२. दुतियनयो सङ्गहितेनअसङ्गहितपदवण्णना

१७१. ‘‘सङ्गहितेन असङ्गहित’’न्ति एत्थ सङ्गहितासङ्गहितसद्दा भिन्नाधिकरणा न गहेतब्बा विसेसनविसेसितब्बताय इच्छितत्ता. यो हि धम्मो सङ्गहितताविसेसविसिट्ठो असङ्गहितो हेट्ठा उद्दिट्ठो, स्वेव इध असङ्गहितभावेन पुच्छित्वा विस्सज्जीयतीति दस्सेन्तो ‘‘यं तं…पे… तदेव दस्सेन्तो’’ति आह. ये हि धम्मा चक्खायतनेन खन्धसङ्गहेन सङ्गहिता, आयतनधातुसङ्गहेन च असङ्गहिता, तेसंयेव पुन खन्धादीहि असङ्गहो पुच्छित्वा विस्सज्जितो. तेन वुत्तं ‘‘चक्खायतनेन…पे… आहा’’ति. सब्बत्थाति सब्बेसु नयेसु वारेसु च. खन्धादिसङ्गहसामञ्ञानन्ति ‘‘खन्धसङ्गहेना’’तिआदिना अविसेसेन वुत्तानं खन्धादिसङ्गहानं. ‘‘सामञ्ञजोतना विसेसे अवतिट्ठती’’ति आह ‘‘निच्चं विसेसापेक्खत्ता’’ति. विसेसावबोधनत्थानि पञ्हब्याकरणानीति वुत्तं ‘‘भेदनिस्सितत्ता च पुच्छाविस्सज्जनान’’न्ति. सविसेसाव खन्धादिगणनाति ‘‘खन्धसङ्गहेना’’तिआदिना अविसेसेन वुत्तापि रूपक्खन्धादिना सविसेसाव खन्धादिगणना, खन्धादिना सङ्गहोति अत्थो. सुद्धाति केवला अनवसेसा, सामञ्ञभूताति वुत्तं होति.

तत्थाति यथाधिकते दुतियनये. सामञ्ञजोतनाय विसेसनिद्दिट्ठत्ता आह ‘‘सङ्गहि…पे… निद्धारितत्ता’’ति. तीसु सङ्गहेसूति खन्धादिसङ्गहेसु तीसु. अञ्ञेहीति वुत्तावसेसेहि द्वीहि एकेन वा. एत्तकेनेव दस्सेतब्बा सियुं तावतापि सङ्गहितेन असङ्गहितभावस्स पकासितत्ता. तेसन्ति सङ्गहितेनअसङ्गहितभावेन वुत्तधम्मानं. एवंविधानन्ति ‘‘चक्खायतनं सोतायतन’’न्तिआदिना अनिद्धारितविसेसानं. असम्भवाति वुत्तप्पकारेन निद्दिसितुं असम्भवा. सङ्गहादिनयदस्सनमत्तं नयमातिकाय ब्यापारो, यत्थ पन सङ्गहादयो, ते खन्धादयो कुसलादयो च तेसं विसयभूताति तेहि विना सङ्गहादीनं पवत्ति नत्थि. तेनाह ‘‘नयमातिकाय अब्भन्तरबाहिरमातिकापेक्खत्ता’’ति. सङ्गाहकं असङ्गाहकञ्चाति वत्तब्बं. यो हि इध सङ्गाहकभावेन वुत्तो धम्मो असङ्गाहकभावेनपि वुत्तोयेवाति.

