७. अनुसययमकं

परिच्छेदपरिच्छिन्नुद्देसवारवण्णना

१. ‘‘अविज्जासमुदया रूपसमुदयो, तण्हासमुदया रूपसमुदयो, कम्मसमुदया रूपसमुदयो. लोभो निदानं कम्मानं समुदयाया’’ति च एवमादिना कुसलमूलकुसलादीनं पच्चयभावो वुत्तोति आह ‘‘पच्चयदीपकेन मूलयमकेना’’ति. ‘‘सो ‘अनिच्चं रूपं, अनिच्चं रूप’न्ति यथाभूतं पजानाति. चक्खु अनिच्चं, रूपा अनिच्चा’’ति च आदिना बहुलखन्धादिमुखेन अनिच्चानुपस्सनादयो विहिताति वुत्तं ‘‘खन्धादीसु तीरणबाहुल्लतो’’ति. किलेसानं समुच्छिन्दनतो परं पहानकिच्चं नत्थीति आह ‘‘अनुसयपहानन्ता पहानपरिञ्ञा’’ति. यदिपि अनुसयेहि सम्पयोगतो आरम्मणतो वा पहानपरिञ्ञा नप्पवत्तति, अनुसयाभावे पन तदारम्भो एव नत्थीति कत्वा वुत्तं ‘‘अनुसयेहि पहानपरिञ्ञं विभावेतु’’न्ति. अनुसयभावेन लब्भमानानन्ति अनुसयभावेन विज्जमानानं, अनुसयसभावानन्ति अत्थो. तीहाकारेहीति परिच्छेदादीहि तीहि पकारेहि. अनुसयेसु गणनसरूपप्पवत्तिट्ठानतो अबोधितेसु पुग्गलोकासादिवसेन पवत्तियमाना तब्बिसया देसना न सुविञ्ञेय्या होतीति दस्सेन्तो आह ‘‘तेसु तथा…पे… दुरवबोधत्ता’’ति.

एत्थ पुरिमेसूति पदुद्धारो अनन्तरस्स विधि पटिसेधो वाति कत्वा सानुसयवारादिअपेक्खो, न अनुसयवारादिअपेक्खो अनुसयवारे पाळिववत्थानस्स पगेव कतत्ताति दस्सेन्तो ‘‘एतेसु सानुसयवारादीसु पुरिमेसूति अत्थो’’ति आह. सानुसयवारादीसु हि तीसु पुरिमेसु ओकासवारे यतो ततोति देसना पवत्ता, न अनुसयवारादीसु. अत्थविसेसाभावतोति ‘‘कामधातुया चुतस्सा’’तिआदिना (यम. २.अनुसययमक.३०२) पाळिआगतपदस्स, ‘‘कामधातुं वा पन उपपज्जन्तस्सा’’तिआदिना यमकभावेन अट्ठकथाआदिगतपदस्स च अत्थविसेसाभावतो. कथमयं यमकदेसना सिया दुतियस्स पदस्स अभावतोति अत्थो. यदि नायं यमकदेसना, अथ कस्मा इधागताति आह ‘‘पुरिमवारे ही’’तिआदि. तत्थ अनुसयट्ठानपरिच्छेददस्सनन्ति अनुसयट्ठानताय परिच्छेददस्सनं. एवम्पि कथमिदं अनुसययमकं यमकदेसनासब्भावतोति आह ‘‘यमकदेसना…पे… नामं दट्ठब्ब’’न्ति. अत्थवसेनाति पटिलोमत्थवसेन. पठमपदेन हि वुत्तस्स विपरिवत्तनवसेनपि यमकदेसना होति ‘‘रूपं रूपक्खन्धो, रूपक्खन्धो रूप’’न्तिआदीसु (यम. १.खन्धयमक.२), तत्थ पन अत्थविसेसो अत्थि, इध नत्थि, तस्मा न तथा देसना कताति दस्सेन्तो आह ‘‘अत्थविसेसाभावतो पन न वुत्ता’’ति. लब्भमानतावसेनाति पुच्छाय लब्भमानतावसेन.

