२. पवत्तिवारवण्णना

५०-२०५. मिस्सककालभेदेसु यमकेसु पदानं भिन्नकालत्ता सिया अत्थविसेसोति आह ‘‘अमिस्सककालभेदेसु वारेसु अत्थविसेसाभावतो’’ति. इदानि तमेवत्थं ‘‘पुरिमस्स ही’’तिआदिना विवरति. तेनाति अत्थविसेसाभावेन. एत्थाति एतस्मिं पवत्तिवारपाठे, एतिस्सं वा पवत्तिवारवण्णनायं. छ एव वुत्ता, न नवाति अधिप्पायो. तेनाह ‘‘अतीतेना’’तिआदि. एते पन तयोति अत्तना विसुं अनन्तरं दस्सिते सन्धायाह. यथादस्सिताति अट्ठकथायं निद्धारेत्वा दस्सितब्बाकारा पच्चुप्पन्नेनातीतादयो ये पाळियं उजुकमेव आगता. ‘‘न विसुं विज्जन्ती’’ति वुत्तमेवत्थं ‘‘तत्थ तत्थ ही’’तिआदिना पाकटतरं करोति. तत्थ पटिलोमपुच्छाहीति ‘‘यस्स वा पन वेदनाक्खन्धो उप्पज्जित्थ, तस्स रूपक्खन्धो उप्पज्जती’’ति एवमादिकाहि पठमपदे वुत्तस्स पटिलोमवसेन पवत्ताहि. तेनेवाति नयतो योजेतुं सक्कुणेय्यत्ता एव. मिस्सककालभेदेसु चाति न केवलं अमिस्सककालभेदेसुयेव, अथ खो मिस्सककालभेदेसु चाति अत्थो. न योजनासुकरताय एव पुरिमे अयोजना, अथ खो सुखग्गहणत्थम्पीति दस्सेन्तो आह ‘‘अमिस्सक…पे… वुत्तानी’’ति.

येन कारणेनाति येन एकपदद्वयसङ्गहितानं खन्धानं उप्पादस्स निरोधस्स लाभसङ्खातेन कारणेन. यथाक्कमं पुरेपञ्हो पच्छापञ्होति च नामं वुत्तं. च-सद्देन पुरेपच्छापञ्होति च नामं वुत्तन्ति निद्धारेत्वा योजेतब्बं. तत्थ पन ‘‘एकपदद्वयसङ्गहितान’’न्ति इदं एकज्झं कत्वा गहेतब्बं. तमेवत्थम्पि विवरति ‘‘यस्स ही’’तिआदिना. तत्थ यस्साति यस्स पञ्हस्स. ‘‘पञ्हो’’ति चेत्थ पुच्छनवसेन पवत्तं वचनं वेदितब्बं. तेनेवाह ‘‘परिपूरेत्वा विस्सज्जेतब्बत्थसङ्गण्हनतो’’ति. तं सरूपदस्सनेन विस्सज्जनं तंविस्सज्जनं, तं वा यथावुत्तं विस्सज्जनं एतस्साति तंविस्सज्जनो, तस्स तंविस्सज्जनस्स. पुरिमकोट्ठासेनाति पुरिमेन उद्देसपदेन. तेन हि विस्सज्जनपदस्स समानत्थता इध सदिसत्थता. एकेन पदेनाति एकेन पधानाप्पधानेन यमकपदेन, न पठमपदेनेवाति अत्थो. उप्पादनिरोधलाभसामञ्ञमत्तेनाति उप्पादस्स वा निरोधस्स वा लब्भमानताय समानतामत्तेन. सन्निट्ठानपद…पे… युत्तन्ति इदं अट्ठकथायं ‘‘यत्थ रूपक्खन्धो नुप्पज्जती’’तिआदिना पुरेपञ्हस्स दस्सितत्ता वुत्तं. यदिपि तत्थ ‘‘उप्पज्जती’’ति विस्सज्जितत्ता वेदनाक्खन्धस्स उप्पादो लब्भतीति वुत्तं, यो पन सन्निट्ठानपदसङ्गहितो रूपक्खन्धस्स अनुप्पादो पाळियं अनुञ्ञातरूपेन ठितो, तस्स वसेन पुरेपञ्हो युत्तोति अधिप्पायो. एवञ्हि पुरिमकोट्ठासेन सदिसत्थता होति.

