९. अपरियापन्नकथावण्णना

७०९-७१०. तस्मा दिट्ठि लोकियपरियापन्ना न होतीति अत्थं वदन्ति, एवं सति अतिप्पसङ्गो होति वीतदोसादिवोहारभावतोति. ततो अञ्ञथा अत्थं वदन्तो ‘‘रूपदिट्ठिया’’तिआदिमाह. तत्थ आदि-सद्देन अरूपदिट्ठिआदिं सङ्गण्हाति. परवादिअधिप्पायवसेन अयमत्थविभावनाति आह ‘‘यदि च परियापन्ना सिया’’ति. तथा च सतीति दिट्ठिया कामधातुपरियापन्नत्ते सतीति अत्थो. तस्माति ‘‘वीतदिट्ठिको’’ति एवं वोहाराभावतो. न हि सा तस्स अविगता दिट्ठि, यतो सो वीतदिट्ठिकोति न वुच्चति. येनाति कामदिट्ठिभावेन.

अपरियापन्नकथावण्णना निट्ठिता.

चुद्दसमवग्गवण्णना निट्ठिता.