‘‘ये धम्मा खन्धसङ्गहेन सङ्गहिता, आयतनधातुसङ्गहेन असङ्गहिता’’ति, ‘‘ये धम्मा खन्धसङ्गहेन असङ्गहिता, आयतनधातुसङ्गहेन सङ्गहिता’’ति च यत्थ पुच्छितब्बविस्सज्जितब्बधम्मविसेसनिद्धारणं नत्थि, तत्थ पठमनये छट्ठनये च ‘‘रूपक्खन्धो कतिहि खन्धेहि सङ्गहितो? एकेन खन्धेना’’ति (धातु. ६), ‘‘रूपक्खन्धो कतिहि खन्धेहि सम्पयुत्तोति? नत्थि. चतूहि खन्धेहि विप्पयुत्तो’’ति (धातु. २२८) च एवं पुच्छितब्बविस्सज्जितब्बभावेन. इतरेसूति दुतियादिनयेसु. तस्स तस्साति यं पुच्छितब्बं विस्सज्जितब्बञ्च ‘‘ये धम्मा’’ति अनियमितरूपेन निद्धारितं, तस्स तस्स ‘‘ते धम्मा’’ति नियामकभावेन.

एत्थाति एतस्मिं पकरणे. येन येन चक्खायतनादिना सङ्गाहकेन. खन्धादिसङ्गहेसूति खन्धायतनधातुसङ्गहेसु. तेन तेनाति खन्धादिसङ्गहेन. अञ्ञन्ति ततो ततो सङ्गाहकतो अञ्ञं. तब्बिनिमुत्तं सङ्गहेतब्बासङ्गहेतब्बं यं धम्मजातं अत्थि, तं तदेव ‘‘चक्खायतनेन ये धम्मा खन्धसङ्गहेन सङ्गहिता, आयतनधातुसङ्गहेन असङ्गहिता’’ति सङ्गाहकासङ्गाहकभावेन उद्धटं. अञ्ञो धम्मो नत्थि तस्स सभागभावेन सङ्गाहकस्सेव अभावतो. सिया पनेतं सभागेन एकदेसेन सङ्गहोति, तं पटिक्खिपन्तो आह ‘‘न च सो…पे… होती’’ति. यञ्चातिआदिना वचनन्तरं परिहरति.

यदि चातिआदिनापि तस्सेव तेन सङ्गहाभावं पाठाभावदस्सनेन विभावेति. तत्थ सो एवाति यो रूपादिक्खन्धो सङ्गाहकभावेन वुत्तो, सो एव तेन रूपादिक्खन्धेन सङ्गय्हेय्य सङ्गहेतब्बो भवेय्य, तेनेव तस्स सङ्गहाभावे लक्खणं दस्सेन्तो आह ‘‘न हि सो एव तस्स सभागो विसभागो चा’’ति. एकदेसा विय चक्खायतनादयो समुदायस्स रूपक्खन्धादिकस्स. रूपक्खन्धो चक्खायतनादीनं न सङ्गाहको असङ्गाहको च सभागविसभागभावाभावतो. एस नयो सेसेसुपि. समुदायन्तोगधानन्तिआदिना वुत्तमेवत्थं पाकटतरं करोति. तत्थ येनाति विभागेन. तेति एकदेसा. तेसन्ति एकदेसानं. एत्थ तदन्तोगधताय विभागाभावो, विभागाभावेन सभागविसभागताभावो, तेन सङ्गाहकासङ्गाहकताभावो दस्सितोति वेदितब्बो.

