१. नसुत्ताहरणकथावण्णना
२८०. यदिपि पाळियं ‘‘तयो मग्गे भावेती’’ति वुत्तं, मग्गभावना पन यावदेव किलेससमुच्छिन्दनत्थाति ञत्वा ‘‘किच्चसब्भावन्ति तीहि पहातब्बस्स पहीनत’’न्ति आह. तत्थ तीहीति हेट्ठिमेहि तीहि अरियमग्गेहि पहातब्बस्स अज्झत्तसंयोजनस्स पहीनतं समुच्छिन्दनन्ति अत्थो. तं पन किच्चन्ति अधोभागियसंयोजनेसु मग्गस्स पहानाभिसमयकिच्चं. तेनेव मग्गेनाति अनागामिमग्गेनेव. एतं न समेतीति एवं मग्गुप्पादतो पगेव कामरागब्यापादा पहीयन्तीति लद्धिकित्तनं इमिना मग्गस्स किच्चसब्भावकथनेन न समेति न युज्जति. तस्माति इमिना यथावुत्तमेव विरोधं पच्चामसति. पहीनानन्ति विक्खम्भितानं. यो हि झानलाभी झानेन यथाविक्खम्भिते किलेसे मग्गेन समुच्छिन्दति, सो इधाधिप्पेतो. तेनाह ‘‘दस्सनमग्गे…पे… अधिप्पायो’’ति.
जहतिकथावण्णना निट्ठिता.