११. अविञ्ञत्तिदुस्सील्यन्तिकथावण्णना
६०३-६०४. महाभूतानि उपादाय पवत्तो अञ्ञचित्तक्खणेपि लब्भमानो कुसलाकुसलानुबन्धो अविञ्ञत्तीति अयं वादो ‘‘चित्तविप्पयुत्तो अपुञ्ञूपचयो’’ति इमिना सङ्गहितोति ततो अञ्ञानुबन्धायं ‘‘आणत्तिया’’तिआदि वुत्तन्ति तं दस्सेतुं ‘‘आणत्तिया…पे… अधिप्पायो’’ति वुत्तं. तत्थ आणत्तो यदा आणत्तभावेन विहिंसादिकिरियं साधेति, तदा आणत्तिया पाणातिपातादीसु अङ्गभावो वेदितब्बो. सा पनाणत्ति पारिवासिकभावेन विञ्ञत्तिरहिता नाम होतीति परवादिनो अधिप्पायो, तं दस्सेतुं ‘‘एकस्मिं दिवसे’’तिआदि वुत्तं.
अविञ्ञत्तिदुस्सील्यन्तिकथावण्णना निट्ठिता.
दसमवग्गवण्णना निट्ठिता.
दुतियो पण्णासको समत्तो.