६. छट्ठनयो सम्पयोगविप्पयोगपदवण्णना
२२८. ‘‘तत्था’’ति इमिना ‘‘सम्पयोगविप्पयोगपदं भाजेत्वा’’ति एत्थ सम्पयोगविप्पयोगपदं भाजितं, संवण्णेतब्बताय च पधानभूतं पच्चामट्ठं, न रूपक्खन्धादिपदन्ति दस्सेन्तो ‘‘यं लब्भति…पे… वेदितब्ब’’न्ति वत्वा पुन ‘‘रूपक्खन्धादीसु ही’’तिआदिना तमत्थं विवरति. तत्थ न लब्भतीति ‘‘सम्पयुत्तं विप्पयुत्त’’न्ति वा गहेतुं न लब्भति, अलब्भमानम्पि पुच्छाय गहितं पटिक्खेपेन विस्सज्जेतुं. पटिक्खेपोपि हि पुच्छाय विस्सज्जनमेव. तथा हि यमके (यम. १.खन्धयमक.५९-६१) ‘‘यस्स रूपक्खन्धो नुप्पज्जित्थ, तस्स वेदनाक्खन्धो नुप्पज्जित्था’’ति पुच्छाय ‘‘नत्थी’’ति विस्सज्जितं. तेन पनेत्थ रूपधम्मेसु सम्पयोगट्ठो न लब्भतीति अयमत्थो दस्सितो होति. अलब्भमानम्पि सम्पयोगपदं गहितन्ति सम्बन्धो. सब्बत्थाति रूपक्खन्धवेदनाक्खन्धादीसु. एतेसन्ति रूपनिब्बानानं. विसभागताति अतंसभागता. एकुप्पादादिभावो हि सम्पयोगे सभागता, न सङ्गहे विय समानसभागता, तस्मा एकुप्पादादिभावरहितानं रूपनिब्बानानं सा एकुप्पादादिता विसभागता वुत्ता. तदभावतोति तस्सा विसभागताय एकुप्पादादिताय अभावतो. विप्पयोगोपि निवारितो एव होति, विसभागो भावो विप्पयोगोति वुत्तोवायमत्थोति. ‘‘चतूसु ही’’तिआदिना वुत्तमेवत्थं पाकटतरं करोति. तत्थ तेसं तेहीति च अरूपक्खन्धे एव परामसति. विसभागता च होति रूपनिब्बानेसु अविज्जमानत्ताति अत्थो. तेनाह ‘‘न च रूपेकदेसस्सा’’तिआदि. तेनेवाति चतुक्खन्धसभागत्ता एव.
तीहि विञ्ञाणधातूहीति घानजिव्हाकायविञ्ञाणधातूहि विप्पयुत्ते अनारम्मणमिस्सके रूपधम्ममिस्सके धम्मे दीपेति रूपभवोति योजना. पञ्चहीति चक्खुविञ्ञाणादीहि पञ्चहि विञ्ञाणधातूहि. एकाय मनोधातुया. न सम्पयुत्तेति न सम्पयुत्ते एव. तथा हि ‘‘विप्पयुत्ते अहोन्ते सत्तहिपि सम्पयुत्ते सत्तपि वा ता’’ति वुत्तं. तेनाति विप्पयुत्ततापटिक्खेपेन. ताहीति सत्तविञ्ञाणधातूहि. सम्पयुत्ते दीपेन्तीति सम्पयुत्ते दीपेन्तियेव, न सम्पयुत्ते एवाति एवमवधारणं गहेतब्बं. एस नयो सेसेसुपि. सम्पयुत्ते वेदनादिके. सम्पयुत्तविप्पयुत्तभावेहि नवत्तब्बं, तंयेव विञ्ञाणधातुसत्तकं. सम्पयुत्तभावेन नवत्तब्बानि सम्पयुत्तनवत्तब्बानि, भिन्नसन्तानिकानि, नानाक्खणिकानि च अरूपानिपि धम्मजातानि. अनारम्मणमिस्सकसब्बविञ्ञाणधातुतंसम्पयुत्ता धम्मायतनादिपदेहि दीपेतब्बा, अनारम्मणमिस्सकसब्बविञ्ञाणधातुयो अचेतसिकादिपदेहि दीपेतब्बा, तदुभयसमुदाया दुक्खसच्चादिपदेहि दीपेतब्बाति वेदितब्बा.
