७. धम्मकथावण्णना

८८७-८८८. रूपसभावो रूपट्ठोति आह ‘‘रूपट्ठो नाम कोचि रूपतो अञ्ञो नत्थी’’ति. यं पन यतो अञ्ञं, न तं तंसभावन्ति आह ‘‘रूपट्ठतो अञ्ञं रूपञ्च न होती’’ति, रूपमेव न होतीति अत्थो. एतेन ब्यतिरेकतो तमत्थं साधेति. तस्माति यस्मा रूपतो अञ्ञो रूपट्ठो नत्थि, रूपट्ठतो च अञ्ञं रूपं, तस्मा रूपं रूपमेव रूपसभावमेवाति एव-कारेन निवत्तितं दस्सेति ‘‘न वेदनादिसभाव’’न्ति. अधिप्पायेनाति रूपरूपट्ठानं अनञ्ञत्ताधिप्पायेन. अञ्ञथाति तेसं अञ्ञत्ते रूपट्ठेन नियमेन रूपं नियतन्ति वत्तब्बन्ति योजना. दस्सितोयेव होति अत्थतो आपन्नत्ता. न हि अभिन्ने वत्थुस्मिं परियायन्तरभेदं करोति. अञ्ञत्तन्ति रूपसभावानं रूपरूपट्ठानञ्च. ससामिनिद्देससिद्धाभेदा ‘‘सिलापुत्तकस्स सरीर’’न्ति विय, कप्पनामत्ततो चायं भेदो, न परमत्थतोति आह ‘‘गहेत्वा विय पवत्तो’’ति. वेदनादीहि नानत्तमेवाति वेदनादीहि अञ्ञत्तमेव. सो सभावोति सो रूपसभावो. नानत्तसञ्ञापनत्थन्ति रूपस्स सभावो, न वेदनादीनन्ति एवं भेदस्स ञापनत्थं. तञ्च वचनन्ति ‘‘रूपं रूपट्ठेन न नियत’’न्ति वचनं. वुत्तप्पकारेनाति ‘‘रूपट्ठतो अञ्ञस्स रूपस्स अभावा’’तिआदिना वुत्ताकारेन. यदि सदोसं, अथ कस्मा पटिजानातीति योजना.

वुत्तमेव कारणन्ति ‘‘रूपं रूपमेव, न वेदनादिसभाव’’न्ति एवं वुत्तमेव युत्तिं. परेन चोदितन्ति ‘‘न वत्तब्बं रूपं रूपट्ठेन नियत’’न्तिआदिना परवादिनो चोदनं सन्धायाह. तमेव कारणं दस्सेत्वाति तमेव यथावुत्तं युत्तिं ‘‘एत्थ ही’’तिआदिना दस्सेत्वा. चोदनं निवत्तेतीति ‘‘अथ कस्मा पटिजानाती’’ति वुत्तं चोदनं निवत्तेति. यमत्थं सन्धाय ‘‘इतो अञ्ञथा’’ति वुत्तं, तं दस्सेतुं ‘‘रूपादी’’तिआदि वुत्तं.

धम्मकथावण्णना निट्ठिता.

एकवीसतिमवग्गवण्णना निट्ठिता.