यथा सब्बेन सब्बं सभागविसभागाभावेन एकदेसानं समुदायो सङ्गाहको असङ्गाहको च न होति, एवं एकदेससभागविसभागानन्ति दस्सेन्तो ‘‘तथा’’तिआदिमाह. तत्थ यथातिआदि उदाहरणदस्सनेन यथावुत्तस्स अत्थस्स पाकटकरणं. खन्धसङ्गहेन सङ्गाहकं असङ्गाहकञ्चाति योजना. तथा सेसेसुपि. न हि एकदेस…पे… विसभागं येन समुदायो सङ्गाहको असङ्गाहको च सियाति अधिप्पायो. एत्थ च सङ्गाहकत्तं ताव मा होतु, असङ्गाहकत्तं पन कस्मा पटिक्खिपीयतीति चोदनं मनसि कत्वा आह ‘‘तस्मा’’तिआदि. तत्थ तस्माति वुत्तमेवत्थं हेतुभावेन परामसति. अत्ततो अञ्ञस्स, अत्तनि अन्तोगधतो अञ्ञस्स, अत्तेकदेससभागतो अञ्ञस्स सतिपि असङ्गाहकत्तेति योजना. तं पनेतं ‘‘रूपक्खन्धो रूपक्खन्धेन सङ्गहितो असङ्गहितो च न होती’’तिआदिना वुत्ते तयो पकारे सन्धाय वुत्तं. सङ्गाहकत्तमेव एतेसं नत्थीति एतेसं अत्ता, अत्तनि अन्तोगधो, अत्तेकदेससभागो चाति वुत्तानं सङ्गाहकभावो एव नत्थि सभागाभावतो. तेन वुत्तं ‘‘न हि सो एव तस्स सभागो’’तिआदि. येनाति सङ्गाहकत्तेन. एवरूपानन्ति यथावुत्तानं तिप्पकारानं अग्गहणं वेदितब्बं सतिपि विसभागभावेति अधिप्पायो.

तेनाति ‘‘धम्मायतन’’न्तिआदिना वचनेन. एकदेसस्स वेदनाक्खन्धादिकस्स समुदायस्स धम्मायतनस्स सङ्गाहकत्तं एकदेसेन समुदायस्स सङ्गहितभावन्ति अत्थो, समुदायस्स रूपक्खन्धस्स एकदेसस्स चक्खायतनस्स सोतायतनस्स च सङ्गाहकत्तं समुदायेन एकदेसस्स सङ्गहितभावन्ति वुत्तं होति. यदि एवं न दस्सेति, अथ किं दस्सेतीति आह ‘‘चतुक्खन्धगणनभेदेही’’तिआदि. तत्थ चतुक्खन्धगणनभेदेहीति रूपादिचतुक्खन्धगणनविभागेहि. पञ्चधाति रूपादिचतुक्खन्धसङ्गहो विञ्ञाणक्खन्धसङ्गहोति एवं पञ्चप्पकारेन भिन्नतं. तेनाह ‘‘गणेतब्बागणेतब्बभावेना’’ति. ‘‘एकेन खन्धेना’’तिआदीसु करणत्थे करणवचनं, न कत्तुअत्थेति कत्वा आह ‘‘सङ्गाहकासङ्गाहकनिरपेक्खान’’न्ति. तेनेवाह ‘‘कम्मकरणमत्तसब्भावा’’ति. दुतियादयो पन नया. अगणनादिदस्सनानीति अगणनगणनदस्सनानि. ननु च दुतियादीसु गणनादीनिपि विज्जन्तीति? सच्चं विज्जन्ति, तानि पन विसेसनभूतानि अप्पधानानीति विसेसितब्बभूतानं पधानानं वसेनेवं वुत्तं. ‘‘चक्खायतनेन ये धम्मा खन्धसङ्गहेन सङ्गहिता’’तिआदिना कत्तुआदयो निद्दिट्ठाति आह ‘‘कत्तुकरणकम्मत्तयसब्भावा’’ति.

तथा तथाति तेन तेन रूपक्खन्धादिप्पकारेन. तंतंखन्धादिभावाभावो सभागविसभागताति रूपधम्मादीनं रूपक्खन्धादिभावो सभागता, वेदनाक्खन्धादिअभावो विसभागताति अत्थो. यथानिद्धारितधम्मदस्सनेति ‘‘ये धम्मा, ते धम्मा’’ति निद्धारितप्पकारधम्मनिरूपने. सङ्गाहकसङ्गहेतब्बानन्ति चक्खायतनादिकस्स सङ्गाहकस्स सोतायतनादिकस्स च सङ्गहेतब्बस्स. समानक्खन्धादिभावोति एकक्खन्धादिभावो, रूपक्खन्धादिभावोति अत्थो. तदभावोति तस्स समानक्खन्धादिभावस्स अभावो अञ्ञक्खन्धादिभावो. अयन्ति य्वायं पठमनये तथा तथा गणेतब्बागणेतब्बतासङ्खातो दुतियादिनयेसु यथावुत्तानं समानक्खन्धादिभावाभावसङ्खातो तंतंखन्धादिभावाभावो वुत्तो, अयमेतेसं द्विप्पकारानं नयानं सभागविसभागतासु विसेसो.

