दुकनिद्देसो
उपादाभाजनीयवण्णना
५९६. समन्ततो सब्बसो दस्सनट्ठेन चक्खु समन्तचक्खूति इममत्थं दस्सेतुं ‘‘सब्बसङ्खतासङ्खतदस्सन’’न्ति वुत्तं. एवमादिनाति एत्थ आदि-सद्दो ‘‘दुक्खं परिञ्ञेय्यं परिञ्ञात’’न्ति तीसुपि पदेसु पच्चेकं योजेतब्बो. ‘‘इदं दुक्खन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादी’’तिआदिना (महाव. १५; पटि. म. २.३०) हि पाळि पवत्ताति. आकारेनाति द्वादसविधेन आकारेन. तम्पि कामावचरं विपस्सनापच्चवेक्खणञाणभावतो. ‘‘ञाणचक्खु सहअरियमग्गं विपस्सनाञाणन्तिपि युज्जती’’ति वदन्ति. अग्गमग्गेन पन सह विपस्सना पच्चवेक्खणञाणन्ति युत्तं विय दिस्सति.
यथावुत्ते मंसपिण्डे ससम्भारे चक्खुवोहारो सन्तानवसेन पवत्तमाने चतुसमुट्ठानिकरूपधम्मे उपादाय पवत्तोति ‘‘चतु…पे… सम्भारा’’ति वुत्तं. सण्ठानन्ति वण्णायतनमेवाति तेन तेन आकारेन सन्निविट्ठेसु महाभूतेसु तंतंसण्ठानवसेन वण्णायतनस्स विञ्ञायमानत्ता वुत्तं, न वण्णायतनस्सेव सण्ठानपञ्ञत्तिया उपादानत्ता. तथा हि अन्धकारे फुसित्वापि सण्ठानं विञ्ञायतीति. तथा च वक्खति ‘‘दीघादीनि फुसित्वापि सक्का जानितु’’न्ति, (ध. स. अट्ट. ६१६) ‘‘दीघादिसन्निवेसं भूतसमुदायं निस्साया’’ति (ध. स. मूलटी. ६१६) च. तेसं सम्भवसण्ठानानं आपोधातुवण्णायतनेहि अनत्थन्तरभावेपि तेहि विसुं वचनं तथाभूतानं सम्भवभूतानं सण्ठानभूतानञ्च. एतेन आपोधातुवण्णायतनानं वसेन वत्तमानअवत्थाविसेसो सम्भवो सण्ठानञ्चाति अयमत्थो दस्सितो होति. तत्थ सम्भवो चतुसमुट्ठानिको सोळसवस्सकाले उप्पज्जति. तस्स रागवसेन ठाना वचनं होतीति वदन्ति. अतथाभूतानं ततो अञ्ञथाभूतानं. यथावुत्ते सम्भारवत्थुसङ्खाते. विज्जमानत्ताति भिय्योवुत्तिवसेन वुत्तं. तथा हि खीणासवानं ब्रह्मानञ्च सम्भवो नत्थीति. आपोधातुविसेसत्ता सम्भवो आपोधातुसम्बन्धी आपोधातुतन्निस्सयनिस्सितोपि होतीति तस्स चतुधातुनिस्सितताय अविरोधो वुत्तो.
उतुचित्ताहारेहि उपत्थम्भियमानन्ति एत्थ ‘‘कलापन्तरगता उतुआहारा अधिप्पेता’’ति वदन्ति. अनेककलापगतभावं चक्खुस्स दस्सेति यतो उपद्दुतपटले निराकरणेपि चक्खु विज्जतीति. पटिघट्टनं विसयाभिमुखभावो निघंसपच्चयत्ता. निघंसो निस्सयभावापत्ति. यतो चक्खादिनिस्सिता सञ्ञा ‘‘पटिघसञ्ञा’’ति वुच्चति.
अनेकत्ताति इदं अवचनस्स कारणं, न हेतुकिरियाय विञ्ञायमानभावस्स. सो पन अपेक्खासिद्धितो एव वेदितब्बो. हेतुकिरियापेक्खा हि फलकिरियाति. चक्खुं सङ्गण्हातीति चक्खुविञ्ञाणस्स निस्सयभावानुपगमनेपि तंसभावानतिवत्तनतो तस्सा समञ्ञाय तत्थ निरुळ्हभावं दस्सेति. दस्सनपरिणायकट्ठो चक्खुस्स इन्दट्ठोयेवाति ‘‘यथा हि इस्सरो’’तिआदिना इस्सरोपमा वुत्ता. चक्खुविञ्ञाणं दस्सनकिच्चे परिणायन्तं चक्खु तंसहजाते चक्खुसम्फस्सादयोपि तत्थ परिणायतीति वुच्चतीति ‘‘ते धम्मे…पे… परिणायती’’ति वुत्तं, न पन चक्खुसम्फस्सादीनं दस्सनकिच्चत्ता. अथ वा चक्खुसम्फस्सादीनं इन्द्रियपच्चयभावेन उपकारकं चक्खुविञ्ञाणं दस्सनकिच्चे परिणायन्तं चक्खु तत्थ चक्खुसम्फस्सादयोपि तदनुवत्तके परिणायतीति अत्थायं परियायोति दस्सेन्तो आह ‘‘ते धम्मे…पे… णायती’’ति. अनेकत्थत्ता धातूनं चक्खतीति इमस्स ‘‘परिणायति पकासेती’’ति च अत्था वुत्ता. सण्ठानम्पि रूपायतनमेवाति ‘‘समविसमानि रूपानि चक्खतीति चक्खू’’ति वुत्तं. तंद्वारिकानं फस्सादीनं उपनिस्सयपच्चयभावो एव वळञ्जनत्थो.
