३. ततियनयो असङ्गहितेनसङ्गहितपदवण्णना
१७९. रूपक्खन्धेन खन्धसङ्गहेन असङ्गहितेसूति निद्धारणे भुम्मं. तस्माति यस्मा एकदेससभागता समुदायसभागता न होति, तस्मा. तेनाति रूपक्खन्धेन. तानीति वेदनादिक्खन्धत्तयनिब्बानानि. यथा च एकदेसविसभागताय न सङ्गहितता, एवं एकदेससभागताय असङ्गहिततापि नत्थीति दस्सेन्तो ‘‘न केवल’’न्तिआदिमाह. सङ्गहितानेव न न होन्तीति योजना. तेति वेदनादिक्खन्धत्तयनिब्बानसुखुमरूपधम्मा. तेहीति विञ्ञाणक्खन्धचक्खायतनादीहि. न कथञ्चि सम्मिस्साति केनचिपि पकारेन न सम्मिस्साति असम्मिस्सताय सङ्गहितत्ताभावं साधेति. रूपक्खन्धेन विय…पे… न होतीति यथा रूपक्खन्धेन सभागताभावतो निब्बानं न केनचिपि सङ्गहणेन सङ्गहितं, एवं विञ्ञाणक्खन्धचक्खायतनादीहि तं आयतनधातुसङ्गहेहि सङ्गहितं न होतीति खन्धसङ्गहाभावो पाकटो वुत्तोवाति एवं वुत्तं.
एवरूपानन्ति रूपक्खन्धविञ्ञाणक्खन्धचक्खायतनादीनं. न हि निब्बानं सन्धाय ‘‘रूपक्खन्धेन विञ्ञाणक्खन्धेन चक्खायतनेन ये धम्मा खन्धसङ्गहेन असङ्गहिता, आयतनधातुसङ्गहेन सङ्गहिता’’ति सक्का वत्तुं. तेन वुत्तं ‘‘सङ्गाहकत्ताभावतो एवा’’ति. तथा ‘‘अब्याकतेहि धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता, आयतनधातुसङ्गहेन सङ्गहिता’’तिआदि न सक्का वत्तुं तादिसस्स धम्मस्स अभावतोति आह ‘‘सनिब्बान…पे… भावतोवा’’ति. अग्गहणं वेदितब्बन्ति योजना. तेनाह ‘‘न ही’’तिआदि. कञ्चीति कञ्चि धम्मजातं. तेति अब्याकतधम्मादयो. अत्तनोति अब्याकतधम्मादिं सन्धायाह. एकदेसोति रूपक्खन्धादि. अत्तेकदेससभागोति निब्बानं. तञ्हि धम्मायतनधम्मधातुपरियापन्नताय तदेकदेससभागो. असङ्गहितसङ्गाहकत्ताति खन्धसङ्गहेन असङ्गहितानं सञ्ञाक्खन्धादीनं आयतनधातुसङ्गहेन सङ्गाहकत्ताति अत्थो.
विसभागक्खन्धनिब्बानसमुदायत्ता खन्धसङ्गहेन धम्मायतनेन न कोचि धम्मो सङ्गहितो अत्थीति योजना. एतस्साति ‘‘धम्मायतनेन सङ्गहिता’’ति एतस्स पदस्स धम्मायतनगणनेन सङ्गहिताति अत्थो. ओळारिकरूपसम्मिस्सं धम्मायतनेकदेसं.
ततियनयअसङ्गहितेनसङ्गहितपदवण्णना निट्ठिता.