१०. संवरकथावण्णना

३७९. आटानाटियसुत्ते ‘‘सन्ति, भिक्खवे, यक्खा येभुय्येन पाणातिपाता अप्पटिविरता’’ति (दी. नि. ३.२७६, २८६) आगतत्ता चातुमहाराजिकानं संवरासंवरसब्भावो अविवादसिद्धो. यत्थ पन विवादो, तमेव दस्सेन्तेन तावतिंसादयो गहिताति इममत्थं दस्सेतुं ‘‘चातुमहाराजिकान’’न्ति वुत्तं. एवं सतीति यदि तावतिंसेसु संवरासंवरो नत्थि, एवं सन्ते. सुरापानन्ति एत्थापि ‘‘सुय्यती’’ति पदं आनेत्वा सम्बन्धितब्बं. कथं सुय्यतीति? वुत्तञ्हेतं कुम्भजातके –

‘‘यं वे पिवित्वा पुब्बदेवा पमत्ता,

तिदिवा चुता सस्सतिया समाया;

तं तादिसं मज्जमिमं निरत्थं,

जानं महाराज कथं पिवेय्या’’ति. (जा. १.१६.५८);

तत्थ पुब्बदेवा नाम असुरा. ते हि तावतिंसानं उप्पत्तितो पुब्बदेवाति पञ्ञायिंसु. पमत्ताति सुरापानेन पमादं आपन्ना. तिदिवाति मनुस्सचातुमहाराजिकलोके उपादाय ततियलोकभूता देवट्ठाना, नाममेव वा एतं तस्स देवट्ठानस्स. सस्सतियाति केवलं दीघायुकतं सन्धाय वदति. समाया सह अत्तनो असुरमायाय, असुरमन्तेहि सद्धिं चुताति अत्थो. अट्ठकथायञ्च वुत्तं ‘‘आगन्तुकदेवपुत्ता आगताति नेवासिका गन्धपानं सज्जयिंसु. सक्को सकपरिसाय सञ्ञमदासी’’ति. तेनाह ‘‘तेसं सुरापानं असंवरो न होतीति वत्तब्बं होती’’ति. एत्थ च तावतिंसानं पातुभावतो पट्ठाय सुरापानम्पि तत्थ नाहोसि, पगेव पाणातिपातादयोति विरमितब्बाभावतो एव तावतिंसतो पट्ठाय उपरि देवलोकेसु समादानसम्पत्तविरतिवसेन पुरेतब्बा संवरा न सन्ति, लोकुत्तरा पन सन्तियेव. तथा तेहि पहातब्बा असंवरा. न हि अप्पहीनानुसयानं मग्गवज्झा किलेसा न सन्तीति.

संवरकथावण्णना निट्ठिता.

ततियवग्गवण्णना निट्ठिता.