५९९. तंद्वारिका…पे… उप्पत्ति वुत्ताति चक्खुविञ्ञाणे उप्पन्ने सम्पटिच्छनादीनि बलवारम्मणे जवनं एकन्तेन उप्पज्जतीति कत्वा वुत्तं. तथा चेव हि अन्तरा चक्खुविञ्ञाणे वा सम्पटिच्छने वा सन्तीरणे वा ठत्वा निवत्तिस्सतीति नेतं ठानं विज्जतीति निच्छितं. तेन पच्चयेनाति तंपकारेन पच्चयेन. तंसदिसानन्ति गरुं कत्वा अस्सादनादिप्पवत्तिविसेसरहितताय दस्सनसदिसानं मनोधातुसन्तीरणवोट्ठब्बनानं. पञ्चद्वारिकजवनानं अस्सादनादितो अञ्ञथा गरुं कत्वा पवत्ति नत्थि रूपधम्मविसयत्ताति ‘‘अस्सादनाभिनन्दनभूतानी’’ति एत्तकमेव वुत्तं. मनोद्वारिकजवनपिट्ठिवट्टकानम्पि हि पञ्चद्वारिकजवनानं अस्सादनाभिनन्दनभावेन रूपं गरुं कत्वा पवत्ति नत्थीति न सक्का वत्तुन्ति. रूपं आरम्मणाधिपति अकुसलस्सेव होति. तथा हि पट्ठाने ‘‘अब्याकतो धम्मो अकुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति चक्खुं गरुं कत्वा अस्सादेति अभिनन्दती’’तिआदिना (पट्ठा. १.१.४१६) रूपधम्मोपि आरम्मणाधिपति विभत्तो. ‘‘अब्याकतो धम्मो अब्याकतस्स धम्मस्स अब्याकतो धम्मो कुसलस्सा’’ति एत्थ पन फलनिब्बानानेव आरम्मणाधिपतिभावेन विभत्तानीति. गणनाय च ‘‘आरम्मणआरम्मणाधिपतिउपनिस्सयपुरेजातअत्थिअविगतन्ति एक’’न्ति (पट्ठा. १.१.४४५) वुत्तं. यदि कुसलस्सपि सिया, द्वेति वत्तब्बं सियाति. तानीति यथावुत्तजवनानि पटिनिद्दिट्ठानि. तंसम्पयुत्तानि चाति जवनसम्पयुत्तानि. अञ्ञानि चक्खुसम्फस्सादीनि. यदि रूपस्स आरम्मणपच्चयभावमत्तं अधिप्पेतं, ‘‘तं रूपारम्मणेति एतेनेव सिज्झेय्या’’ति एत्तकमेव वदेय्य. यस्मा पन रूपं तंद्वारिकजवनानं पच्चयविसेसोपि होति, तस्मा तस्स विसेसस्स दीपनत्थं ‘‘आरब्भा’’ति वचनं वुत्तं सियाति आह ‘‘आरम्मणपच्चयतो अञ्ञपच्चयभावस्सपि दीपक’’न्ति.
६००. सोतविञ्ञाणप्पवत्तियं सवनकिरियावोहारोति सोतस्स सवनकिरियाय कत्तुभावो सोतविञ्ञाणस्स पच्चयभावेनाति वुत्तं ‘‘सोतविञ्ञाणस्स निस्सयभावेन सुणाती’’ति. जीवितनिमित्तमाहाररसो जीवितं, तस्मिं निन्नताय तं अव्हायतीति जिव्हाति एवं सिद्धेन जिव्हा-सद्देन पकासियमाना रसाव्हायनसङ्खाता सायनकिरिया लब्भतीति कत्वा वुत्तं ‘‘जिव्हासद्देन विञ्ञायमाना किरियासायन’’न्ति. तथा च वक्खति ‘‘जीवितमव्हायतीति जिव्हा’’ति (विभ. अट्ठ. १५४). आयोति उप्पत्तिदेसो. पसादकायस्स कायिकानं दुक्खसुखानं निस्सयभावतो इतरेसं उपनिस्सयभावतो ‘‘दुक्खदुक्खविपरिणामदुक्खानं आयो’’ति वुत्तं. ब्यापितायाति ब्यापिभावे, ब्यापिभावेन वा. कायप्पसादभावोति कायप्पसादसब्भावो. अनुविद्धत्ताति अनुयुत्तभावतो, संसट्ठभावतोति अत्थो. तस्माति यस्मा यावता इमस्मिं काये उपादिन्नकपवत्तं नाम अत्थि, सब्बत्थ कायायतनं कप्पासपटले स्नेहो वियाति वुत्तं, तस्मा. पण्डरसभावा पसादा आपाथगतं विसयं विञ्ञाणुप्पत्तिहेतुभावेन पकासेन्ता विय होन्तीति तेसं विसयावभासनकिच्चता वुत्ता. समाननिस्सयानन्ति एकनिस्सयानं. अविनिब्भुत्तेसु हि रूपरसादीसु यंनिस्सयं रूपं, तंनिस्सयो एव रसादीति. अञ्ञमञ्ञसभावानुपगमेनाति लक्खणसङ्कराभावमाह.
