७. सीलंअचेतसिकन्तिकथावण्णना
५९०-५९४. ठितेन अविनट्ठेन. उपचयेनाति सीलभूतेन कम्मूपचयेन. ‘‘दानं अचेतसिक’’न्ति कथायं वुत्तनयेनाति यथा ‘‘न वत्तब्बं चेतसिको धम्मो दानन्ति? आमन्ता. दानं अनिट्ठफलन्ति…पे… तेन हि चेतसिको धम्मो दान’’न्ति पाळि पवत्ता, एवं तदनुसारेन ‘‘न वत्तब्बं चेतसिकं सीलन्ति? आमन्ता. सीलं अनिट्ठफल’’न्तिआदिना सीलस्स चेतसिकभावसाधकानि सुत्तपदानि च आनेत्वा तदत्थदस्सनवसेन अचेतसिको रूपादिधम्मो आयतिं विपाकं देति. यदि सो सीलं भवेय्य, विना संवरसमादानेन विना विरतिया सीलवा नाम सिया. यस्मा पन समादानचेतना विरति संवरो सीलं, तस्मा ‘‘सीलं इट्ठफलं कन्तफल’’न्तिआदिना योजना कातब्बाति इममत्थं सन्धाय वुत्तं ‘‘वुत्तनयेना’’ति, वुत्तनयानुसारेनाति अत्थो. यस्मा पन पाळियं यथा ‘‘सीलं अचेतसिक’’न्ति कथा आगता, तथा ‘‘दानं अचेतसिक’’न्ति विसुं आगता कथा नत्थि, तस्मा ‘‘सा पन कथा मग्गितब्बा’’ति वुत्तं.
सीलंअचेतसिकन्तिकथावण्णना निट्ठिता.