२. पवत्तिवारवण्णना
१९. सङ्खारानं पुग्गलानञ्च ओकासत्ताति सम्पयुत्तानं निस्सयपच्चयताय, सङ्खारानं समापज्जितब्बताय पुग्गलानं झानस्स ओकासता वेदितब्बा, भूमि पन यदग्गेन पुग्गलानं ओकासो, तदग्गेन सङ्खारानम्पि ओकासो. ‘‘दुतिये झाने ततिये झाने’’तिआदिना झानं, ‘‘कामावचरे रूपावचरे’’तिआदिना भूमि च विसुं ओकासभावेन गहिता. इतीति हेतुअत्थो, यस्मा झानम्पि ओकासभावेन गहितं, तस्माति अत्थो. पुग्गलवारे च ओकासवसेन पुग्गलग्गहणेति पुग्गलवारे च यदा पुग्गलोकाससङ्खारादीनं ओकासभावेन गय्हति, तदा तेसं द्विन्नं ओकासानं वसेन गय्हनं होतीति यत्थ सो पुग्गलो, यञ्च तस्मिं पुग्गले झानं उपलब्भति, तेसं द्विन्नं भूमिझानसङ्खातानं ओकासानं वसेन यथारहं कायसङ्खारादीनं गहणं कथनं होतीति. तस्माति यस्मा एतदेव, तस्मा. दुतियततियज्झानोकासवसेनाति दुतियततियज्झानसङ्खातओकासवसेन गहिता. कथं? ‘‘विना वितक्कविचारेहि अस्सासपस्सासानं उप्पादक्खणे’’ति एवं गहिता पुग्गला विसेसेत्वा दस्सिता. केन? तेनेव वितक्कविचाररहितअस्सासपस्सासुप्पादक्खणेनाति योजेतब्बं.
पठमकोट्ठासे झानोकासवसेन पुग्गलदस्सनं कतन्ति वुत्तं ‘‘पुन…पे… दस्सेती’’ति. भूमिओकासवसेन पुग्गलं दस्सेतीति सम्बन्धो. द्विप्पकारानन्ति झानभूमिओकासभेदेन दुविधानं. तेसन्ति पुग्गलानं. ‘‘पठमं झानं समापन्नानं कामावचरान’’न्ति च इदं निवत्तेतब्बगहेतब्बसाधारणवचनं, तस्स च अवच्छेदकं ‘‘अस्सासपस्सासानं उप्पादक्खणे’’ति इदन्ति वुत्तं ‘‘विसेस…पे… खणे’’ति. तेन विसेसनेन. कामावचरानम्पीति पि-सद्दो सम्पिण्डनत्थो. तेन न केवलं रूपारूपावचरेसु पठमज्झानं समापन्नानं, अथ खो कामावचरानम्पीति वुत्तमेवत्थं सम्पिण्डेति. कीदिसानं कामावचरानन्ति आह ‘‘गब्भगतादीन’’न्ति. आदि-सद्देन उदकनिमुग्गविसञ्ञिभूता सङ्गहिता, न मतचतुत्थज्झानसमापन्ननिरोधसमापन्ना. ते हि अकामावचरताय विय रूपारूपभवसमङ्गिनो वितक्कविचारुप्पत्तियाव निवत्तिता. एकन्तिकत्ताति अस्सासपस्सासाभावस्स एकन्तिकत्ता. निदस्सिताति रूपारूपावचरा निदस्सनभावेन वुत्ता, न तब्बिरहितानं अञ्ञेसं अभावतोति अधिप्पायो. पठमज्झानोकासा अस्सासपस्सासविरहविसिट्ठाति योजना. पठमञ्चेत्थ पठमज्झानसमङ्गीनं रूपारूपावचरानं गहणं, दुतियं यथावुत्तगब्भगतादीनं. इमिना नयेनाति य्वायं ‘‘सङ्खारानं पुग्गलानञ्चा’’तिआदिना झानोकासभूमिओकासवसेन पुग्गलविभागनयो वुत्तो, इमिना नयेन उपायेन. सब्बत्थ सब्बपुच्छासु.
२१. एतस्मिं पन अत्थे सतीति य्वायं उप्पत्तिभूमिया झानं विसेसेत्वा अत्थो वुत्तो, एतस्मिं अत्थे गय्हमाने अञ्ञत्थपि उप्पत्तिभूमिया झानं विसेसितब्बं भवेय्य, तथा च अनिट्ठं आपज्जतीति दस्सेन्तो ‘‘चतुत्थज्झाने’’तिआदिमाह. किं पन तं अनिट्ठन्ति आह ‘‘भूमीनं ओकासभावस्सेव अग्गहिततापत्तितो’’ति. यत्थ यत्थ हि झानं गय्हति, तत्थ तत्थ तं उप्पत्तिभूमिया विसेसितब्बं होति. तथा सति झानोकासोव गहितो सिया, न भूमिओकासो गुणभूतत्ता. किञ्च ‘‘चतुत्थज्झाने रूपावचरे अरूपावचरे’’ति एत्थ रूपारूपभूमिया चतुत्थज्झाने विसेसियमाने तदेकदेसोव ओकासवसेन गहितो सिया, न सब्बं चतुत्थज्झानं. तेनाह ‘‘सब्बचतुत्थज्झानस्स ओकासवसेन अग्गहिततापत्तितो चा’’ति. झानभूमोकासानन्ति झानोकासभूमिओकासानं.
ननु च झानभूमिओकासे असङ्करतो योजियमाने न सब्बस्मिं पठमज्झानोकासे कायसङ्खारो वचीसङ्खारो च अत्थि, तथा सब्बस्मिं कामावचरोकासेति चोदनुप्पत्तिं सन्धाय तस्स परिहारं वत्तुं ‘‘यदिपी’’तिआदिमाह. तत्थाति पठमज्झानोकासे कामावचरोकासे च. तंद्वयुप्पत्तीति तस्स कायवचीसङ्खारद्वयस्स उप्पत्ति. ओकासद्वयस्स असङ्करतो गहणे अयञ्च गुणो लद्धो होतीति आह ‘‘विसुं…पे… न वत्तब्बं होती’’ति. तत्थ अङ्गमत्तवसेनाति वितक्कादिझानङ्गमत्तवसेन. तत्थ वत्तब्बं अट्ठकथायं वुत्तमेव. वितक्करहितोपि विचारो वचीसङ्खारोयेवाति आह ‘‘अवितक्क…पे… गच्छती’’ति. मुद्धभूतं दुतियज्झानन्ति चतुक्कनये दुतियज्झानमाह. तञ्हि सकलक्खोभकरधम्मविगमेन वितक्केकङ्गप्पहायिकतो सातिसयत्ता ‘‘मुद्धभूत’’न्ति वत्तब्बतं लभति. असञ्ञसत्ता वियाति इदं विसदिसुदाहरणं दट्ठब्बं.
३७. आवज्जनतो पुब्बे पवत्तं सब्बं चित्तं पटिसन्धिचित्तेन समानगतिकत्ता एकं कत्वा वुत्तं ‘‘पठमतो’’ति. तेनाह ‘‘अवितक्कअविचारतो’’तिआदि. चित्तसङ्खारस्स आदिदस्सनत्थन्ति सुद्धावासे चित्तसङ्खारस्स आदिदस्सनत्थं. तथा ‘‘वचीसङ्खारस्स आदिदस्सनत्थ’’न्ति एत्थापि.
पवत्तिवारवण्णना निट्ठिता.
सङ्खारयमकवण्णना निट्ठिता.