यस्मा पच्चयन्तरसहितोयेव चक्खुप्पसादो रूपाभिहननवसेन पवत्तति, न पच्चयन्तररहितो, तस्मा रूपाभिघातो होतु वा मा वा होतु, एवंसभावो सो रूपधम्मोति दस्सेतुं ‘‘रूपाभिघातारहो’’ति वुत्तं यथा ‘‘विपाकारहसभावा कुसलाकुसला’’ति. विसयविसयीनं अञ्ञमञ्ञं अभिमुखभावो अभिघातो वियाति अभिघातो, सो रूपे चक्खुस्स, चक्खुम्हि वा रूपस्स होतीति वुत्तं ‘‘रूपे, रूपस्स वा अभिघातो’’ति. तेनेवाह ‘‘यम्हि चक्खुम्हि अनिदस्सनम्हि सप्पटिघम्हि रूपं सनिदस्सनं सप्पटिघं पटिहञ्ञि वा’’ति (ध. स. ५९७), ‘‘चक्खु अनिदस्सनं सप्पटिघं रूपम्हि सनिदस्सनम्हि सप्पटिघम्हि पटिहञ्ञि वा’’ति (ध. स. ५९८) च आदि. एत्थ च तंतंभवपत्थनावसेन चक्खादीसु अविगतरागस्स अत्तभावनिप्फादकसाधारणकम्मवसेन पुरिमं चक्खुलक्खणं वुत्तं, सुदूरसुखुमादिभेदस्सपि रूपस्स गहणसमत्थमेव चक्खु होतूति एवं निब्बत्तितआवेणिककम्मवसेन दुतियं. एस नयो सेसेसुपि. अथ वा सतिपि पञ्चन्नं पसादभावसामञ्ञे सविसयावभासनसङ्खातस्स पसादब्यापारस्स दस्सनवसेन पुरिमं वुत्तं, पसादकारणस्स सतिपि कम्मभावसामञ्ञे अत्तनो कारणभेदेन भेददस्सनवसेन दुतियं.
कामतण्हाति कामभवे तण्हा. तथा रूपतण्हा दट्ठब्बा. तस्स तस्स भवस्स मूलकारणभूता तण्हा तस्मिं तस्मिं भवे उप्पज्जनारहायतनविसयापि नाम होतीति कामतण्हादीनं दट्ठुकामतादिवोहारारहता वुत्ता. दट्ठुकामताति हि दट्ठुमिच्छा रूपतण्हाति अत्थो. तथा सेसासुपीति. एत्थ च दट्ठुकामतादीनं तंतंअत्तभावनिब्बत्तककम्मायूहनक्खणतो सति पुरिमनिब्बत्तियं वत्तब्बं नत्थि. असतिपि तस्स मग्गेन असमुग्घातितभावेनेव कारणन्ति दट्ठब्बं. यतो मग्गेन असमुच्छिन्नं कारणलाभे सति उप्पज्जित्वा अत्तनो फलस्स कारणभावूपगमनतो विज्जमानमेवाति उप्पन्नअत्थितापरियायेहि वुच्चति ‘‘अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो उप्पन्नुप्पन्ने पापके अकुसले धम्मे अन्तरायेव अन्तरधापेति’’ (सं. नि. ५.१५७), ‘‘सन्तं वा अज्झत्तं कामच्छन्दं अत्थि मे अज्झत्तं कामच्छन्दोति पजानाती’’ति (दी. नि. २.३८२; म. नि. १.११५) च एवमादीसु.
एत्थाह – चक्खादीनं इन्द्रियानं किं एककम्मुना उप्पत्ति, उदाहु नानाकम्मुनाति? उभयथापीति पोराणा. तत्थ नानाकम्मुना ताव उप्पत्तियं चक्खादीनं विसेसे वत्तब्बं नत्थि कारणस्स भिन्नत्ता. एककम्मुना पन उप्पत्तियं तेसं कथं विसेसोति? कारणस्स भिन्नत्तायेव. तंतंभवपत्थनाभूता हि तण्हा तंतंभवपरियापन्नायतनाभिलासताय सयं विचित्तरूपा उपनिस्सयभावेन तंतंभवनिब्बत्तककम्मस्स विचित्तभेदतं विदहति. यतो तदाहितविसेसं तं तथारूपसमत्थतायोगेन अनेकरूपापन्नं विय अनेकं विसिट्ठसभावं फलं निब्बत्तेति. तथा च वक्खति ‘‘कम्ममेव नेसं विसेसकारण’’न्ति. न चेत्थ समत्थताभावतो अञ्ञं वेदितब्बं कारणविसेसेनाहितविसेसस्स विसिट्ठफलनिप्फादनयोग्यताभावतो. तथा हि सति एकस्सपि कम्मस्स अनेकिन्द्रियहेतुताविसेसयोगं एकम्पि कम्मन्तिआदिना युत्तितो आगमतोपि परतो सयमेव वक्खति. तथा च एकस्सेव कुसलचित्तस्स सोळसादिविपाकचित्तनिब्बत्तिहेतुभावो वुच्चति. लोकेपि एकस्सेव सालिबीजस्स परिपुण्णापरिपुण्णतण्डुलफलनिब्बत्तिहेतुता दिस्सति. किं वा एताय युत्तिचिन्ताय, न चिन्तितब्बमेवेतं. यतो कम्मविपाको चक्खादीनि कम्मविपाको च सब्बाकारतो बुद्धानंयेव कम्मविपाकञाणफलयुत्तानं विसयो, न अञ्ञेसं अतक्कावचरताय. तेनेव च भगवता ‘‘कम्मविपाको अचिन्तेय्यो न चिन्तेतब्बो, यो चिन्तेय्य उम्मादस्स विघातस्स भागी अस्सा’’ति (अ. नि. ४.७७) आदीनवं दस्सेत्वा पटिक्खित्तं. आविञ्छनं पुग्गलस्स विञ्ञाणस्स वा तंनिन्नभावप्पत्तिया हेतुभावो.
