१. पण्णत्तिवारवण्णना

१. सतिपि कुसलमूलादीनम्पि विभत्तभावे खन्धादिविभागो ततो सातिसयोति दस्सेन्तो ‘‘खन्धादयो विय पुब्बे अविभत्ता’’ति आह. पकारत्थो वा एत्थ आदि-सद्दो ‘‘भूवादयो’’तिआदीसु वियाति कुसलमूलादीनम्पि सङ्गहो दट्ठब्बो. अविञ्ञातत्ता निसामेन्तेहि. हेतुअत्थो वा एत्थ लुत्तनिद्दिट्ठो अविञ्ञापितत्ताति अत्थो. यदिपि कायसङ्खारानं विकप्पद्वयेपि हेतुफलभावोयेव इच्छितो, सामिवचनरूपाविभूतो पन अत्थेव अत्थभेदोति दस्सेन्तो ‘‘कायस्स…पे… कत्तुअत्थे’’ति आह. सो पनाति कत्तुअत्थो.

२-७. सुद्धिकएकेकपदवसेनाति ‘‘कायो सङ्खारो’’तिआदीसु द्वीसु द्वीसु पदेसु अञ्ञमञ्ञं असम्मिस्सएकेकपदवसेन. अत्थाभावतोति यथाधिप्पेतत्थाभावतो. अञ्ञथा करजकायादिको अत्थो अत्थेव. तेनेवाह ‘‘पदसोधन…पे… अवचनीयत्ता’’ति. इदानि तमेव अत्थाभावं ब्यतिरेकवसेन दस्सेन्तो ‘‘यथा’’तिआदिमाह. कस्मा पन उभयत्थ समाने समासपदभावे तत्थ अत्थो लब्भति, इध न लब्भतीति? भिन्नलक्खणत्ता. तत्थ हि रूपक्खन्धादिपदानि समानाधिकरणानीति पदद्वयाधिट्ठानो एको अत्थो लब्भति, इध पन कायसङ्खारादिपदानि भिन्नाधिकरणानीति तथारूपो अत्थो न लब्भतीति. तेनाह ‘‘यथाधिप्पेतत्थाभावतो’’ति.

विसुं अदीपेत्वाति ‘‘कायसङ्खारो’’तिआदिना सह वुच्चमानोपि कायसङ्खारसद्दो विसुं विसुं अत्तनो अत्थं अजोतेत्वा एकं अत्थं यदि दीपेतीति परिकप्पवसेन वदति. तेन कायसङ्खारसद्दानं समानाधिकरणतं उल्लिङ्गेति. ‘‘कायसङ्खारसद्दो कायसङ्खारत्थे वत्तमानो’’ति कस्मा वुत्तं, ‘‘सङ्खारसद्दो सङ्खारत्थेव वत्तमानो’’ति पन वत्तब्बं सिया. एवञ्हि सति खन्धत्थे वत्तमानो खन्धसद्दो विय रूपसद्देन कायसद्देन विसेसितब्बोति इदं वचनं युज्जेय्य, कायसङ्खारसद्दानं पन समानाधिकरणत्ते न केवलं सङ्खारसद्दोयेव सङ्खारत्थे वत्तति, अथ खो कायसद्दोपीति इममत्थं दस्सेतुं ‘‘कायसङ्खारसद्दो कायसङ्खारत्थे वत्तमानो’’ति वुत्तं सिया, कायसद्देन समानाधिकरणेनाति अधिप्पायो. ब्यधिकरणेन पन सङ्खारस्स विसेसितब्बता अत्थेवाति.

इमस्स वारस्साति सुद्धसङ्खारवारस्स. पदसोधनेन दस्सितानन्ति एत्तकेव वुच्चमाने तत्थ दस्सितभावसामञ्ञेन सुद्धकायादीनम्पि गहणं आपज्जेय्याति तंनिवारणत्थं ‘‘यथाधिप्पेतानमेवा’’ति आह. कायादिपदेहि अग्गहितत्ताति सुद्धकायादिपदेहि अग्गहितत्ता. इध पनाति अट्ठकथायं. सुद्धसङ्खारवारं सन्धाय वुत्तम्पि सुद्धसङ्खारवारमेवेत्थ अननुजानन्तो सकलसङ्खारयमकविसयन्ति आह ‘‘इध पन सङ्खारयमके’’ति. अधिप्पेतत्थपरिच्चागोति अस्सासपस्सासादिकस्स अधिप्पेतत्थस्स अग्गहणं चेतनाकायअभिसङ्खरणसङ्खारादि अनधिप्पेतत्थपरिग्गहो. यदि ‘‘कायो सङ्खारो’’तिआदिना सुद्धसङ्खारतंमूलचक्कवारा अत्थाभावतो इध न गहेतब्बा, अथ कस्मा पवत्तिवारमेव अनारभित्वा अञ्ञथा देसना आरद्धाति आह ‘‘पदसोधनवारतंमूलचक्कवारेही’’तिआदि. संसयो होति सङ्खारसद्दवचनीयतासामञ्ञतो कायसङ्खारादिपदानं ब्यधिकरणभावतो च. तेनेवाह ‘‘असमानाधिकरणेहि…पे… दस्सिताया’’ति.

पण्णत्तिवारवण्णना निट्ठिता.