५. पञ्चमनयो असङ्गहितेनअसङ्गहितपदवण्णना

१९३. वुत्तनयेनाति यस्मा सङ्गहप्पवत्तिविसेसविरहितो असङ्गहितधम्मविसेसनिस्सितो पञ्चमनयो, तस्मा यो एत्थ केनचि असङ्गहितेन धम्मविसेसेन पुन असङ्गहितो धम्मविसेसो असङ्गहितेन असङ्गहितो असङ्गहितताय पुच्छितब्बो विस्सज्जितब्बो च. तमेव ताव यथानिद्धारितं दस्सेन्तो ‘‘रूपक्खन्धेन ये धम्मा खन्ध…पे… असङ्गहिता, तेहि धम्मेहि ये धम्मा खन्ध…पे… असङ्गहिताति आहा’’ति चतुत्थनये वुत्तनयानुसारेन. यथानिद्धारितधम्मदस्सनन्ति पाळियं निद्धारितप्पकारधम्मदस्सनं. सह सुखुमरूपेनाति ससुखुमरूपं, तेन सुखुमरूपेन सद्धिं गहितं विञ्ञाणं, तेन सहितधम्मसमुदाया ससुखुम…पे… दाया. के पन तेति आह ‘‘दुक्खसच्चा’’तिआदि. केसञ्चीति निब्बानचक्खायतनादीनं. तीहिपि सङ्गहेहि. परिपुण्णसङ्गहेहि तीहिपि सङ्गहेहि असङ्गाहका परिपुण्णसङ्गहासङ्गाहका. अब्याकतधम्मसदिसा नेवदस्सनेननभावनायपहातब्बनेवसेक्खानासेक्खादयो. इतरेति रूपक्खन्धादयो. तब्बिपरियायेनाति वुत्तविपरियायेन, तीहिपि सङ्गहेहि असङ्गहेतब्बस्स अत्थिताय परिपुण्णसङ्गहासङ्गाहकत्ताति अत्थो.

असङ्गाहकेसु निब्बानं अन्तोगधं, तस्मा तं अनिदस्सनअप्पटिघेहि असङ्गहेतब्बं न होतीति अत्थो. तेनाह ‘‘न च तदेव तस्स असङ्गाहक’’न्ति. ‘‘वेदनाक्खन्धेन ये धम्मा’’तिआदयो नव पञ्हा दुतियपञ्हादयो, ते पठमपञ्हेन सद्धिं दस, नामरूपपञ्हादयो पन चतुवीसतीति आह ‘‘सब्बेपि चतुत्तिंस होन्ती’’ति. रूपक्खन्धादिविसेसकपदन्ति ‘‘रूपक्खन्धेना’’तिआदिना असङ्गाहकत्तेन विसेसकं रूपक्खन्धादिपदं. पुच्छायाति च पुच्छनत्थन्ति अत्थो. ‘‘रूपक्खन्धेना’’तिआदि सब्बम्पि वा विञ्ञापेतुं इच्छितभावेन वचनं पञ्हभावतो पुच्छा. तेनाह अट्ठकथायं ‘‘पञ्हा पनेत्थ…पे… चतुत्तिंस होन्ती’’ति. ते हि लक्खणतो दस्सिताति ते निद्धारितधम्मा तेनेव असङ्गहितासङ्गहितताय निद्धारणसङ्खातेन लक्खणेन दस्सिता.

