२. अब्भन्तरमातिकावण्णना
२. तदत्थानीति पटिच्चसमुप्पादत्थानि. पटिच्च समुप्पज्जति सङ्खारादिकं एतस्माति हि पटिच्चसमुप्पादो, पच्चेकं अविज्जादिको पच्चयधम्मो. तथा हि वुत्तं सङ्खारपिटके ‘‘द्वादस पच्चया, द्वादस पटिच्चसमुप्पादा’’ति. तेसन्ति खन्धादीनं. तथादस्सितानन्ति गणनुद्देसविभागमत्तेन दस्सितानं. कस्मा पनेत्थ पटिच्चसमुप्पादो द्वादसभावेनेव गहितो, ननु तत्थ भवो कम्मभवादिभेदेन, सोकादयो च सरूपतोयेव इध पाळियं गहिताति चोदनं सन्धायाह ‘‘तत्था’’तिआदि. तत्थ तत्थाति तस्मिं ‘‘पञ्चवीसाधिकेन पदसतेना’’ति एवं वुत्ते अट्ठकथावचने. कम्मभवस्स भावनभावेन, उपपत्तिभवस्स भवनभावेन. पदत्थतो पन कम्मभवो भवति एतस्माति भवो, इतरो भवति, भवनं वाति. तन्निदानदुक्खभावेनाति जरामरणनिदानदुक्खभावेन.
‘‘सब्बापि धम्मसङ्गणी धातुकथाय मातिका’’ति इदम्पि धातुकथाय मातिकाकित्तनमेवाति ‘‘सब्बापि…पे… मातिकाति अयं धातुकथामातिकातो बहिद्धा वुत्ता’’ति वचनं असम्भावेन्तो ‘‘अथ वा’’तिआदिमाह. पकरणन्तरगता वुत्ता धातुकथाय मातिकाभावेनाति अत्थो. कामञ्चेत्थ मातिकाभावेन वुत्ता, पकरणन्तरगतत्ता पन अञ्ञतो गहेतब्बरूपा इतो बहिभूता नाम होन्ति, सरूपतो गहिताव पञ्चक्खन्धातिआदिका अब्भन्तरा. तेनाह ‘‘सरूपतो दस्सेत्वा ठपितत्ता’’ति. मातिकाय असङ्गहितत्ताति मातिकाय सरूपेन असङ्गहितत्ता, न अञ्ञथा. न हि मातिकाय असङ्गहितो कोचि पदत्थो अत्थि. विकिण्णभावेनाति खन्धविभङ्गादीसु विसुं विसुं किण्णभावेन विसटभावेन.