यदि एवन्ति यदि अनारम्मणमिस्सानं धम्मानं विप्पयोगो नत्थि. अनारम्मणमिस्सोभयधम्माति रूपनिब्बानसहितसब्बविञ्ञाणधातुतंसम्पयुत्तधम्मा. खन्धादीहेवाति खन्धायतनधातूहि एव, न अरूपक्खन्धमत्तेन. अरूपक्खन्धेयेव पन सन्धाय ‘‘तेहि धम्मेहि ये धम्मा विप्पयुत्ता’’ति वुत्तन्ति नायं दोसोति दस्सेति. तदेकदेसाति ‘‘अनारम्मणमिस्सा’’तिआदिना वुत्तधम्मसमुदायस्स एकदेसा. तदेकदेसञ्ञसमुदायाति तस्सेव यथावुत्तस्स समुदायस्स एकदेसा हुत्वा अञ्ञेसं अवयवानं रूपक्खन्धादीनं समुदायभूता. विभागाभावतोति भेदाभावतो. भेदोति चेत्थ अच्चन्तभेदो अधिप्पेतो. न हि समुदायावयवानं सामञ्ञविसेसानं विय अच्चन्तभेदो अत्थि भेदाभेदयुत्तत्ता. तेसं अच्चन्तभेदमेव हि सन्धाय ‘‘समुदायन्तोगधानं एकदेसानं न विभागो अत्थी’’ति सङ्गहेपि वुत्तं. तेनाति अविभागसब्भावतो सभागविसभागत्ताभावेन. तेसन्ति अनारम्मणमिस्सकसब्बविञ्ञाणधातुआदीनं. ते च अकुसलाब्याकता. तेसन्ति कुसलाकुसलाब्याकतधम्मानं. तस्माति यस्मा विभत्तसभावानं न तेसं समुदायेकदेसादिभावो, तस्मा. यस्मा पन कुसलादयो एव खन्धादयोति खन्धादिआमसनेन समुदायेकदेसादिभावो आपन्नो एवाति वुत्तनयेन विप्पयोगाभावो होति, तस्मा तं परिहरन्तो ‘‘खन्धादीनि अनामसित्वा’’तिआदिमाह. तेसन्ति कुसलादीनं. अञ्ञमञ्ञविप्पयुत्तता वुत्ता ‘‘कुसलेहि धम्मेहि ये धम्मा विप्पयुत्ता’’तिआदिना. सब्बेसूति दुतियादिसब्बपञ्हेसु.