सब्बेसन्ति पदस्स पकरणतो पारिसेसतो वा लब्भमानं अत्थविसेसं अजानन्तो यथारुतवसेनेव अत्थं गहेत्वा ‘‘को एत्थ विसेसो’’तिआदिना चोदेति. इतरो तेजादीनं पच्चेकं अधिकभावे विय द्विन्नं तिण्णं वा अधिकभावेपि यथावुत्ताधिकभावेनेव एककादिवसेन लब्भमानाय ओमत्ततायपि कायप्पसादो न होतीति विञ्ञायमानत्ता पकरणतो पारिसेसतो वा चतुन्नम्पि भूतानं समभावेन कायो होतीति अयमत्थो सिद्धोति सब्ब-सद्दो इध समभावदीपकोति दस्सेतुं ‘‘इदं पना’’तिआदिमाह. इममत्थं दीपेतीति च यथावुत्तेन ञायेन ‘‘सब्बेस’’न्ति वचनतो अयमत्थो लब्भति, न तस्स वाचकत्ताति दस्सेति. तेनेवाह ‘‘अनुवत्त…पे… वसेन वुत्तत्ता’’ति. एकदेसाधिकभावनिवारणेनेव हि एकदेसोमत्ततानिवारणम्पि विञ्ञायतीति. एकदेसो अवयवो. चतुधातुसमुदायनिस्सयस्स हि पसादस्स तदेकधातुअधिकता अवयवाधिकता होतीति.
‘‘पुरिमा चेत्थ द्वेपि वादिनो निकायन्तरिया’’ति वदन्ति. आलोकादिसहकारीकारणसहितानंयेव चक्खादीनं रूपादिअवभासनसमत्थता विवरस्स च सोतविञ्ञाणुपनिस्सयभावो गुणोति तेसं लद्धीति अधिप्पायेन ‘‘तंतंभूतगुणेही’’तिआदि वुत्तं. तेजादीनं विय विवरस्स भूतभावाभावतो ‘‘यथायोग’’न्ति वुत्तं. अथ वा रूपादयो विय विवरम्पि भूतगुणोति पराधिप्पायं दस्सेन्तो ‘‘तंतंभूतगुणेही’’ति आह. तेजस्स पन आलोकरूपेन, आकाससङ्खातस्स विवरस्स सद्देन, वायुस्स गन्धेन, उदकस्स रसेन, पथविया फोट्ठब्बेनाति इममत्थं सन्धाय ‘‘यथायोगं तंतंभूतगुणेही’’ति वुत्तं सिया. रूपादिग्गहणेति रूपादिविसये चक्खुविञ्ञाणादिके निप्फादेतब्बेति अत्थो. उपकरितब्बतोति सहकारीकारणभूतेहि यथावुत्तभूतगुणेहि चक्खादीनं सकिच्चकरणे उपकरितब्बतो. सभावेन सुय्यमानस्साति केनचि अनुच्चारियमानस्सेव लब्भमानत्ता वुत्तं. घट्टनं पन विना वायुसद्दोपि नत्थीति. अथ वा वायुम्हि सद्दो सभावेन सुय्यतीति आपे रसो मधुरोति च तस्स लद्धियेवाति दट्ठब्बं. दुतियवादिस्सपि निग्गहो होति तस्सपि तेजादिगुणा रूपादयोति एवंलद्धिकत्ता.
रूपादिविसेसगुणेहीति रूपादिविसेसगुणयुत्तेहि. तेज…पे… वायूहीति सहाकासेहि तेजादिपरमाणूहि. कप्पासतो विसदिसायाति कप्पासपथवितो विसेसयुत्ताय ततो अधिकसामत्थिययुत्तायाति अधिप्पायो. तस्सायेवाति कप्पासपथवियायेव. यस्मा सा विज्जमानानिपि अविसेसभूतानि अत्थीति गहेतुं असक्कुणेय्यभावेन अभिभवित्वा ठिता, तस्मा तस्सायेव गन्धो अधिकतरो भवेय्याति अत्थो. अयञ्च सब्बो उत्तरो ‘‘तस्स तस्स भूतस्स अधिकताया’’तिआदिना अट्ठकथायं (ध. स. अट्ठ. ६००) वुत्तत्ता तथागतानं वादं सम्पटिच्छित्वा वदन्तस्स कणादस्स वसेन वुत्तो. ‘‘अत्तनो पन मतेन कणादकपिलादयो केवलं पथवादिद्रब्यमेवातिआदि लद्धि. कणादसासनाय अधिमुत्तानं सासने अनवगाळ्हानं केसञ्चि अयं वादो’’ति च वदन्ति. एतस्सुभयस्साति आसवगन्धतो कप्पासगन्धो अधिको सीतुदकवण्णतो उण्होदकवण्णो च अधिकोति एतस्स उभयस्स. तेजादिअधिकेसु च सम्भारेसु रूपादीनं विसेसस्स अदस्सनतो न रूपादयो तेजादीनं विसेसगुणोति सिद्धन्ति आह ‘‘तदभा…पे… त्तिता’’ति. तेन न रूपं तेजस्स विसेसगुणो एकन्ततो तेजादिके सम्भारे विसेसेन अदस्सनतो, यो यस्स विसेसगुणो, न सो तदधिके सम्भारे एकन्ततो विसेसेन दिस्सति यथा पथवीअधिके सम्भारे आपोधातूति दस्सेति. एवं सेसेसुपि यथायोगं योजेतब्बं. को पन वादो नानाकलापेति सभावतो नानत्ताभावेपि मूलकारणनानत्तवसेन अत्थि कोचि विसेसो असङ्घातेति दस्सेति, यतो परमरणादिकिरियासमत्थता नेसं केसञ्चियेव दिस्सतीति.
