९. ततियसञ्ञावेदयितकथावण्णना

७३२. यदिपि सेसं नाम गहिततो अञ्ञं, तथापि पकरणपरिच्छिन्नमेवेत्थ तं गय्हतीति दस्सेन्तो ‘‘येसं…पे… अधिप्पायो’’ति वत्वा पुन अनवसेसमेव सङ्गण्हन्तो ‘‘असञ्ञसत्तानम्पि चा’’तिआदिमाह. तत्थ सब्बसत्ते सन्धायाति अधिप्पायोति योजना. पाणिसम्फस्सापि कमन्तीतिआदिकं सरीरपकतीति सम्बन्धो.

७३३-७३४. पञ्चहि विञ्ञाणेहि न चवति, न उपपज्जतीति वादं परवादी नानुजानातीति आह ‘‘सुत्त…पे… वत्तब्ब’’न्ति.

ततियसञ्ञावेदयितकथावण्णना निट्ठिता.