‘‘यस्स रूपक्खन्धो नुप्पज्जित्थ, तस्स वेदनाक्खन्धो नुप्पज्जित्था’’ति एत्थ रूपक्खन्धस्स अनुप्पन्नपुब्बतापटिक्खेपमुखेन इतरस्स पटिक्खिपीयतीति रूपक्खन्धस्सेव यथावुत्तपटिक्खेपो पधानभावेन वुत्तो. एसेव नयो अञ्ञेसुपि एदिसेसु ठानेसूति आह ‘‘सन्निट्ठानत्थस्सेव पटिक्खिपनं पटिक्खेपो’’ति. ‘‘यस्स रूपक्खन्धो उप्पज्जति, तस्स वेदनाक्खन्धो निरुज्झती’’ति एत्थ पन रूपक्खन्धस्स उप्पादलक्खणं कत्वा वेदनाक्खन्धस्स निरोधो पुच्छीयतीति सो एव ‘‘नो’’ति पटिसेधीयति. एस नयो अञ्ञेसुपि एदिसेसु ठानेसूति वुत्तं ‘‘संसयत्थनिवारणं पटिसेधो’’ति. ‘‘न-कारविरहित’’न्ति एतेन पटिसेधस्स पटिसेधितमाह. यदि एवं पाळिगतिपटिसेधविस्सज्जनानं को विसेसोति आह ‘‘तत्थ उप्पत्ती’’तिआदि.

तदेकदेसपक्खेपवसेनाति तेसं चतुन्नं पञ्हानं पञ्चन्नञ्च विस्सज्जनानं एकदेसस्स पक्खिपनवसेन. तेनाह अट्ठकथायं ‘‘पठमे ठाने परिपुण्णपञ्हस्स पुरिमकोट्ठासे सरूपदस्सनेना’’तिआदि. यो पनेत्थ पञ्हेसु विस्सज्जनेसु च सत्तवीसतिया ठानेसु पक्खेपं लभति, तं दस्सेतुं ‘‘परिपुण्णपञ्हो एवा’’तिआदि वुत्तं. पाळिववत्थानदस्सनादितोति एत्थ आदि-सद्देन पुच्छाविभङ्गो विस्सज्जनाठानानि एकस्मिं पञ्हे योजनानयोति इमेसं सङ्गहो दट्ठब्बो.