एकम्पीति पि-सद्देन अनेकस्मिं वत्तब्बमेव नत्थीति दस्सेति. पञ्चायतनिकत्तभावे पत्थना या दट्ठुकामतादिभावेन वुत्ता, ताय निप्फन्नं. एतेन कारणविसेसेन फलविसेसमाह. न हीतिआदिना वुत्तमेवत्थं समत्थयति. तन्ति कम्मं. विसेसेनाति अत्तनो कारणेन आहितातिसयेन. तेनेव सोतस्स न होति पच्चयो, ततो अञ्ञेनेव पन होतीति अधिप्पायो. तेन अनेकसभावेन कारणेन आहितविसेसं एकम्पि कम्मं अनेकसभावं फलं निप्फादेतुं समत्थं होतीति दस्सेति. इदानि कम्मस्स वुत्तप्पकारविसेसाभावे दोसमाह ‘‘इन्द्रियन्तराभावप्पत्तितो’’ति. तस्सत्थो – कारणविसेसाभावे फलविसेसस्स असम्भवतो यं विसेसयुत्तं कम्मं चक्खुस्स कारणं, तस्स ततो अञ्ञविसेसाभावे तदञ्ञिन्द्रियुप्पादकतापि न सियाति सोतिन्द्रियादीनं ततो अनुप्पत्ति एव सिया. एवमितरत्थापि. विसेसोति चेत्थ कम्मस्स तंतंइन्द्रियुप्पादनसमत्थता अधिप्पेता, सा च पुब्बे दस्सितसभावोव.
अनेकाहि महग्गतचेतनाहि एकाय वा परित्तचेतनासहिताय पटिसन्धिक्खणे कटत्तारूपानं निब्बत्तीति न सक्का विञ्ञातुन्ति ‘‘सब्बेसं…पे… विञ्ञायती’’ति वुत्तं. इदानि तमेव असक्कुणेय्यतं वित्थारतो दस्सेतुं ‘‘नानाचेतनाया’’तिआदि वुत्तं. तस्सायं सङ्खेपत्थो – ‘‘पटिस…पे… पच्चयो’’ति एत्थ यदि नानाकम्मवसेन इन्द्रियानं उप्पत्ति अधिप्पेता, एवं सति महग्गतकम्मेन च कामावचरकम्मेन च तंतंपटिसन्धिक्खणे कटत्तारूपं उप्पन्नं सिया, न चेतं युत्तं ‘‘महग्गतचेतना कम्मपच्चयो’’ति (पट्ठा. २.१२.७८) वुत्तत्ता. नापि तंतंभवनियतरूपिन्द्रियेहि विकलिन्द्रियता गतिसम्पत्तिया ओपपातिकयोनियं पटिसन्धिक्खणे युत्ता. अथ महग्गताहि एव नानाचेतनाहि निब्बत्तं, न चेका पटिसन्धि अनेककम्मनिब्बत्ता होति. निच्छितञ्हेतं साकेतपञ्हेनाति. एवं एकेन महग्गतकम्मुना चक्खुन्द्रियसोतिन्द्रियहदयवत्थूनं उप्पत्तिञापकेन इमिना वचनेन परित्तकम्मुनापि एकेन यथारहं अनेकेसं इन्द्रियानं उप्पत्ति सिद्धावाति वुत्तं ‘‘सिद्धमेकेन कम्मेन अनेकिन्द्रियुप्पत्ति होती’’ति.
सम्पत्तोयेव नाम सम्पत्तिकिच्चकरणतोति इममत्थं दस्सेतुं ‘‘पटि…पे… नकतो’’ति वुत्तं. अतिसुखुमभावतो मंसचक्खुअगोचरेन रूपायतनेन समन्नागतसङ्घातवुत्तिताय च ‘‘वायु विया’’ति वुत्तं. चित्तसमुट्ठानं सद्दायतनं सोतविञ्ञाणस्स कदाचिपि आरम्मणपच्चयो न सिया धातुपरम्पराय घट्टेन्तस्स उतुसमुट्ठानत्ता. तेनाह ‘‘न हि…पे… पज्जती’’ति. पट्ठाने (पट्ठा. १.१.२) च ‘‘सद्दायतनं सोतविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो’’ति अविसेसेन वुत्तं.
ननु चिरेन सुय्यन्तीति दूरे ठितानं लहुकं सवनं नत्थि, तेसम्पि वा लहुकं सवनेन दूरासन्नभावानं विसेसो न सियाति अधिप्पायो. न, दू…पे… तोति न दूरे ठितेहि रजकादिसद्दा चिरेन सोतविञ्ञाणेन सुय्यन्ति, सचे सवनूपचारे सो सद्दो दूरे आसन्ने च ठितानं यथाभूते आपाथगते सद्दे मनोविञ्ञाणसङ्खाततो गहणविसेसतो चिरेन सुतो सीघं सुतोति अभिमानोति अत्थो. एतमेवत्थं वित्थारतो दस्सेन्तो ‘‘यथा ही’’तिआदिमाह. निच्छय…पे… अभिमानो होति, सोतविञ्ञाणप्पवत्ति पन उभयत्थापि समाना, यस्मा सो पन सद्दो…पे… आगच्छतीति. यदि धातुपरम्पराय सद्दो नप्पवत्तति, कथं पटिघोसादीनं उप्पत्तीति आह ‘‘दूरे…पे… पच्चयो होती’’ति. उप्पत्तिवसेन आगतानीति एतेन रूपधम्मापि यत्थ उप्पज्जन्ति, तत्थेव भिज्जन्ति, न देसन्तरं सङ्कमन्तीति दस्सेति. घट्टनसभावानेवाति तेसं भूतानं सद्दसमुप्पत्तिहेतुभावमाह. सोतपदेसस्साति सोतदेसस्स, सोतदेसे ठितस्साति अत्थो.
चक्खुमतो पुग्गलस्स अज्झासयवसेनाति चित्रविचित्ररूपायतने येभुय्येन सत्तानं चक्खुद्वारिकजवनस्स अनुकड्ढनवसेन पवत्तिं सन्धाय वुत्तं. कण्णकूपच्छिद्देयेव पवत्तनतोति एतेन अधिट्ठानतो बहिद्धा इन्द्रियं पवत्तीति वादं पटिसेधेति. अधिट्ठानदेसे एव हि इन्द्रियं वत्तति तत्थ किच्चादिप्पयोगदस्सनतो. सतिपि पनस्स बहिद्धा वुत्तियं न विसयग्गहणे समत्थता, अञ्ञथा अधिट्ठानपिदहनेपि विसयग्गहणं भवेय्याति. आरम्मणग्गहणहेतुतो चाति कण्णकूपच्छिद्देयेव ठत्वा आरम्मणकरणस्स विञ्ञाणस्स वा हेतुभावतो.