उप्पत्तिअरहतं दस्सेतीति इमिना निप्परियायेन अनुसया अनागताति दस्सितं होति यतो ते मग्गवज्झा, न च अतीतपच्चुप्पन्ना उप्पत्तिरहाति वुच्चन्ति उप्पन्नत्ता. यंसभावा पन धम्मा अनागता अनुसयाति वुच्चन्ति, तंसभावा एव ते अतीतपच्चुप्पन्ना वुत्ता. न हि धम्मानं अद्धाभेदेन सभावभेदो अत्थि, तस्मा अनुसयानं अतीतपच्चुप्पन्नभावा परियायतो लब्भन्तीति अट्ठकथायं (यम. अट्ठ. अनुसययमक १) ‘‘अतीतोपि होती’’तिआदि वुत्तं. एवंपकाराति अनुसयप्पकारा, कारणलाभे सति उप्पज्जनारहाइच्चेव अत्थो. सो एवंपकारो उप्पज्जनवारे उप्पज्जति-सद्देन गहितो उप्पज्जनारहताय अविच्छिन्नभावदीपनत्थन्ति अधिप्पायो. तेनाह ‘‘न खन्धयमकादीसु विय उप्पज्जमानता’’ति, पच्चुप्पन्नताति अत्थो. तेनेवातिआदिना यथावुत्तमत्थं पाकटतरं करोति. तत्थ निन्नानाकरणोति निब्बिसेसो. उप्पज्जनानुसयानं निन्नानाकरणत्ता एव हि ‘‘एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसती’’ति विभङ्गे (विभ. २०३) आगतं. अनुसयनञ्हि एत्थ निविसनन्ति अधिप्पेतं.

इदानि येन परियायेन अतीतपच्चुप्पन्नेसु अनुसयवोहारो, तं दस्सेतुकामो अनागतम्पि तेहि सद्धिं एकज्झं कत्वा दस्सेन्तो ‘‘अनुरूपं कारणं पन…पे… वुच्चन्ती’’ति आह. एतेन भूतपुब्बगतिया अतीतपच्चुप्पन्नेसु उप्पत्तिरहता वेदितब्बाति दस्सेति. उप्पत्तिअरहता नाम किलेसानं मग्गेन असमुच्छिन्नताय वेदितब्बा. सा च अतीतपच्चुप्पन्नेसुपि अत्थेवाति पकारन्तरेनपि तेसं परियायतोव अनुसयभावं पकासेति. तेनेवाह ‘‘मग्गस्स पना’’तिआदि. तादिसानन्ति ये मग्गभावनाय असति उप्पत्तिरहा, तादिसानं. धम्मो एव च उप्पज्जति, न धम्माकारोति अधिप्पायो. न हि धम्माकारा अनिच्चतादयो उप्पज्जन्तीति वुच्चन्ति. यदि पन ते उप्पादादिसमङ्गिनो सियुं, धम्मा एव सियुं. तेन वुत्तं ‘‘अप्पहीनाकारो च उप्पज्जतीति वत्तुं न युज्जती’’ति.

वुत्तम्पि थामगमनं अग्गहेत्वा अप्पहीनट्ठमत्तमेव गहेत्वा चोदको चोदेतीति दस्सेन्तो आह ‘‘सत्तानुसय…पे… आपज्जतीति चे’’ति. न हि थामगमने गहिते चोदनाय ओकासो अत्थि. तेनाह ‘‘नापज्जती’’तिआदि. वुत्तं अट्ठकथायं, न केवलमट्ठकथायमेव पाठगतोवायमत्थो, तस्मा एवमेव गहेतब्बोति दस्सेन्तो ‘‘थामगतो…पे… युत्त’’न्ति वत्वा किं पन तं थामगमनन्ति परासङ्कं निवत्तेन्तो ‘‘थामगतन्ति च…पे… वुत्ता’’ति आह. तत्थ अञ्ञेहि असाधारणोति किलेसवत्थुआदीनं किलेसतादिसभावो विय कामरागादितो अञ्ञत्थ अलब्भमानो तेसंयेव आवेणिको सभावो, यतो ते भवबीजं भवमूलन्ति च वुच्चन्ति. यस्मा च थामगमनं तेसं अनञ्ञसाधारणो सभावो, तस्मा अनुसयनन्ति वुत्तं होतीति दस्सेन्तो ‘‘थामगतोति अनुसयसमङ्गीति अत्थो’’ति आह.

