१०. जीवितिन्द्रियकथावण्णना

५४०. अन्तं गहेत्वा वदतीति ‘‘अत्थि अरूपधम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना, अत्थि अरूपजीवितिन्द्रिय’’न्ति तस्मिं पञ्हे ‘‘अत्थि अरूपजीवितिन्द्रिय’’न्ति इमं अन्तं परियोसानं गहेत्वा वदति. वत्तुं युत्तो समुदायस्स इच्छन्तो तदवयवस्स इच्छतीति. न हि अवयवेहि विना समुदायो नाम अत्थि.

५४१. तमेवाति अरूपं चित्तविप्पयुत्तमेव.

५४२. तदापीति समापज्जनवुट्ठानकालेपि.

५४४-५४५. सो युत्तो द्विन्नं रूपारूपजीवितिन्द्रियानं सकसमये इच्छितत्ता.

जीवितिन्द्रियकथावण्णना निट्ठिता.