सुद्धावासानन्तिआदि पाळिया पदं उद्धरित्वा अत्थदस्सनत्थं आरद्धं. ‘‘यस्स यत्थ रूपक्खन्धो नुप्पज्जित्थ, तस्स तत्थ वेदनाक्खन्धो नुप्पज्जित्था’’ति इमस्स विस्सज्जनं होति ‘‘सुद्धावासानं तेसं तत्था’’ति. तत्थ एकभूमियं दुतिया उपपत्ति नत्थीति एकिस्सा भूमिया एकस्स अरियपुग्गलस्स दुतियवारं पटिसन्धिग्गहणं नत्थीति अत्थो. ततियवारादीसु वत्तब्बमेव नत्थि. स्वायमत्थो यथा ञापितो होति, तं दस्सेतुं ‘‘पटिसन्धितो पभुति हि…पे… पवत्ता’’ति वुत्तं. तेन अद्धापच्चुप्पन्नवसेनायं देसना पवत्ताति दस्सेति. आदाननिक्खेपपरिच्छिन्नं कम्मजसन्तानं एकत्तेन गहेत्वा तस्स वसेन उप्पादनिरोधेसु वुच्चमानेसु अकम्मजेसु कुसलादीसु कथन्ति चोदनायं तेपि इध तंनिस्सिता एव कताति दस्सेन्तो आह ‘‘तस्मिञ्हि…पे… दस्सिता’’ति. तेनेवाति कम्मजसन्तानेनेव. तस्माति एककम्मनिब्बत्तस्स विपाकसन्तानस्स एकत्तेन गहितत्ता. तस्साति कम्मजसन्तानस्स. पञ्चसु सुद्धावासेसु यथा पच्चेकं ‘‘एकिस्सा भूमिया दुतिया उपपत्ति नत्थी’’ति यथावुत्तपाळिया विञ्ञायति, एवं ‘‘सुद्धावासान’’न्ति अविसेसवचनतो सकलेपि सुद्धावासे सा नत्थीति ताय कस्मा न विञ्ञायतीति चोदनं समुट्ठापेत्वा सयमेव परिहरितुं ‘‘कस्मा पना’’तिआदिमाह. तत्थ सुद्धावासेसु हेट्ठाभूमिकस्स असति इन्द्रियपरिपाके उपरिभूमिसमुप्पत्ति न सक्का पटिसेधेतुं उद्धंसोतवचनतो. उद्धमस्स तण्हासोतं वट्टसोतञ्चाति हि उद्धंसोतो. तेनाह ‘‘उद्धंसोतपाळिसब्भावा’’ति. संसन्देतब्बाति यथा न विरुज्झन्ति, एवं नेतब्बा. तथा चेव संवण्णितं.

एतेन सन्निट्ठानेनाति अङ्कितोकासभाविरूपुप्पादसन्निस्सयेन निच्छयेन. विसेसिता तथाभाविरूपभाविनो. असञ्ञसत्तापीति न केवलं पञ्चवोकारा एव, अथ खो असञ्ञसत्तापि. ते एव असञ्ञसत्ते एव गहेत्वा पुरिमकोट्ठासेति अधिप्पायो. तेन ये सन्निट्ठानेन वज्जिताति तेन यथावुत्तसन्निट्ठानेन ये विरहिता, ते तथा न वत्तब्बाति अत्थो. इदानि ‘‘ते ततो’’तिआदिना दस्सेति. ततोति असञ्ञाभवतो. पच्छिमभविकानन्ति एत्थ पच्छिमभवं सरूपतो दस्सेतुं ‘‘किं पञ्चवोकारादी’’तिआदि वुत्तं. अपच्छिमभविकानम्पि अरूपानं अरूपभवे यथा रूपक्खन्धो नुप्पादि, एवं तत्थ पच्छिमभविकानं वेदनाक्खन्धोपीति आह ‘‘एतेन सन्निट्ठानेन सङ्गहितत्ता’’ति. तेनाह ‘‘तेसं…पे… आहा’’ति. तत्थ तेसन्ति पच्छिमभविकानं. तत्थाति अरूपभवे. इतरानुप्पत्तिभावञ्चाति इतरस्स वेदनाक्खन्धस्स अनुप्पज्जनसब्भावम्पि. सप्पटिसन्धिकानम्पि सुद्धावासानं खन्धभेदस्स परिनिब्बानपरियायो ओळारिकदोसप्पहानतो किलेसूपसमसामञ्ञेन वुत्तोति वेदितब्बं.

सब्बेसञ्हि तेसन्ति तंतंभूमियं ठितानं सब्बेसं सुद्धावासानं. यथा पनातिआदिना वुत्तमेवत्थं पाकटतरं करोति. अनन्ता लोकधातुयोति इदं ओकासस्स परिच्छेदाभावंयेव दस्सेतुं वुत्तं. पुग्गलवसेन समानाधारताय समानकालत्तेन असम्भवन्तो ओकासवसेन पन सम्भवन्तो संकिण्णा विय होन्तीति आह ‘‘संकिण्णता होती’’ति.

पवत्तिवारवण्णना निट्ठिता.