तब्बोहारेनाति गन्धगन्धग्गहणस्स सहचरिताय गन्धोपि तथा वुत्तोति अधिप्पायो. गन्धो पच्चयोति गन्धो सहकारीपच्चयोति अत्थो. खेळादिको पच्चयोति योजेतब्बं. तथा पथवीति सहकारीपच्चयन्तरभूता अज्झत्तिकबाहिरा पथवी आरम्मणग्गहणे पच्चयोति अत्थो. आधारभूताति तेजोवायोधातूनं आधारभूता. निस्सयभूतानन्ति निस्सयमहाभूतानं आपोतेजोवायोधातूनं. सब्बदाति उप्पीळनकाले च अनुप्पीळनकाले च. तत्थाति चतुरासीतिपभेदे उपरिमकायसङ्खाते रूपसमूहे. विनिब्भुज्जितुं असक्कुणेय्यानन्ति इदं चक्खुदसकं इदं कायदसकं इदं भावदसकन्ति एवं कलापतोपि विनिब्भुज्जितुं असक्कुणेय्यानं.
६१६. दीघादीनं फुसित्वा जानितब्बतोति इदं दीघादीनं न कायविञ्ञाणगोचरत्ता वुत्तं, दीघादिवोहाररूपादीनं पन फोट्ठब्बं फुसित्वा कायविञ्ञाणवीथिया परतो पवत्तेन मनोविञ्ञाणेनपि जानितब्बत्ता वुत्तं. दीघादिसन्निवेसन्ति दीघादिसन्निवेसवन्तं. एकस्मिं इतरस्स अभावाति छायातपानं आलोकन्धकारानञ्च असहट्ठायितं आह. कथं पन आलोको अन्धकारं विधमतीति? ‘‘आलोकप्पवत्तिसमानकालं अन्धकारसभावेन पवत्तमानं वण्णायतनं भिज्जति. अन्धकारस्स निस्सयो हुत्वा पवत्तमानानि भूतानि कमेन तथारूपस्स वण्णायतनस्स निस्सयभावं गच्छन्ती’’ति केचि. सह अन्धकारेन तन्निस्सयभूतानं निरोधसमनन्तरं तंसन्ततियं तादिसे पच्चयसन्निपाते आलोकनिस्सयभूतानं उप्पत्तीति वेदितब्बं. न हि निस्सयमहाभूतेहि विना आलोकप्पवत्ति अत्थि, नापि अन्धकारसङ्खातं वण्णायतनमेव निरुज्झति तंनिस्सयेहि पयुज्जमानकएककलापभूतोपादारूपानं सहेव निरुज्झनतो. पदीपसिखामणिरंसियो विय पथवीपाकाररुक्खादीनि मुञ्चित्वापि अन्धकारो पवत्ततीति वदन्ति. मन्दं पन पाकारादिआधाररहितं न सुट्ठु पञ्ञायति, बहलं आधारं निस्साय पवत्ततीति युत्तन्ति च वदन्ति.
६२०. ‘‘अमनुस्ससद्दो’’ति एत्थ अ-कारो न मनुस्सतामत्तनिवत्तिअत्थो सदिसभावदीपनताय अनधिप्पेतत्ता, मनुस्सतो पन अनञ्ञतानिवत्तिअत्थोति दस्सेतुं ‘‘अमनुस्स…पे… ट्ठादयोपी’’ति आह. तथा कित्तेतब्बोति ‘‘वंसफालनसद्दो’’तिआदिना वत्थुवसेन कित्तेतब्बो.
६३२. कम्मचित्तादिनाति आदि-सद्देन उतुआहारे सङ्गण्हाति. तंतदाकारानीति इत्थिलिङ्गादिआकारानि. इत्थिन्द्रियं पटिच्च समुट्ठहन्तीति अञ्ञमञ्ञपच्चयानिपि इत्थिलिङ्गादीनि येभुय्येन इत्थिन्द्रियसहिते एव सन्ताने सब्भावा इतरत्थ च अभावा इन्द्रियहेतुकानि वुत्तानि. अञ्ञथाति इत्थिलिङ्गादिआकारतो अञ्ञथा, इत्थिन्द्रियाभावे वा. इत्थिग्गहणस्स चाति इत्थीति चित्तप्पवत्तिया. तेसं रूपानन्ति इत्थिलिङ्गादिआकाररूपानं. यदि इत्थिन्द्रियं इत्थिलिङ्गादिआकाररूपानं सहकारीकारणं, अथ कस्मा तस्स इन्द्रियादिपच्चयभावो तेसं न वुत्तोति? नेव तं सहकारीकारणं, अथ खो तेसं तब्भावभावितामत्तेन तं कारणन्ति वुच्चतीति दस्सेतुं आह ‘‘यस्मा पना’’तिआदि.
६३३. लिङ्गं परिवत्तमानं पुरिमलिङ्गाधारजातिअनुरूपमेव हुत्वा परिवत्ततीति कत्वा वुत्तं ‘‘पटिसन्धियं विय पवत्तेपी’’ति. यस्स…पे… नोति आदिवचनतोति आदि-सद्देन ‘‘यस्स वा पन पुरिसिन्द्रियं उप्पज्जति, तस्स इत्थिन्द्रियं उप्पज्जतीति नो’’ति (यम. ३.इन्द्रिययमक.१८८) सङ्गण्हाति.