‘‘यस्स कामरागानुसयो अनुसेति, तस्स पटिघानुसयो अनुसेतीति? आमन्ता’’तिआदिना (यम. २.अनुसययमक.३) अनुसयवारे वुत्तो एव अत्थो ‘‘यस्स कामरागानुसयो उप्पज्जति, तस्स पटिघानुसयो उप्पज्जतीति? आमन्ता’’तिआदिना (यम. २.अनुसययमक.३००) वुत्तोति अनुसयनाकारो एव उप्पज्जनवारे उप्पज्जति-सद्देन गहितोति ‘‘उप्पज्जनवारो अनुसयवारेन निन्नानाकरणो विभत्तो’’ति यं वुत्तं, तत्थ विचारं आरभति ‘‘अनुसयउप्पज्जनवारानं समानगतिकत्ता’’तिआदिना. ‘‘उप्पज्जती’’ति वचनं सियाति उप्पज्जनवारे ‘‘उप्पज्जती’’ति वचनं अप्पहीनाकारदीपकं सिया. तथा च सति यथा ‘‘इमस्स उप्पादा’’ति एत्थ इमस्स अनिरोधाति अयमत्थोपि ञायति, एवं ‘‘उप्पज्जती’’ति वुत्ते अत्थतो ‘‘न उप्पज्जती’’ति अयमत्थो वुत्तो होति अप्पहीनाकारस्स उप्पत्तिरहभावस्स अनुप्पज्जमानसभावत्ताति चोदनं दस्सेन्तो ‘‘उप्पज्जतीति वचनस्स अवुत्तता न सक्का वत्तुन्ति चे’’ति आह. वचनत्थविसेसेन तंद्वयस्स वुत्तत्ताति एतेन धम्मनानत्ताभावेपि पदत्थनानत्थेन वारन्तरदेसना होति यथा सहजातसंसट्ठवारेसूति दस्सेति. अनुरूपं कारणं लभित्वातिआदि तमेव वचनत्थविसेसं विभावेतुं आरद्धं. उप्पत्तियोग्गन्ति उप्पत्तिया योग्गं, उप्पज्जनसभागतन्ति अत्थो. यतो अनुसया उप्पत्तिरहाति वुच्चन्ति, एकन्तेन चेतदेव सम्पटिच्छितब्बं ‘‘यस्स कामरागानुसयो उप्पज्जति, तस्स पटिघानुसयो उप्पज्जतीति? आमन्ता’’तिआदिवचनतो (यम. २.अनुसययमक.३००). ‘‘अनुसेन्तीति अनुसया’’ति एत्तके वुत्ते सदा विज्जमाना नु खो ते अपरिनिप्फन्नानुसयनट्ठेन ‘‘अनुसया’’ति वुच्चन्तीति अयमत्थो आपज्जतीति तंनिसेधनत्थं ‘‘अनुरूपं कारणं लभित्वा उप्पज्जन्ती’’ति वुत्तं. उप्पत्तिअरहभावेन थामगतता अनुसयट्ठोति यं तेसं उप्पत्तियोगवचनं वुत्तं, तं सम्मदेव वुत्तन्ति इममत्थमाह ‘‘अनुसयसद्दस्सा’’तिआदिना. तेन वारद्वयदेसनुप्पादिका अनुसयसद्दत्थनिद्धारणाति दस्सेति. तम्पि सुवुत्तमेव इमिना तन्तिप्पमाणेनाति इदम्पि ‘‘अभिधम्मे तावा’’तिआदिना आगतं तिविधमेव तन्तिं सन्धायाहाति दस्सेन्तो आह ‘‘तन्तित्तयेनपि हि चित्तसम्पयुत्तता दीपिता होती’’ति.

परिच्छेदपरिच्छिन्नुद्देसवारवण्णना निट्ठिता.

