७. सत्तमनयो सम्पयुत्तेनविप्पयुत्तपदवण्णना
३०६. तेहि समुदयसच्चादीहि खन्धत्तयखन्धेकदेसादिके सम्पयुत्ते सतिपि, सम्पयुत्तेहि च विप्पयुत्ते रूपनिब्बानादिके तदञ्ञधम्मे सतिपि विप्पयोगाभावतो. सङ्खेपेन वुत्तमत्थं वित्थारेन दस्सेतुं ‘‘न ही’’तिआदि वुत्तं. ततो लोभसहगतचित्तुप्पादतो अञ्ञधम्मानं अवसिट्ठानं कुसलाकुसलाब्याकतधम्मानं खन्धादीसु केनचि विप्पयोगो न हि अत्थि खन्धपञ्चकादीनं सङ्गण्हनतो तेसं. ते एव चित्तुप्पादाति ते लोभसहगतचित्तुप्पादा एव. तदञ्ञधम्मानन्ति तदञ्ञधम्मानम्पीति पि-सद्दलोपो दट्ठब्बो. तथाति इमिना न च ते एव धम्मा अड्ढदुतियायतनधातुयो, अथ खो ते च ततो अञ्ञे चाति इममत्थं उपसंहरति.
ननु तदञ्ञभावतो एव तेहि इतरेसं विप्पयोगो सिद्धोति आह ‘‘न चा’’तिआदि. तदञ्ञसमुदायेहीति ततो लोभसहगतचित्तुप्पादतो अञ्ञसमुदायेहि अञ्ञे लोभसहगता धम्मा विप्पयुत्ता न होन्ति. कस्मा? समुदाये…पे… विप्पयोगाभावतो. तस्सत्थो – समुदायेन लोभसहगततदञ्ञधम्मरासिना एकदेसानं लोभसहगतधम्मानं विप्पयोगाभावतो, तथा ये एकदेसा हुत्वा अञ्ञेसं अवयवानं समुदायभूता, तेसञ्च समुदायेन विप्पयोगाभावतोति. अनेन समुदायेन अवयवस्स समुदायस्स अवयवेन च तस्स न विप्पयोगो, अवयवस्सेव पन अवयवेनाति दस्सेति. एस नयोति य्वायं समुदयसच्चे वुत्तो विधि, एसेव मग्गसच्चसुखिन्द्रियादीसु अरूपक्खन्धेकदेसत्ता तेसन्ति दस्सेति. निरवसेसेसूति अबहिकतवितक्केसु. वितक्को हि समुदायतो अबहिकतो. ‘‘सो हि समुदायो’’तिआदिको वुत्तनयो लब्भतीति आह ‘‘अग्गहणे कारणं न दिस्सती’’ति.
अञ्ञेसुपि समुदयसच्चादीसु विस्सज्जनस्स…पे… दट्ठब्बं, यतो समुदयसच्चादि इध न गहितन्ति अधिप्पायो. सम्पयुत्ताधिकारतो ‘‘अञ्ञेना’’ति पदं सम्पयुत्ततो अञ्ञं वदतीति आह ‘‘असम्पयुत्तेन असम्मिस्सन्ति अत्थो’’ति. इदानि ब्यतिरेकेनपि तमत्थं पतिट्ठापेतुं ‘‘अदुक्खमसुखा…पे… गहितानी’’ति वुत्तं. एतेन लक्खणेनाति ‘‘असम्पयुत्तेन असम्मिस्स’’न्ति वुत्तलक्खणेन. चित्तन्ति ‘‘चित्तेहि धम्मेहि ये धम्मा’’ति पञ्हं उपलक्खेति. सहयुत्तपदेहि सत्ताति ‘‘चेतसिकेहि धम्मेहि ये धम्मा’’तिआदिना चित्तेन सहयुत्ते धम्मे दीपेन्तेहि पदेहि आगता सत्त पञ्हा. तिण्णं तिकपदानमग्गहणेन ऊनोति कत्वा. ये सन्धाय ‘‘तिके तयो’’ति वुत्तं. तं पन वेदनापीतित्तिकेसु पच्छिमं, वितक्कत्तिके पठमन्ति पदत्तयं वेदितब्बं.
३०९. उद्धटपदेन पकासियमाना अत्था अभेदोपचारेन ‘‘उद्धटपद’’न्ति वुत्ताति आह ‘‘उद्धटपदेन सम्पयुत्तेही’’ति. तेन च यथावुत्तेन उद्धटपदेन. मनेन युत्ताति एत्थ मननमत्तत्ता मनोधातु ‘‘मनो’’ति वुत्ताति आह ‘‘मनोधातुया एकन्तसम्पयुत्ता’’ति.
सत्तमनयसम्पयुत्तेनविप्पयुत्तपदवण्णना निट्ठिता.