३. निरयपालकथावण्णना

८६६-८६८. नेरयिके निरये पालेन्ति, ततो निग्गन्तुं अप्पदानवसेन रक्खन्तीति निरयपाला. निरयपालताय वा नेरयिकानं नरकदुक्खेन परियोनद्धाय अलं समत्थाति निरयपाला. किं पनेते निरयपाला नेरयिका, उदाहु अनेरयिकाति. किञ्चेत्थ – यदि ताव नेरयिका, निरयसंवत्तनियेन कम्मेन निब्बत्ताति सयम्पि निरयदुक्खं पच्चनुभवेय्युं, तथा सति अञ्ञेसं नेरयिकानं यातनाय असमत्था सियुं, ‘‘इमे नेरयिका, इमे निरयपाला’’ति ववत्थानञ्च न सिया. ये च ये यातेन्ति, तेहि समानरूपबलप्पमाणेहि इतरेसं भयसन्तासा न सियुं. अथ अनेरयिका, तेसं तत्थ कथं सम्भवोति? वुच्चते – अनेरयिका निरयपाला अनिरयगतिसंवत्तनियकम्मनिब्बत्ता. निरयूपपत्तिसंवत्तनियकम्मतो हि अञ्ञेनेव कम्मुना ते निब्बत्तन्ति रक्खसजातिकत्ता. तथा हि वदन्ति –

‘‘कोधना कुरूरकम्मन्ता, पापाभिरुचिनो तथा;

दुक्खितेसु च नन्दन्ति, जायन्ति यमरक्खसा’’ति.

तत्थ यदेके वदन्ति ‘‘यातनादुक्खस्स अप्पटिसंवेदनतो, अञ्ञथा पुन अञ्ञमञ्ञं यातेय्यु’’न्ति च एवमादि, तयिदं आकासरोमट्ठनं निरयपालानं नेरयिकभावस्सेव अभावतो. ये पन वदेय्युं – यदिपि अनेरयिका निरयपाला, अयोमयाय पन आदित्ताय सम्पज्जलिताय सजोतिभूताय निरयभूमिया परिवत्तमाना कथं नाम दुक्खं नानुभवन्तीति? कम्मानुभावतो. यथा हि इद्धिमन्तो चेतोवसिप्पत्ता महामोग्गल्लानादयो नेरयिके अनुकम्पन्ता इद्धिबलेन निरयभूमिं उपगता तत्थ दाहदुक्खेन न बाधीयन्ति, एवं सम्पदमिदं दट्ठब्बं.

तं इद्धिविसयस्स अचिन्तेय्यभावतोति चे? इदम्पि तंसमानं कम्मविपाकस्स अचिन्तेय्यभावतो. तथारूपेन हि कम्मुना ते निब्बत्ता यथा निरयदुक्खेन अबाधिता एव हुत्वा नेरयिके यातेन्ति, न चेत्तकेन बाहिरविसयाभावो विज्जति इट्ठानिट्ठताय पच्चेकं द्वारपुरिसेसु विभत्तसभावत्ता. तथा हि एकच्चस्स द्वारस्स पुरिसस्स इट्ठं एकच्चस्स अनिट्ठं, एकच्चस्स च अनिट्ठं एकच्चस्स इट्ठं होति. एवञ्च कत्वा यदेके वदन्ति ‘‘नत्थि कम्मवसेन तेजसा परूपतापन’’न्तिआदि, तदपाहतं होति. यं पन वदन्ति ‘‘अनेरयिकानं तेसं कथं तत्थ सम्भवो’’ति नेरयिकानं यातकभावतो. नेरयिकसत्तयातनायोग्गञ्हि अत्तभावं निब्बत्तेन्तं कम्मं तादिसनिकन्तिविनामितं निरयट्ठानेयेव निब्बत्तेति. ते च नेरयिकेहि अधिकतरबलारोहपरिणाहा अतिविय भयानकसन्तासकुरूरतरपयोगा च होन्ति. एतेनेव तत्थ काकसुनखादीनम्पि निब्बत्ति संवण्णिताति दट्ठब्बं.

कथमञ्ञगतिकेहि अञ्ञगतिकबाधनन्ति च न वत्तब्बं अञ्ञत्थापि तथा दस्सनतो. यं पनेके वदन्ति ‘‘असत्तसभावा निरयपाला निरयसुनखादयो चा’’ति, तं तेसं मतिमत्तं अञ्ञत्थ तथा अदस्सनतो. न हि काचि अत्थि तादिसी धम्मप्पवत्ति, या असत्तसभावा, सम्पतिसत्तेहि अप्पयोजिता च अत्थकिच्चं साधेन्ती दिट्ठपुब्बा. पेतानं पानीयनिवारकानं दण्डादिहत्थपुरिसानम्पि असत्तभावे विसेसकारणं नत्थि. सुपिनूपघातोपि अत्थकिच्चसमत्थताय अप्पमाणं दस्सनादिमत्तेनपि तदत्थसिद्धितो. तथा हि सुपिने आहारूपभोगादिना न अत्थसिद्धि अत्थि, निम्मानरूपं पनेत्थ लद्धपरिहारं इद्धिविसयस्स अचिन्तेय्यभावतो. इधापि कम्मविपाकस्स अचिन्तेय्यभावतोति चे? तं न, असिद्धत्ता. नेरयिकानं कम्मविपाको निरयपालाति असिद्धमेतं, वुत्तनयेन पन नेसं सत्तभावो एव सिद्धो. सक्का हि वत्तुं सत्तसङ्खाता निरयपालसञ्ञिता धम्मप्पवत्ति साभिसन्धिका परूपघाति अत्थकिच्चसब्भावतो ओजाहारादिरक्खससन्तति वियाति. अभिसन्धिपुब्बकता चेत्थ न सक्का पटिक्खिपितुं तथा तथा अभिसन्धिया यातनतो, ततो एव न सङ्घाटपब्बतादीहि अनेकन्तिकता. ये पन वदन्ति ‘‘भूतविसेसा एव ते वण्णसण्ठानादिविसेसवन्तो भेरवाकारा नरकपालाति समञ्ञं लभन्ती’’ति, तदसिद्धं. उजुकमेव पाळियं ‘‘अत्थि निरये निरयपाला’’ति वादस्स पतिट्ठापितत्ता.

अपिच यथा अरियविनये नरकपालानं भूतमत्तता असिद्धा, तथा पञ्ञत्तिमत्तवादिनोपि तेसं भूतमत्तता असिद्धाव. न हि तस्स भूतानि नाम सन्ति. यदि परमत्थं गहेत्वा वोहरति, अथ कस्मा वेदनादिके एव पटिक्खिपतीति? तिट्ठतेसा अनवट्ठिततक्कानं अप्पहीनसम्मोहविपल्लासानं वादवीमंसा, एवं अत्थेव निरयपालाति निट्ठमेत्थ गन्तब्बं. सति च नेसं सब्भावे, असतिपि बाहिरे विसये नरके विय देसादिनियमो होतीति वादो न सिज्झति एवाति दट्ठब्बं.

निरयपालकथावण्णना निट्ठिता.