६३५. द्वारभावेन कुच्छितानं आसवधम्मानं पवत्तिट्ठानताय पसादविसेसे विय विञ्ञत्तिविसेसेपि कायवोहारप्पवत्ति दट्ठब्बा. वित्थम्भनसभावताय वायोधातुया थम्भनं ‘‘वायोधातुकिच्च’’न्ति वुत्तं. किच्चम्पि हि धम्मानं सभावोयेवाति. पथवीधातुया आकारो वचीविञ्ञत्तीति वत्तुं वट्टतीति योजना.
६३६. वितक्क…पे… गहिताति यथाधिप्पेतत्थाभिब्यञ्जिकाय वाचाय समुट्ठापनाधिप्पायप्पवत्तिं सन्धाय वुत्तं. तदा हि सा तेहि परिग्गहिता नाम होतीति. एकस्सपि अक्खरस्स अनेकेहि जवनेहि निब्बत्तेतब्बत्ता तथा निब्बत्तियमानताय असमत्थसभावत्ता न विञ्ञातविसेसा न भिन्ना एवाति आह ‘‘सव…पे… भिन्ना’’ति. अब्बोकिण्णेति अन्तरन्तरा उप्पज्जमानेहि असंसट्ठे. ‘‘पच्छिमचित्त’’न्ति अविसेसेन चुतिचित्तं वुत्तन्ति अधिप्पायेन ‘‘अञ्ञेसम्पि चुतिचित्तं…पे… ञायती’’ति वुत्तं.
अथ वा ‘‘ये च रूपावचरं अरूपावचरं उपपज्जित्वा परिनिब्बायिस्सन्ति, तेसं चवन्तानं तेसं वचीसङ्खारो निरुज्झिस्सति, नो च तेसं कायसङ्खारो निरुज्झिस्सती’’ति (यम. २.सङ्खारयमक.८८) रूपारूपभवूपपज्जनकानं कामावचरचुतिचित्तस्सपि कायसङ्खारासमुट्ठापनवचनेन खीणासवेहि अञ्ञेसम्पि…पे… ञायती’’ति वुत्तं. यस्मा च –
‘‘यस्स कायसङ्खारो निरुज्झति, तस्स वचीसङ्खारो निरुज्झिस्सतीति आमन्ता’’ति (यम. २.सङ्खारयमक.१०८),
‘‘यस्स कायसङ्खारो निरुज्झति, तस्स चित्तसङ्खारो निरुज्झिस्सतीति आमन्ता’’ति (यम. २.सङ्खारयमक.१०८) च,
‘‘पच्छिमचित्तस्स भङ्गक्खणे तेसं कायसङ्खारो च न निरुज्झति चित्तसङ्खारो च न निरुज्झिस्सती’’ति (यम. २.सङ्खारयमक.११३) –
आदिवचनतो च पच्छिमचित्तस्स पुरतो सोळसमेन चित्तेन ततो ओरिमेन वा सद्धिं अस्सासपस्सासा न उप्पज्जन्तीति सिद्धं. यदि उप्पज्जेय्युं, ‘‘पच्छिमचित्तस्स भङ्गक्खणे तेसं कायसङ्खारो न निरुज्झती’’ति न वदेय्य, वुत्तञ्चेतं, तस्मा हेट्ठिमकोटिया चुतितो पुरिमेन सत्तरसमेन उप्पन्ना अस्सासपस्सासा चुतिया हेट्ठा दुतियेन चित्तेन सद्धिं निरुज्झन्ति. तेन ‘‘यस्स चित्तस्स अनन्तरा कामावचरानं पच्छिमचित्तं उप्पज्जिस्सती’’ति चुतिचित्तस्सानन्तरपच्चयभूतस्सपि चित्तस्स कायसङ्खारासमुट्ठापनता वुत्ता.
अथ वा यस्स चित्तस्साति येन चित्तेन सब्बपच्छिमो कायसङ्खारो उप्पज्जति. तं चित्तं वुत्तन्ति गहेतब्बं, न पच्छिमचित्तस्स अनन्तरपच्चयभूतं. अनन्तराति हि कायसङ्खारुप्पादनं अन्तरं विना, यतो पच्छा कायसङ्खारुप्पादनेन अनन्तरितं हुत्वा पच्छिमचित्तं उप्पज्जिस्सतीति अत्थो. कस्मा? ‘‘इतरेसं वचीसङ्खारो च निरुज्झिस्सति कायसङ्खारो च निरुज्झिस्सती’’ति (यम. २.सङ्खारयमक.८८) वुत्तत्ता. अञ्ञथापच्छिमचित्ततो पुरिमततियचित्तसमङ्गीनं कायसङ्खारो उप्पज्जतीति आपज्जतीति. एवं सब्बेसम्पि चुतिचित्तस्स रूपजनकताभावे आगमं दस्सेत्वा इदानि युत्तिं दस्सेतुं ‘‘न ही’’तिआदिमाह. तत्थ गब्भगमनादीति आदि-सद्देन उदकनिमुग्गअसञ्ञीभूतकालकतचतुत्थज्झानसमापन्नरूपारूपभवसमङ्गीनिरोधसमापन्नभावे सङ्गण्हाति.
६३७. अनेकेसं कलापानं एकतो हुत्वा एकघनपिण्डभावेन पवत्तनतो कलापन्तरभूतानं कलापन्तरभूतेहि सम्फुट्ठभावो वुत्तो. यतो तेसं दुविञ्ञेय्यनानत्तं, न पन अविनिब्भुत्तभावतो. तंतंभूतविवित्तताति तेसं तेसं भूतानं विभत्तभावो कलापन्तरभूतेहि विभत्तसभावता असंकिण्णताति अत्थो. यस्मा पन यथावुत्ता विवित्तता रूपानं ओसानं होति, तस्मा ‘‘रूपपरियन्तो’’ति वुत्तं. अथ वा तंतंभूतसुञ्ञता. येसञ्हि परिच्छेदो आकासो, तेसं परियन्तताय तेहि सुञ्ञभावोति लक्खितब्बो. ततोयेव च सो भूतन्तरेहि विय तेहि असम्फुट्ठोति वुच्चतीति. अञ्ञथाति परिच्छिन्दितब्बेहि असम्फुट्ठभावाभावे.
