९. अपरिनिप्फन्नकथावण्णना

९१७-९१८. अनिच्चादिको भावोति अनिच्चसङ्खारपटिच्चसमुप्पन्नतादिको भावो धम्मो पकति एतस्साति अत्थो. दुक्खञ्ञेव परिनिप्फन्नन्ति ‘‘दुक्खसच्चं सन्धाय पुच्छा कता, न दुक्खतामत्त’’न्ति अयमत्थो विञ्ञायति ‘‘न केवलञ्हि पठमसच्चमेव दुक्ख’’न्ति वचनेन. तथा सति परवादिना चक्खायतनादीनं अञ्ञेसञ्च तंसरिक्खकानं धम्मानं परिनिप्फन्नता नानुजानितब्बा सिया. कस्मा? तेसम्पि हि दुक्खसच्चेन सङ्गहो, न इतरसच्चेहि. यञ्हि समुदयसच्चतो निब्बत्तं, तं निप्परियायतो दुक्खसच्चं, इतरं सङ्खारदुक्खताय दुक्खन्ति इममत्थं दस्सेन्तो ‘‘न केवलञ्ही’’तिआदिमाह. तत्थ न हि अनुपादिन्नानीति इमिना चक्खायतनादीनं समुदयसच्चेन सङ्गहाभावमाह. लोकुत्तरानीति इमिना निरोधमग्गसच्चेहि. यदि एवमेत्थ युत्ति वत्तब्बा, किमेत्थ वत्तब्बं? सभावो हेस परवादिवादस्स, यदिदं पुब्बेनापरमसंसन्दनं. तथा हि सो विञ्ञूहि पटिक्खित्तो. तथा चेव तं अम्हेहि तत्थ तत्थ विभावितं. एतन्ति ‘‘रूपं अपरिनिप्फन्नं, दुक्खञ्ञेव परिनिप्फन्न’’न्ति यदेतं तया वुत्तं, एतं नो वत रे वत्तब्बे. कस्मा? रूपस्स च दुक्खत्ता. रूपञ्हि अनिच्चं दुक्खाधिट्ठानञ्च. तेन वुत्तं ‘‘यदनिच्चं तं दुक्खं. संखित्तेन पञ्चुपादानक्खन्धा दुक्खा’’ति च.

अपरिनिप्फन्नकथावण्णना निट्ठिता.

तेवीसतिमवग्गवण्णना निट्ठिता.

कथावत्थुपकरण-अनुटीका समत्ता.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स