११. दक्खिणाविसुद्धिकथावण्णना

८००-८०१. पटिग्गाहकनिरपेक्खाति पटिग्गाहकस्स गुणविसेसनिरपेक्खा, तस्स दक्खिणेय्यभावेन विनाति अत्थो. तेनाह ‘‘पटिग्गाहकेन पच्चयभूतेन विना’’ति. सच्चमेतन्ति लद्धिकित्तनेन वुत्तभावमेव पटिजानाति. पटिग्गाहकस्स विपाकनिब्बत्तनं दानचेतनाय महाफलता. पच्चयभावोयेव हि तस्स, न तस्सा कारणत्तं. तेनाह ‘‘दानचेतनानिब्बत्तनेन यदि भवेय्या’’तिआदि.

दक्खिणाविसुद्धिकथावण्णना निट्ठिता.

सत्तरसमवग्गवण्णना निट्ठिता.