छत्तिंसाय पिट्ठिदुकपदेसु वीसति दुकपदानि इमस्मिं नये लब्भन्ति, अवसिट्ठानि सोळसेवाति आह ‘‘सोळसाति वत्तब्ब’’न्ति. ततो एव ‘‘तेवीसपदसत’’न्ति एत्थ ‘‘तेवीस’’न्ति इदञ्च ‘‘एकवीस’’न्ति वत्तब्बन्ति योजना. सब्बत्थाति सब्बपञ्हेसु. एककालेकसन्तानानं भिन्नकालभिन्नसन्तानानञ्च अनेकेसं धम्मानं समुदायभूता सङ्खारक्खन्धधम्मायतनधम्मधातुयोति आह ‘‘कालसन्तान…पे… धातून’’न्ति. एकदेससम्मिस्साति चित्तिद्धिपादादिना अत्तनो एकदेसेनेव खन्धन्तरादीहि सम्मिस्सा इद्धिपादादयो, अनारम्मणेहि रूपनिब्बानेहि च असम्मिस्सा. समानकालसन्तानेहीति एककालसन्तानेहि कालसन्तानभेदरहितेहि एकदेसन्तरेहि, सङ्खारक्खन्धादीनं एकदेसन्तरेहि, सङ्खारक्खन्धादीनं एकदेसविसेसभूतेहि सतिपट्ठानसम्मप्पधानसञ्ञाक्खन्धादीहि विभत्ता एव समुदयसच्चादयो सम्पयोगीविप्पयोगीभावेन, रूपक्खन्धादयो विप्पयोगीभावेन गहिताति योजना. तेहि समुदयसच्चादीहि. ते सञ्ञाक्खन्धादयो. केहिचि सहुप्पज्जनारहेहि एकदेसन्तरेहि विभत्तेहि. न हि सङ्खारक्खन्धादिपरियापन्नत्तेपि समुदयसच्चादयो मग्गसच्चादीहि सम्पयोगं लभन्ति. तेसन्ति वेदनाक्खन्धसञ्ञाक्खन्धादीनं. एकुप्पादा…पे… विसभागता चाति एकुप्पादादितासङ्खाता यथारहं सभागता विसभागता च. तेन यथावुत्तकारणेन सम्पयोगस्स विप्पयोगस्स च लभनतो.
भिन्नकालानं समुदायीनं समुदाया भिन्नकालसमुदाया. वत्तमाना च एकस्मिं सन्ताने एकेकधम्मा वत्तन्ति. तस्माति यस्मा एतदेव, तस्मा. तेसं वेदनाक्खन्धादीनं विभजितब्बस्स एकदेसभूतस्स अभावतो. सुखिन्द्रियादीनि वेदनाक्खन्धेकदेसभूतानिपि. तेन विभागाकरणेन. यदि समानकालस्स विभजितब्बस्स अभावतो चक्खुविञ्ञाणधातादयो विञ्ञाणक्खन्धस्स विभागं न करोन्ति, अथ कस्मा ‘‘चक्खुविञ्ञाणधातु…पे… मनोविञ्ञाणधातु सोळसहि धातूहि विप्पयुत्ता’’ति वुत्तन्ति चोदनं मनसि कत्वा आह ‘‘खन्धायतन…पे… विप्पयुत्ताति वुत्त’’न्ति. एवमेवन्ति यथा धातुविभागेन विभत्तस्स विञ्ञाणस्स, एवमेवं.
२३५. तंसम्पयोगीभावन्ति तेहि खन्धेहि सम्पयोगीभावं. यथा हि समानकालसन्तानेहि एकचित्तुप्पादगतेहि वेदनासञ्ञाविञ्ञाणक्खन्धेहि समुदयसच्चस्स सम्पयुत्तता, एवं भिन्नसन्तानेहि भिन्नकालेहि च तेहि तस्स विप्पयुत्तताति आह ‘‘एवं तंविप्पयोगीभावं…पे… न वुत्त’’न्ति. विसभागतानिबन्धस्स विभागस्स अभावेन अविभागेहि तेहि तीहि खन्धेहि. विभागे हीतिआदिना तमेवत्थं पाकटतरं करोति. विभागरहितेहीति समानकालसन्तानेहि एकचित्तुप्पादगतत्ता अविभत्तेहि वेदनाक्खन्धादीहि न युत्तं विप्पयुत्तन्ति वत्तुं. तेनाह ‘‘विज्जमानेहि…पे… भावतो’’ति. तत्थ विज्जमानस्स समानस्स समानजातिकस्साति अधिप्पायो. न हि विज्जमानं रूपारूपं अञ्ञमञ्ञस्स विसभागं न होति. अनुप्पन्ना धम्मा वियाति इदं विसदिसुदाहरणदस्सनं. यथा ‘‘अनुप्पन्ना धम्मा’’ति अनागतकालं वुच्चतीति आमट्ठकालभेदं, एवं यं आमट्ठकालभेदं न होतीति अत्थो. उद्धरितब्बं देसनाय देसेतब्बन्ति वुत्तं होति. विज्जमानस्सेव विज्जमानेन सम्पयोगो, सम्पयोगारहस्सेव च विप्पयोगोति अत्थिभावसन्निस्सया सम्पयुत्तविप्पयुत्तताति आह ‘‘पच्चुप्पन्नभावं निस्साया’’ति. तेनेवाह ‘‘अविज्जमानस्सा’’तिआदि. तञ्चाति उद्धरणं.