समुदयसच्चसुखिन्द्रियादीति आदि-सद्देन मग्गसच्चदुक्खिन्द्रियादि सङ्गय्हति. असङ्गाहकत्ताभावतोति सङ्गहितताविसिट्ठस्स असङ्गाहकत्तस्स अभावतो. न हि सक्का ‘‘समुदयसच्चेन ये धम्मा खन्धसङ्गहेन सङ्गहिता, आयतनधातुसङ्गहेन असङ्गहिता’’तिआदि वत्तुं. दुक्खसच्चसदिसानि अब्याकतपदादीनि. इतरेहीति आयतनधातुसङ्गहेहि सङ्गाहकत्तासङ्गाहकत्ताभावतो न उद्धटानीति योजना. एवन्तिआदि यथावुत्तस्स अत्थस्स निगमनवसेन वुत्तं. न रूपक्खन्धोति न सब्बो रूपक्खन्धधम्मोति अत्थो.

‘‘खन्धपदेना’’ति इदं करणत्थे करणवचनं, न कत्तुअत्थेति आह ‘‘खन्धपदसङ्गहेनाति अत्थो’’ति. तेनेवस्स कत्तुअत्थतं पटिसेधेतुं ‘‘न सङ्गाहकेना’’ति वुत्तं. करणं पन कत्तुरहितं नत्थीति आह ‘‘केनचि सङ्गाहकेनाति इदं पन आनेत्वा वत्तब्ब’’न्ति. सङ्गाहकेसु न युज्जति न सङ्गहेतब्बेसूति अधिप्पायो. रूपक्खन्धधम्मा हि ‘‘ये धम्मा खन्धसङ्गहेन सङ्गहिता’’ति वुत्ताति. समुदाये वुत्तविधि तदवयवेपि सम्भवतीति चोदनं समुट्ठापेन्तो ‘‘एतेन नयेना’’तिआदिमाह. पटियोगीनिवत्तनं एव-सद्देन करीयतीति आह ‘‘न हि अञ्ञमत्तनिवारणं एव-सद्दस्स अत्थो’’ति. तेनाह ‘‘सङ्गाहकतो अञ्ञनिवारणं एव-सद्दस्स अत्थो’’ति. सो च…पे… पेक्खन्ति इमिना तमेवत्थं पाकटतरं करोति. सङ्गाहकापेक्खत्ते हि ‘‘सो चा’’तिआदिवचनस्स ‘‘चक्खायतनेन रूपक्खन्धोव सङ्गहितो’’ति एत्थ चक्खायतनं सङ्गाहकन्ति यथाधिप्पेतस्स अत्थस्स असम्भवो एवाति इदानि तं असम्भवं विभावेन्तो ‘‘कथ’’न्तिआदिमाह, तं सुविञ्ञेय्यमेव.

