६. पटिच्चसमुप्पादवण्णना
६१. अविज्जावचनेनाति ‘‘अविज्जापच्चया सङ्खारा’’ति एत्थ अविज्जाग्गहणेन. विसेसनं न कत्तब्बं, ‘‘सब्बम्पि विञ्ञाण’’न्ति वत्तब्बन्ति अधिप्पायो. तत्थ कारणमाह ‘‘कुसलादीनम्पी’’तिआदिना. विस्सज्जनासदिसेन सब्बविञ्ञाणादिसङ्गहणतो. तेसन्ति विञ्ञाणादिपदानं. इधाति इमस्मिं पठमनये. अकम्मजानम्पि सङ्गहितता विञ्ञायति सद्दायतनस्सपि गहितत्ता.
७१. जायमान…पे… मानानन्ति जायमानादिअवत्थानं धम्मानं. जायमानादिभावमत्तत्ताति निब्बत्तनादिअवत्थामत्तभावतो. विनिब्भुज्जित्वाति अवत्थाभावतो विनिब्भोगं कत्वा. परमत्थतो अविज्जमानानि, सभावमत्तभूतानीति परमत्थधम्मानं अवत्थाभावमत्तभूतानि. अपरमत्थसभावानिपि रूपधम्मस्स निब्बत्तिआदिभावतो रुप्पनभावेन गय्हन्ति. ततो ‘‘रूपक्खन्धस्स सभागानि, अरूपानं पन जातिजरामरणानी’’ति आनेत्वा योजना. एकेकभूतानीति यथा एकस्मिं रूपकलापे जातिआदीनि एकेकानियेव होन्ति, एवं एकस्मिं अरूपकलापेपीति वुत्तं. तेनाह ‘‘रूपकलापजातिआदीनि विया’’तिआदि. अनुभवनसञ्जाननविजाननकिच्चानं वेदनादीनं निब्बत्तिआदिभूतानिपि जातिआदीनि तथा न गय्हन्तीति आह ‘‘वेदियन…पे… अगय्हमानानी’’ति. तेन वेदनाक्खन्धादीहि जातिआदीनं सङ्गहाभावमाह. ‘‘जाति, भिक्खवे, अनिच्चा सङ्खता’’तिआदिवचनतो जातिआदीनम्पि सङ्खतपरियायो अत्थीति सङ्खताभिसङ्खरणकिच्चेन सङ्खारक्खन्धेन तेसं सङ्गहोति वुत्तं ‘‘सङ्खता…पे… सभागानी’’ति. तेनेव च सङ्खारक्खन्धस्स अनेकन्तपरमत्थकिच्चता वेदितब्बा. तथा दुविधानीति वुत्तप्पकारेन रूपारूपधम्मानं निब्बत्तिआदिभावेन द्विप्पकारानि. तेनाति यथावुत्तसभागत्थेन. तेहि खन्धादीहीति रूपक्खन्धसङ्खारक्खन्धधम्मायतनधम्मधातूहि.
पठमनयसङ्गहासङ्गहपदवण्णना निट्ठिता.