विभागरहितेहीति विसभागताभावतो अविभागेहि. अनामट्ठकालभेदेति अनामट्ठकालविसेसे. अविज्जमानस्स…पे… सम्पयोगो नत्थीति एतेन पारिसेसतो विज्जमानस्स च विज्जमानेन सम्पयोगो दस्सितो. अविज्जमानतादीपके भेदे गहितेति यथागहितेसु धम्मेसु तेहि विप्पयोगीनं अविज्जमानभावदीपके तेसंयेव विसेसे ‘‘अरूपभवो एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि विप्पयुत्तो’’तिआदिना (धातु. २४६) गहिते तेनेव रुप्पनादिना भेदेन तेसं अञ्ञमञ्ञं विसभागतापि गहिता एवाति विप्पयोगो होतीति योजना. भेदे पन अग्गहिते तेन तेन गहणेनाति यथावुत्ते अविज्जमानतादीपके विसेसे, विसभागे वा अग्गहिते ‘‘वेदना, सञ्ञा, सङ्खारक्खन्धो तीहि खन्धेहि एकेनायतनेन सत्तहि धातूहि सम्पयुत्तो’’तिआदिना तेन तेन गहणेन सभागतादीपनेन विसभागताय अग्गहितत्ता सभागताव होति. तथा च सति सभागत्ते का पनेत्थ सभागताति आह ‘‘विज्जमानताय…पे… होती’’ति. तस्साति सभागताय. तस्माति विसभागताय अलब्भमानत्ता, सभागताय च लब्भमानत्ता.
२६२. वितक्को वियाति सवितक्कसविचारेसु चित्तुप्पादेसु वितक्को विय. सो हि वितक्करहितत्ता अवितक्को विचारमत्तो च. तेनाह ‘‘कोट्ठासन्तरचित्तुप्पादेसु अलीना’’ति. ततो एव सो अप्पधानो, दुतियझानधम्मा एवेत्थ पधानाति आह ‘‘ये पधाना’’ति. तेनेवाति सवितक्कसविचारेसु चित्तुप्पादेसु वितक्कस्स अवितक्कविचारमत्तग्गहणेन इध अग्गहितत्ता, वितक्कत्तिके दुतियरासियेव च अधिप्पेतत्ता. अनन्तरनयेति सम्पयुत्तेनविप्पयुत्तपदनिद्देसे. समुदयसच्चेन समानगतिका सदिसप्पवत्तिका. इतीति इमिना कारणेन. ते अवितक्कविचारमत्ता धम्मा न गहिता, समुदयसच्चं विय न देसनारुळ्हा. न सवितक्कसविचारेहि समानगतिकाति योजना. यदि हि ते सवितक्कसविचारेहि समानगतिका सियुं, ‘‘अवितक्कविचारमत्तेहि धम्मेहि ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता, ते धम्मा न केहिचि खन्धेहि, न केहिचि आयतनेहि, एकाय धातुया विप्पयुत्ता’’ति वत्तब्बा सियुं. यस्मा पन ते समुदयसच्चेन समानगतिका. यथा हि ये समुदयसच्चेन सम्पयुत्तेहि विप्पयुत्ता, तेसं केहिचि विप्पयोगं वत्तुं न सक्का, एवं तेहिपि. तथा हि वक्खति ‘‘समुदयसच्चादीनी’’तिआदि. दसमो…पे… वुत्तोति एत्थ दसमनये तेहि अवितक्कविचारमत्तेहि विप्पयुत्तेहि विप्पयुत्तानं सोळसहि धातूहि विप्पयोगो वुत्तो, ओसाननये तेहि विप्पयुत्तानं अट्ठारसहि धातूहि सङ्गहो च वुत्तोति तस्मा न ते सवितक्कसविचारेहि समानगतिकाति दस्सेति.
