्साति मग्गस्स. तेति अब्याकता, ये उप्पादनिरोधवन्तो. अविज्जमानेसु च उप्पादनिरोधेसु निब्बानस्स विय.

सन्निट्ठानेन गहितेसु पुग्गलेसु. तेसु हि केचि अकुसलाब्याकतचित्तानं उप्पादक्खणसमङ्गिनो, केचि अब्याकतचित्तस्स, केचि कुसलाब्याकतचित्तस्स, तेसु पुरिमा द्वे पठमकोट्ठासेन सङ्गहिता तस्स कुसलुप्पत्तिपटिसेधपरत्ता, ते पन भववसेन विभजित्वा वत्तब्बाति दस्सेन्तो ‘‘पञ्चवोकारे’’तिआदिमाह. एवन्ति यथावुत्तनयेन. सब्बत्थाति सब्बपञ्हेसु.

७९. ततोति एकावज्जनवीथितो. पुरिमतरजवनवीथि याय वुट्ठानगामिनी सङ्गहिता, तत्थ उप्पन्नस्सपि चित्तस्स. कुसलानागतभावपरियोसानेनाति कुसलधम्मानं अनागतभावस्स परियोसानभूतेन अग्गमग्गानन्तरपच्चयत्तेन दीपितं होति समानलक्खणं सब्बं. केन? ताय एव समानलक्खणताय. एस नयोति यथा कुसलानुप्पादो कुसलानागतभावस्स परियोसानभूततो वुत्तपरिच्छेदतो ओरम्पि लब्भतीति सो यथावुत्तपरिच्छेदो लक्खणमत्तन्ति स्वायं नयो दस्सितो. एस नयो अकुसलातीतभावस्स आदिम्हि ‘‘दुतिये अकुसले’’ति वुत्तट्ठाने, अब्याकतातीतभावस्स आदिम्हि ‘‘दुतिये चित्ते’’ति वुत्तट्ठानेपीति योजना. इदानि ‘‘एस नयो’’ति यथावुत्तमतिदेसं ‘‘यथा ही’’तिआदिना पाकटतरं करोति. भावनापहानानि दस्सितानि होन्ति ‘‘अग्गमग्गसमङ्गी कुसलञ्च धम्मं भावेति, अकुसलञ्च पजहती’’ति. इधाति इमस्मिं पवत्तिवारे. तं तन्ति अकुसलातीततादि कुसलानागततादि च. तेन तेनाति ‘‘दुतिये अकुसले अग्गमग्गसमङ्गी’’ति एवमादिना अन्तेन च.

१००. पटिसन्धिचित्ततोति इदं मरियादग्गहणं, न अभिविधिग्गहणं, यतो ‘‘सोळसम’’न्ति आह. अभिविधिग्गहणमेव वा सोळसचित्तक्खणायुकमेव रूपन्ति इमस्मिं पक्खे अधिप्पेते पटिक्खित्तोवायं वादोति दस्सेन्तो ‘‘ततो परम्पि वा’’ति आह. अयञ्च विचारो हेट्ठा दस्सितो एव. न ततो ओरन्ति विञ्ञायति ततो ओरं अकुसलनिरोधसमकालं अब्याकतनिरोधस्स असम्भवतो.

पवत्तिवारवण्णना निट्ठिता.

धम्मयमकवण्णना निट्ठिता.

१०. इन्द्रिययमकं