५. पटिसम्भिदाकथावण्णना
४३२-४३३. सब्बं ञाणन्ति इदं ‘‘अरियान’’न्ति इमिना न विसेसितन्ति अधिप्पायेनाह ‘‘अनरियानम्पि हि ञाणं ञाणमेवा’’ति. अथ वा पाळियं अविसेसेन सब्बं ञाणन्ति वुत्तं गहेत्वा एवमाह. अरियस्स चे ञाणन्ति, सो पन पटिक्खेपेय्याति आह ‘‘अनरियस्स एतं ञाणं सन्धाया’’ति.
पटिसम्भिदाकथावण्णना निट्ठिता.