एत्थाति ‘‘अड्ढेकादसहि आयतनधातूही’’ति एत्थ. ‘‘रूपक्खन्धेना’’ति आनेत्वा वत्तब्बं आयतनधातुविसेसनत्थं. न सो एव तस्स, समुदायो वा तदेकदेसानं सङ्गाहको असङ्गाहको च होतीति वुत्तोवायमत्थोति आह ‘‘रूपक्खन्धो…पे… न होती’’ति. इमिना परियायेनाति यस्मा वुत्तप्पकारं सङ्गाहकत्तं नत्थि ‘‘येन सङ्गहितस्स असङ्गाहकं सिया’’ति इमिना परियायेन. असङ्गहितताय अभावो वुत्तो अट्ठकथायं (धातु. अट्ठ. १७१) ‘‘सो च…पे… नत्थी’’ति. सङ्गहिततायाति निप्परियायेन सङ्गहितभावेन असङ्गहितताय अभावो वुत्तोति न युज्जतीति योजना. सा सङ्गहितताति अत्तना अत्तनो, अत्तेकदेसानं वा सङ्गहितता. तेनाति रूपक्खन्धेन. तेसन्ति रूपक्खन्धतदेकदेसानं. अत्थि च विप्पयुत्तता वेदनाक्खन्धादीहि. चक्खायतनादीहि वियाति विसदिसुदाहरणं. एतेहि रूपवेदनाक्खन्धादीहि अञ्ञेहि च एवरूपेहि. एतानि अञ्ञानि चाति एत्थापि एसेव नयो.

तेनेव तस्स सङ्गहितत्ताभावदस्सनेन हेट्ठा दस्सितेन. एत्थाति एतस्मिं वारे. अग्गहणेति अकथने, अदेसनायन्ति अत्थो. समुदयसच्चादीसूति समुदयसच्चसुखिन्द्रियादीसु युज्जेय्य तं कारणं. कस्मा? तेहि समुदयसच्चादीहि खन्धादिसङ्गहेन सङ्गहिते धम्मजाते सति तस्स आयतनसङ्गहादीहि असङ्गहितत्तस्स अभावतो. रूपक्खन्धादीहीति रूपक्खन्धवेदनाक्खन्धादीहि. सङ्गहितमेव नत्थि, कस्मा? ‘‘सो एव तस्स सङ्गाहको न होती’’ति वुत्तोवायमत्थो. यदिपि रूपक्खन्धादिना रूपक्खन्धादिकस्स अत्तनो…पे… नत्थीति सम्बन्धो. अञ्ञस्स पन वेदनाक्खन्धादिकस्स रूपक्खन्धादिना सङ्गहितत्ताभावेन असङ्गहितत्तं अत्थीति योजना. उभयाभावोति सङ्गहितत्तासङ्गहितत्ताभावो. एत्थ एतस्मिं वारे. धम्मायतनजीवितिन्द्रियादीनन्ति धम्मायतनादीनं खन्धचतुक्कसङ्गाहकत्ते, जीवितिन्द्रियादीनं खन्धदुकसङ्गाहकत्तेति योजना. पाळियं अनागतत्ता ‘‘सती’’ति सासङ्कं वदति. आदि-सद्देन पठमेन धम्मधातुसळायतनादीनं सुखिन्द्रियादीनञ्च, दुतियेन एकक्खन्धस्स सङ्गहो दट्ठब्बो. सुखिन्द्रियञ्हि वेदनाक्खन्धस्सेव सङ्गाहकं. तेसन्ति खन्धचतुक्कखन्धदुकादीनं असङ्गहितता न नत्थि अत्थेवाति तस्सा अभावो अनेकन्तिको. पुब्बे वुत्तनयेनाति ‘‘रूपक्खन्धादीहि पना’’तिआदिना वुत्तनयेन.

तत्थेवाति तस्मिंयेव पुब्बे वुत्ते सनिदस्सनसप्पटिघपदे. निवत्तेत्वा गण्हन्तोति पुब्बे वुत्तं पटिनिवत्तेत्वा गण्हन्तो पच्चामसन्तो. तदवत्तब्बताति तेसं सङ्गाहकासङ्गाहकसङ्गहितत्तासङ्गहितत्तानं अवत्तब्बता. असङ्गाहकत्ताभावतो एव…पे… न सङ्गाहकत्ताभावतोति यस्मा नेसं असङ्गाहकत्तं विय सङ्गाहकत्तम्पि नत्थि, ततो एव सङ्गहितत्तासङ्गहितत्तम्पीति दस्सेति.

दुतियनयसङ्गहितेनअसङ्गहितपदवण्णना निट्ठिता.