३. परिञ्ञावारवण्णना

२०६-२०८. तस्सापीति पुग्गलोकासवारस्सपि. ओकासे पुग्गलस्सेवाति यथागहिते ओकासे यो पुग्गलो, तस्सेव ओकासविसिट्ठपुग्गलस्सेवाति अत्थो. यथा पन पुग्गलवारे लब्भमाने पुग्गलोकासवारोपि लब्भति, एवं ओकासवारोपि लब्भेय्याति चोदनं सन्धायाह ‘‘ओकासवारोपि चा’’ति. तस्माति यस्मा वुच्चमानोपि ओकासो पुग्गलस्स विसेसभावेनेव वुच्चेय्य, न विसुं, तस्मा.

अञ्ञथाति पवत्तिवारे विय आदाननिक्खेपपरिच्छिन्नं कम्मजसन्तानं एकत्तेन गहेत्वा तस्स उप्पादनिरोधवसेन परिञ्ञावचने. ‘‘यो रूपक्खन्धं परिजानाती’’ति सन्निट्ठानपदसङ्गहितत्थाभावदस्सनमुखेन इतरस्सपि अभावं दस्सेतुं ‘‘रुपक्खन्धपरिजाननस्स अभावा’’ति वुत्तं. ‘‘आमन्ता’’ति च कतं, तस्मा पवत्ते चित्तक्खणवसेनेवेत्थ तयो अद्धो लब्भन्तीति अत्थो. ‘‘अग्गमग्गसमङ्गिञ्च अरहन्तञ्चा’’ति द्विन्नं पदानं ‘‘रूपक्खन्धञ्च न परिजानन्ति वेदनाक्खन्धञ्च न परिजानित्था’’ति द्वीहि पदेहि यथाक्कमं सम्बन्धो. ‘‘ठपेत्वा अवसेसा पुग्गला’’ति पन पच्चेकं योजेतब्बं. अग्गमग्ग…पे… नत्थीति इमिना अरहत्तमग्गञाणस्सेव परिञ्ञामत्थकप्पत्तिया परिञ्ञाकिच्चं सातिसयं, तदभावा न इतरेसन्ति दस्सेति. यतो तस्सेव वजिरूपमता वुत्ता, सेसानञ्च विज्जूपमता. तेनाति तेन यथावुत्तेन वचनेन. तदवसेससब्बपुग्गलेति ततो अग्गमग्गसमङ्गितो अवसेससब्बपुग्गले. इमं पन यथावुत्तदोसं परिहरन्ता ‘‘पुथुज्जनादयो सन्धाया’’ति वदन्ति.

परिञ्ञावारवण्णना निट्ठिता.

खन्धयमकवण्णना निट्ठिता.