उप्पत्तिट्ठानवारवण्णना

२. एवं सतीति वेदनानं विसेसितब्बभावे कामधातुया च विसेसनभावे सति. कामाधातुया अनुसयनट्ठानता न वुत्ता होति अप्पधानभावतो, पधानाप्पधानेसु पधाने किच्चदस्सनतो, विसेसनभावेन चरितब्बताय चाति अधिप्पायो. होतु को दोसोति कदाचि वदेय्याति आसङ्कमानो आह ‘‘द्वीसु पना’’तिआदि. द्वीसूति निद्धारणे भुम्मं, तथा ‘‘तीसु धातूसू’’ति एत्थापि. तस्माति यस्मा धातुआदिभेदेन तिविधं अनुसयट्ठानं, तत्थ च रूपारूपधातूनं भवरागस्स अनुसयट्ठानता वुत्ताति कामधातुया कामरागस्स अनुसयट्ठानता एकन्तेन वत्तब्बा, तस्मा. तीसु धातूसु तीसु वेदनासूति च निद्धारणे भुम्मं, कामधातुया द्वीसु वेदनासूति च आधारे.

द्वीस्वेवाति द्वीसु सुखोपेक्खासु एव. सब्बासु द्वीसूति यासु कासुचि द्वीसु. तेनाति ‘‘कामरागो द्वीसु वेदनासु अनुसेती’’ति वचनसामत्थियलद्धेन विसेसनिच्छयेनेव. भवरागानुसयट्ठानं रूपारूपधातुयो तदनुरूपा च वेदना. न हि द्वीसु वेदनासु कामरागानुसयोव अनुसेतीति अवधारणं इच्छितं, द्वीसु एव पन वेदनासूति इच्छितं. तेनेवाह ‘‘द्वीस्वेव अनुसेति, न तीसू’’ति. अट्ठानञ्च अनुसयानं, किं तं अपरियापन्नं सक्काये? सब्बो लोकुत्तरो धम्मो. च-सद्देन पटिघानुसयट्ठानं सङ्गण्हाति. तेन वुत्तं ‘‘यथा चा’’तिआदि. अञ्ञाति कामरागानुसयट्ठानभूता द्वे वेदना.

अञ्ञेसु द्वीहि वेदनाहि विप्पयुत्तेसु. पियरूपसातरूपेसूति पियायितब्बमधुरसभावेसु. विसेसनञ्चेतं रूपादीनं सब्बद्वारसब्बपुरिसेसु इट्ठभावस्स अनियतताय कतं. सातसन्तसुखगिद्धियाति सातसुखे सन्तसुखे च गिज्झनाकारेन अभिकङ्खनाकारेन. तत्थ सातसुखं कायिकं, सन्तसुखं चेतसिकं. सातसुखं वा कायिकसुखं, सन्तसुखं उपेक्खासुखं. तथा चाहु ‘‘उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिता’’ति (विसुद्धि. २.६४४; महानि. अट्ठ. २७). परित्तं वा ओळारिकं सुखं सातसुखं, अनोळारिकं सन्तसुखं. परित्तग्गहणञ्चेत्थ कामरागानुसयस्स अधिप्पेतत्ता. अञ्ञत्थाति वेदनाहि अञ्ञत्थ. सोति कामरागानुसयो. वेदनासु अनुगतो हुत्वा सेतीति वेदनापेक्खो एव हुत्वा पवत्तति यथा पुत्तापेक्खाय धातिया अनुग्गण्हनप्पवत्ति, सयनसङ्खाता पवत्ति च कामरागस्स निकामनमेव. तेनाह ‘‘सुखमिच्चेव अभिलपती’’ति. यथा तस्स, एवं पटिघानुसयादीनम्पि वुत्तनियामेन यथासकं किच्चकरणमेव दुक्खवेदनादीसु अनुसयनं दट्ठब्बं. तेन वुत्तं ‘‘एवं पटिघानुसयो चा’’तिआदि. तीसु वेदनासु अनुसयनवचनेनाति तीसु वेदनासु यथारहं अनुसयनवचनेन. इट्ठादिभावेन गहितेसूति इट्ठादीसु आरम्मणपकतिया वसेन इट्ठादिभावेन गहितेसु विपरीतसञ्ञाय वसेन अनिट्ठादीसु इट्ठादिभावेन गहितेसूति योजना. न हि इट्ठादिभावेन गहणं विपरीतसञ्ञा.