तदेवाति एव-सद्देनाति ‘‘तदेवा’’ति एत्थ एव-सद्देन. ‘‘यं पुच्छाय उद्धटं पदं, तं खन्धादीहि असङ्गहित’’न्ति एत्थ ‘‘खन्धादीहेवा’’ति अवधारणं निप्पयोजनं पकारन्तरस्स अभावतो. ‘‘तीहि असङ्गहो’’ति हि वुत्तं. तथा ‘‘असङ्गहितमेवा’’ति सङ्गहिततानिवत्तनस्स अनधिप्पेतत्ता. तदेवाति पन इच्छितं उद्धटस्सेव असङ्गहितेनअसङ्गहितभावस्स अवधारेतब्बत्ताति दस्सेन्तो ‘‘न कदाची’’तिआदिमाह. तत्थ अञ्ञस्साति अनुद्धटस्स. अनियततं दस्सेतीति इदं अवधारणफलदस्सनं. नियमतोति सक्का वचनसेसो योजेतुन्ति इदम्पि एव-कारेन सिद्धमेवत्थं पाकटतरं कातुं वुत्तं. यतो हि एव-कारो, ततो अञ्ञत्थ नियमोति. एवंपकारमेवाति पुच्छाय उद्धटप्पकारमेव, यं पकारं पुच्छाय उद्धटं, तंपकारमेवाति अत्थो. तस्साति असङ्गहितस्स. अञ्ञस्साति पुच्छाय अनुद्धटप्पकारस्स. एतेन यो पुच्छाय उद्धटो तीहिपि सङ्गहेहि असङ्गहितो, तस्सेव इध पुच्छितब्बविस्सज्जितब्बभावो, न अञ्ञस्साति दस्सेति. तेनाह ‘‘पुच्छाय उद्धटञ्ही’’तिआदि. आयतनधातुसङ्गहवसेन चेत्थ रूपक्खन्धादीनं अञ्ञसहितता, विञ्ञाणक्खन्धादीनं असहितता च वेदितब्बा.

अवसेसा वेदनादयो तयो खन्धा निब्बानञ्च सकलेन रूपक्खन्धेन तेसं सङ्गहो नत्थीति ‘‘सङ्गहिता’’ति न सक्का वत्तुं, एकदेसेन पन सङ्गहो अत्थीति ‘‘असङ्गहिता न होन्तीति एवं दट्ठब्ब’’न्ति आह. ‘‘रूपधम्मावा’’ति नियमनं पुच्छाय उद्धटभावापेक्खन्ति दस्सेन्तो ‘‘पुच्छाय…पे… अधिप्पायो’’ति आह. तेन वुत्तं ‘‘अनुद्धटा वेदनादयोपि हि असङ्गहिता एवा’’ति. एत्थाति एतस्मिं पञ्चमनयनिद्देसे. पठमे नयेति पठमे अत्थविकप्पे. तथा दुतियेति एत्थापि. रूपविञ्ञाणेहीति असुखुमरूपधम्मेहि विञ्ञाणेन चाति अयमेत्थ अधिप्पायोति दस्सेन्तो ‘‘ओळारिक…पे… अत्थो’’ति आह. कथं पन रूपधम्माति वुत्ते ओळारिकरूपस्सेव गहणन्ति आह ‘‘रूपेकदेसो हि एत्थ रूपग्गहणेन गहितो’’ति.

१९६. असङ्गाहकन्ति ‘‘चक्खायतनेन…पे… असङ्गहिता’’ति एवं असङ्गाहकभावेन वुत्तं पुच्छितब्बविस्सज्जेतब्बभावेन वुत्तम्पि कामं वेदनादीहेव चतूहि असङ्गहितं, तं पन न चक्खायतनमेवाति दस्सेतुं ‘‘चक्खायतनेन पना’’तिआदि वुत्तं. येहि धम्मेहीति खन्धादीसु येहि. सब्बं धम्मजातं तेव रूपादिके धम्मे उदानेति पाळियं. कस्मा पनेतं उदानेतीति आह ‘‘सदिसविस्सज्जना’’तिआदि. पठमेन उदानेन. द्वेति ‘‘बाहिरा उपादा द्वे’’ति एत्थ वुत्तं द्वे-सद्दं सन्धायाह. तस्स असङ्गहितस्स. यथादस्सितस्साति ‘‘रूप’’न्तिआदिना दस्सितप्पकारस्स. धम्मन्वयञाणुप्पादनं नयदानं. ‘‘रूपं धम्मायतन’’न्तिआदीनं पदानं वसेन द्वेवीसपदिको एस नयो.

पञ्चमनयअसङ्गहितेनअसङ्गहितपदवण्णना निट्ठिता.