१. अतीतादिएकच्चकथावण्णना

२९९. ये कतूपचिता कुसलाकुसला धम्मा विपाकदानाय अकतोकासा, कतोकासा च ये ‘‘ओकासकतुप्पन्ना’’ति वुच्चन्ति. ये च विप्पकतविपाका, ते सब्बेपि ‘‘अविपक्कविपाका’’ति वेदितब्बा. तेसं विपाकदानसामत्थियं अनपगतन्ति अधिप्पायेन परवादी अत्थितं इच्छति. ये पन परवादी सब्बेन सब्बं विपक्कविपाका कुसलाकुसला धम्मा, तेसं अपगतन्ति नत्थितं इच्छति. तेनाह ‘‘अत्थीति एकच्चं अत्थि एकच्चं नत्थी’’तिआदि. एवं इच्छन्तस्स पन परवादिनो यथा अविपाकेसुपि एकच्चं नत्थीति आपज्जति, एवं विपक्कविपाकेसु अविपक्कविपाकेसु च आपज्जतेवाति दस्सेतुं ‘‘अविपक्कविपाका धम्मा एकच्चे’’तिआदिना पाळि पवत्ता. तेन वुत्तं ‘‘तिण्णं रासीनं वसेना’’तिआदि. वोहारवसेनाति फलस्स अनुपरमवोहारवसेन, हेतुकिच्चं पन अनुपरतं अनुपच्छिन्नं अत्थीति लद्धियं ठितत्ता चोदेतब्बोव. अविच्छेदवसेन पवत्तमानञ्हि फलस्स पबन्धवोहारं परवादी वोहारतो अत्थीति इच्छति, हेतु पनस्स कम्मं परमत्थतो च कम्मूपचयवादिभावतो पत्तिअप्पत्तिसभावतादयो विय चित्तविप्पयुत्तो कम्मूपचयो नाम एको सङ्खारधम्मो अविपन्नो, सोपि तस्सेव वेवचनन्ति परवादी. यं सन्धायाह –

‘‘नप्पचयन्ति कम्मानि, अपि कप्पसहस्सतो;

पत्वा पच्चयसामग्गिं, काले पच्चन्ति पाणिन’’न्ति.

यञ्च सन्धाय परतो परिभोगमयपुञ्ञकथाय ‘‘परिभोगमयं पन चित्तविप्पयुत्तं उप्पज्जतीति लद्धिया पटिजानाती’’ति वक्खति.

एकच्चंअत्थीतिकथावण्णना निट्ठिता.