तत्थाति इट्ठारम्मणादीसु. एत्थाति अनुसयने. कामस्सादादिवत्थुभूतानं कामभवादीनन्ति कामस्सादभवस्सादवत्थुभूतानं कामरूपारूपभवानं गहणं वेदितब्बन्ति योजना. तत्थाति वेदनात्तयधातुत्तयेसु. निद्धारणे चेतं भुम्मं. दुक्खपटिघातो दुक्खे अनभिरति. यत्थ तत्थाति दुक्खवेदनाय तंसम्पयुत्तेसु अनिट्ठरूपादीसु वाति यत्थ तत्थ. महग्गता उपादिन्नक्खन्धा रूपारूपभवा, अनुपादिन्नक्खन्धा रूपारूपावचरधम्मा. तत्थाति यथावुत्तेसु महग्गतधम्मेसु भवरागोइच्चेव वेदितब्बो. तेन वुत्तं ‘‘रूपधातुया अरूपधातुया एत्थ कामरागानुसयो नानुसेती’’ति. दिट्ठानुसयादीनन्ति आदि-सद्देन विचिकिच्छानुसयअविज्जानुसयादीनं सङ्गहो दट्ठब्बो.

धातुत्तयवेदनात्तयविनिमुत्तं दिट्ठानुसयादीनं अनुसयनट्ठानं न वुत्तन्ति सुवुत्तमेतं दिट्ठानुसयादीनं उप्पत्तिट्ठानपुच्छायं ‘‘सब्बसक्कायपरियापन्नेसु धम्मेसु’’इच्चेव विस्सज्जितत्ता. कामरागो पन यत्थ नानुसेति, तं दुक्खवेदनारूपारूपधातुविनिमुत्तं दिट्ठानुसयादीनं अनुसयनट्ठानं अत्थीति दस्सेतुं ‘‘ननु चा’’तिआदि आरद्धं. तत्थ तदनुसयनट्ठानतोति तस्स कामरागानुसयस्स अनुसयनट्ठानतो. अञ्ञा नेक्खम्मस्सितसोमनस्सुपेक्खासङ्खाता. अयमेत्थ सङ्खेपत्थो – नेक्खम्मस्सितदोमनस्से विय पटिघानुसयो नेक्खम्मस्सितसोमनस्सुपेक्खासु कामरागानुसयो नानुसेतीति ‘‘यत्थ कामरागानुसयो नानुसेति, तत्थ दिट्ठानुसयो नानुसेती’’ति सक्का वत्तुन्ति तस्मा तं उद्धरित्वा न वुत्तन्ति. होन्तूति तासं वेदनानं अत्थितं पटिजानित्वा उद्धरित्वा अवचनस्स कारणं दस्सेन्तो आह ‘‘न पन…पे… तं न वुत्त’’न्ति. तदनुसयनट्ठानन्ति तेसं दिट्ठानुसयादीनं अनुसयनट्ठानं. तस्माति यस्मा सतिपि कामरागानुसयनट्ठानतो अञ्ञस्मिं दिट्ठानुसयादीनं अनुसयनट्ठाने तं पन धातुत्तयवेदनात्तयविनिमुत्तं नत्थि वेदनाद्वयभावतो, तस्मा. तं वेदनाद्वयं न वुत्तं विसुं न उद्धटन्ति अत्थो. तस्माति यस्मा ‘‘यत्थ कामरागादयो नानुसेन्ति, तत्थ दिट्ठिविचिकिच्छा नानुसेन्ती’’ति अयमत्थो ‘‘आमन्ता’’ति इमिना पटिवचनविस्सज्जनेन अविभागतो वुत्तोति ‘‘यत्थ कामरागादयो अनुसेन्ति, तत्थ दिट्ठिविचिकिच्छा अनुसेन्ती’’ति अयम्पि अत्थो अविभागतोव लब्भति, तस्मा. अविभागतो च दुक्खं पटिघस्स अनुसयनट्ठानन्ति दीपितं होति. तेनाह ‘‘अविसेसेन…पे… वेदितब्ब’’न्ति. तत्थ अविसेसेनाति गेहस्सितं नेक्खम्मस्सितन्ति विसेसं अकत्वा. समुदायवसेन गहेत्वाति यथावुत्तअवयवानं समूहवसेन दुक्खन्त्वेव गहेत्वा. ‘‘अविसेसेन समुदायवसेन गहेत्वा’’ति इममत्थं तथा-सद्देन अनुकड्ढति ‘‘द्वीसु वेदनासू’’ति एत्थापि गेहस्सितादिविभागस्स अनिच्छितत्ता.