वितक्कसहितेसूति सहवितक्केसु. तेसूति अवितक्कविचारमत्तेसु सह वितक्केन दुतियज्झानधम्मेसु, ‘‘अवितक्कविचारमत्ता’’ति गहितेसु वुत्तेसूति अत्थो. सब्बेपि तेति दुतियज्झानधम्मा वितक्को चाति सब्बेपि ते धम्मा सक्का वत्तुं. तथा हि सम्पयोगविप्पयोगपदनिद्देसे ‘‘अवितक्कविचारमत्ता धम्मा एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता’’ति वुत्तं. तत्थ एकेन खन्धेनाति सङ्खारक्खन्धेन. सो हि समुदायोति ‘‘अवितक्कविचारमत्ता धम्मा’’ति वुत्तधम्मसमुदायो. ननु वितक्कोपेत्थ धम्मसङ्गहं गतो, सो च विचारतो अञ्ञेनपि सम्पयुत्तोति चोदनं सन्धायाह ‘‘न हि तदेकदेसस्स…पे… होती’’ति. यथातिआदिना तमेवत्थं इद्धिपादनिदस्सनेन विभावेति. तस्सत्थो – यथा इद्धिपादसमुदायस्स एकदेसभूतानं छन्दिद्धिपादादीनं तीहि खन्धेहि सम्पयोगो वुत्तो, तंसमुदायस्स न होति, एवं इधापि वितक्कस्स अञ्ञेहि सम्पयोगो अवितक्कविचारमत्तस्स समुदायस्स न होतीति.
यदि एवं ‘‘इद्धिपादो द्वीहि खन्धेहि सम्पयुत्तो’’तिआदि न वत्तब्बन्ति चे? नो न वत्तब्बन्ति दस्सेन्तो ‘‘यथा पना’’तिआदिमाह. तत्थ तेसूति इद्धिपादेसु. समुदायस्साति इद्धिपादसमुदायस्स. तेहि वेदनाक्खन्धादीहि सम्पयुत्तता वुत्ता ‘‘इद्धिपादो द्वीहि खन्धेहि सम्पयुत्तो’’तिआदिना. तेनाति विचारेन. न हीतिआदिना यथाधिगतधम्मानं सम्पयुत्तताय नवत्तब्बाभावं उदाहरणदस्सनवसेन विभावेति. केचि विचिकिच्छा तंसहगता च मोहवज्जा मोहेन सम्पयुत्ता, केचि असम्पयुत्ता. मोहेनाति विचिकिच्छासहगतमोहमेव सन्धाय वदति. इति इमिना कारणेन न समुदायो तेन मोहेन सम्पयुत्तो. अञ्ञो कोचि धम्मो हेतुभावो नापि अत्थि, येन हेतुना सो दस्सनेनपहातब्बहेतुकोति वुत्तो समुदायो. एवन्ति इमिना नयेन ‘‘भावना…पे… योपि सम्पयुत्ता’’ति नवत्तब्बताय निदस्सेतब्बाति अत्थो. एवन्ति यथा दस्सनेनपहातब्बहेतुकसमुदायस्स सम्पयुत्तता न वत्तब्बा, एवं येन धम्मेन अवितक्क…पे… सिया, तं न नत्थि. तस्माति यस्मा अवितक्कविचारमत्तेसु कोचिपि विचारेन असम्पयुत्तो नत्थि, तस्मा. तेति अवितक्कविचारमत्ता धम्मा. एकधम्मेपि…पे… कतो यथा ‘‘अप्पच्चया धम्मा असङ्खता धम्मा’’ति.
छट्ठनयसम्पयोगविप्पयोगपदवण्णना निट्ठिता.