यदि एवं ‘‘पटिघं तेन पजहति, न तत्थ पटिघानुसयो अनुसेती’’ति इदं सुत्तपदं कथन्ति चोदनं सन्धाय ‘‘अपिचा’’तिआदि वुत्तं. तत्थाति तस्मिं दोमनस्से, तंसम्पयुत्ते वा पटिघे. नेक्खम्मस्सितं दोमनस्सन्तिआदिना नेय्यत्थमिदं सुत्तं, न नीतत्थन्ति दस्सेति. यथा पन सुत्तं उदाहटं, तथा इध कस्मा न वुत्तन्ति आह ‘‘पटिघुप्पत्तिरहट्ठानताया’’तिआदि. एवम्पि सुत्ताभिधम्मपाठानं कथमविरोधोति आह निप्परियायदेसना हेसा, सा पन परियायदेसनाति. एवञ्च कत्वाति परियायदेसनत्ता एव. रागानुसयोति कामरागानुसयो अधिप्पेतो. यतो ‘‘अनागामिमग्गेन समुग्घातनं सन्धाया’’ति वुत्तं, तस्मा तस्स न महग्गतधम्मा अनुसयनट्ठानन्ति तं पठमज्झानञ्च अनामसित्वा ‘‘न हि लोकिया…पे… नानुसेतीति सक्का वत्तु’’न्ति वुत्तं. अवत्थुभावतोति सभावेनेव अनुप्पत्तिट्ठानत्ता. इधाति इमस्मिं अनुसययमके. वुत्तनयेनाति ‘‘नेक्खम्मस्सितं दोमनस्सं उप्पादेत्वा’’तिआदिना वुत्तेन नयेन. तंपटिपक्खभावतोति तेसं पटिघादीनं पटिपक्खस्स मग्गस्स सब्भावतो. न केवलं मग्गसब्भावतो, अथ खो बलवविपस्सनासब्भावतोपीति दस्सेन्तो आह ‘‘तंसमुग्घा…पे… भावतो चा’’ति.

इदानि यदेतं तत्थ तत्थ ‘‘अनुसयनट्ठान’’न्ति वुत्तं, तं गहेतब्बधम्मवसेन वा सिया गहणविसेसेन वाति द्वे विकप्पा, तेसु पठमं सन्धायाह ‘‘आरम्मणे अनुसयनट्ठाने सती’’ति. रूपादिआरम्मणे अनुसयानं अनुसयनट्ठानन्ति गय्हमाने यमत्थं सन्धाय ‘‘न सक्का वत्तु’’न्ति वुत्तं, तं दस्सेतुं ‘‘दुक्खाय ही’’तिआदिमाह. यदि सियाति यदि कामरागानुसयो सिया. एतस्सपीति दिट्ठानुसयसम्पयुत्तलोभस्सपि ‘‘सब्बसक्कायपरियापन्नेसु धम्मेसू’’ति कामरागस्स ठानं वत्तब्बं सिया, न च वुत्तं. अथ पनातिआदि दुतियविकप्पं सन्धाय वुत्तं. अज्झासयवसेन तंनिन्नतायाति असतिपि आरम्मणकरणे यत्थ कामरागादयो अज्झासयतो निन्ना, तं तेसं अनुसयनट्ठानं. तेन वुत्तं ‘‘अनुगतो हुत्वा सेती’’ति. अथ पन वुत्तन्ति सम्बन्धो. यथातिआदि यथावुत्तस्स अत्थस्स उदाहरणवसेन निरूपनं. दुक्खे पटिहञ्ञनवसेनेव पवत्तति, नारम्मणकरणवसेनाति अधिप्पायो. दुक्खमेव तस्स अनुसयनट्ठानं वुत्तन्ति अज्झासयस्स तत्थ निन्नत्ता दुक्खमेव तस्स पटिघस्स अनुसयनट्ठानं वुत्तं, नालम्बितं रूपादि सुखवेदना चाति अधिप्पायो. एवन्ति यथा अञ्ञारम्मणस्सपि पटिघस्स अज्झासयतो दुक्खनिन्नताय दुक्खमेव अनुसयनट्ठानं वुत्तं, एवं. दुक्खादीसु…पे… वुत्तन्ति ‘‘दुक्खेन सुखं अधिगन्तब्बं. नत्थि दिन्न’’न्ति च आदिना कायकिलमनदुक्खे दानानुभावादिके च मिच्छाभिनिवेसनवसेन उप्पज्जमानेन दिट्ठानुसयेन सम्पयुत्तो अञ्ञारम्मणोपि लोभो ‘‘एवं सुखं भविस्सती’’ति अज्झासयतो सुखाभिसङ्गवसेनेव पवत्ततीति सुखुपेक्खाभेदं सातसन्तसुखद्वयमेव अस्स लोभस्स अनुसयनट्ठानं वुत्तं पाळियं, न यथावुत्तं दुक्खादि, तस्मा भवराग…पे… न विरुज्झति. एकस्मिंयेव चातिआदि दुतियविकप्पंयेव उपब्रूहनत्थं वुत्तं. तत्थ रागस्स सुखज्झासयता तंसमङ्गिनो पुग्गलस्स वसेन वेदितब्बा, तन्निन्नभावेन वा चक्खुस्स विसमज्झासयता विय. एस नयो सेसेसुपि. तेसं रागपटिघानं नानानुसयट्ठानता होति एकस्मिम्पि आरम्मणेति अत्थो.

एवञ्च कत्वाति असतिपि गहेतब्बभेदे गहणविसेसेन अनुसयनट्ठानस्स भिन्नत्ता एव. ‘‘यत्थ…पे… नो’’ति वुत्तं, अञ्ञथा विरुज्झेय्य. गहेतब्बभेदेन हि रागपटिघानं अनुसयनट्ठानभेदे गय्हमाने विपाकमत्ते ठातब्बं सिया, न च तं युत्तं, नपि सब्बेसं पुरिसद्वारानं इट्ठानिट्ठं नियतन्ति. यदिपि यथावुत्तलोभस्स वुत्तनयेन कामरागानुसयता सम्भवति, यथा पन सुखुपेक्खासु इट्ठारम्मणे च उप्पज्जन्तेन दोमनस्सेन सह पवत्तो दोसो दुब्बलभावेन पटिघानुसयो न होति, एवं यथावुत्तलोभोपि कामरागानुसयो न होतीति इममत्थं दस्सेतुं ‘‘अट्ठकथायं पना’’तिआदि वुत्तं. न पटिघानुसयोति एत्थ न-कारो पटिसेधनत्थो, न अञ्ञत्थो, इतरत्थ पन सम्भवो एव नत्थीति दस्सेन्तो ‘‘यं पनेत’’न्तिआदिमाह. तत्थ ‘‘न हि दोमनस्सस्स पटिघानुसयभावासङ्का अत्थी’’ति इमिना न-कारस्स अञ्ञत्थताभावदस्सनमुखेन अभावत्थतं समत्थेति.

देसना संकिण्णा विय भवेय्याति एत्थ देसनासङ्करं दस्सेतुं ‘‘भवरागस्सपि…पे… भवेय्या’’ति वुत्तं. तस्सत्थो – यथा कामरागस्स कामधातुया द्वीसु वेदनासु आरम्मणकरणवसेन उप्पत्ति वुत्ता ‘‘कामरागो कामधातुया द्वीसु वेदनासु अनुसेती’’ति, एवं यदि ‘‘भवरागो कामधातुया द्वीसु वेदनासु अनुसेती’’ति वुच्चेय्य, भवरागस्सपि…पे… भवेय्य. ततो च कामरागेन सद्धिं भवरागस्स देसना संकिण्णा भवेय्य, कामरागतो च भवरागस्स विसेसो दस्सेतब्बो. सो च सहजातानुसयवसेन न सक्का दस्सेतुन्ति आरम्मणकरणवसेन दस्सेतब्बो. तेन वुत्तं ‘‘तस्मा आरम्मण…पे… अधिप्पायो’’ति. तत्थ आरम्मणविसेसेनाति रूपारूपधातुसङ्खातआरम्मणविसेसेन. विसेसदस्सनत्थन्ति कामरागतो भवरागस्स विसेसदस्सनत्थं. एवं देसना कताति ‘‘रूपधातुया अरूपधातुया एत्थ भवरागानुसयो अनुसेती’’ति एवं विसये भुम्मं कत्वा देसना कता. तेनाह ‘‘सहजातवेदनाविसेसाभावतो’’ति.

उप्पत्तिट्ठानवारवण्णना निट्ठिता.