६३८. तंतंविकाराधिकरूपेहीति एत्थ कथं चम्मसुवण्णेसु मुदुताकम्मञ्ञता लब्भन्ति, ननु लहुतादिविकारा एकन्ततो इन्द्रियबद्धरूपे एव पवत्तनतो अनिन्द्रियबद्धे न लब्भन्तीति? सच्चमेतं, इध पन तंसदिसेसु तब्बोहारवसेन वुत्तं. तथा हि तूलपिचुआदीसु गरुभावादिहेतूनं भूतानं अधिकभावाभावतो लहुआदिवोहारो. निद्दिसितब्बधम्मनिस्सयरूपे एव वा सन्धाय ‘‘तंतंविकाराधिकरूपेही’’ति वुत्तन्ति दट्ठब्बं. सब्बे सब्बेसं पच्चया लहुतादीनं अञ्ञमञ्ञाविजहनतोति अधिप्पायो.
६४१. आचयसद्देनेवाति निद्देसे वुत्तआचयसद्देनेव. यो आयतनानं आदिचयत्ता आचयो पुनप्पुनं निब्बत्तमानानं, सोव रूपस्स उपरिचयत्ता उपचयोति अधिप्पेतं अत्थं पाळियं योजेत्वा दस्सेतुं ‘‘पाळियं पना’’तिआदि वुत्तं. उप-सद्दो पठमत्थो ‘‘दानं, भिक्खवे, पण्डितुपञ्ञत्त’’न्तिआदीसु (अ. नि. ३.४५) विय. उपरिअत्थोच ‘‘सम्मट्ठे उपसित्ते च, ते निसीदिंसु मण्डपे’’तिआदीसु विय. अञ्ञथाति उप-सद्दस्स उपरिअत्थस्सेव गहणे.
६४३. फलविपच्चनपकतियाति फलविपच्चनसभावेन. फलमेव वा पकतीति आयुसंहानादिना फलसभावेन जरानिद्देसोति अत्थो. तथा हि ‘‘फलूपचारेन वुत्ता’’ति वुत्तं. सुपरिणतरूपपरिपाककाले हानिदसकादीसु.
६४५. कत्तब्बसभावतोति मूलफलादीनं इधाधिप्पेतआहारवत्थूनं मुखेन असनादिकत्तब्बसभावतो. विसभूते सङ्घाते ओजा मन्दा होतीति सविसत्ताभावतो सुखुमता वुत्ता. अङ्गमङ्गानुसारिनो रसस्स सारोति रसहरणीधमनिजालानुसारेन सरीरावयवे अनुप्पविट्ठस्स आहाररसस्स अब्भन्तराहारपच्चयो स्नेहो, यो लोके रसधातूति वुच्चति.
उपादाभाजनीयकथावण्णना निट्ठिता.
नोउपादाभाजनीयकथावण्णना
६४६. ‘‘एकं महाभूतं पटिच्च तयो महाभूता तयो महाभूते पटिच्च एकं महाभूत’’न्तिआदिवचनतो (पट्ठा. १.१.५३) एकं महाभूतं अवसेसमहाभूते निस्सयति, तेहि उपादारूपेन च निस्सीयतीति आह ‘‘निस्सयति च निस्सीयति चा’’ति.
६४७. महाभूतानं अञ्ञमञ्ञाविजहनतो एकस्मिम्पि कलापे अनेकं फोट्ठब्बं अत्थीति फोट्ठब्बसभावेसुयेव अनेकेसुपि आरम्मणेसु आपाथगतेसु आभोगादिवसेन एकंयेव विञ्ञाणुप्पत्तिहेतु होतीति अयं विचारो दस्सितो. इतरेसुपि पन यथायोगं दस्सेतब्बो. तत्थ रसारम्मणं ताव इन्द्रियनिस्सयं अल्लीयित्वा विञ्ञाणुप्पत्तिहेतुभावतो सतिपि अनेकेसं रसानं आपाथगमने एकस्मिं खणे एकप्पकारंयेव यथावुत्तनयेन जिव्हाविञ्ञाणुप्पत्तिहेतु होति, तथा गन्धारम्मणं. रूपसद्दारम्मणानि पन इन्द्रियनिस्सयं असम्पत्वाव विञ्ञाणुप्पत्तिहेतुभावतो योग्यदेसे अवट्ठितानि यत्तकानि सहकारीपच्चयन्तरगतं उपकारं लभन्ति, तत्तकानि एकस्मिं खणे एकज्झं आरम्मणं न होन्तीति न वत्तब्बानि. तथा हि सद्दो निग्घोसादिको अनेककलापगतो तथा वण्णोपि सिविकुब्बहननियामेन एकज्झं आरम्मणं होतीति. एत्थापि च आभुजितवसेन आरम्मणाधिमत्ततावसेन अनेककलापसन्निपातेपि कत्थचि विञ्ञाणुप्पत्ति होतियेव. पसादाधिमत्तता पित्तादिविबन्धाभावेन पसादस्स तिक्खता. कथं पन चित्तस्साति चित्तसामञ्ञतो एकत्तनयवसेन पुच्छति.
६५१. तादिसायाति या पचुरजनस्स अत्थीतिपि न गहिता. सन्ती समाना. एवन्ति यथाससम्भारुदकं ससम्भारपथविया आबन्धकं, एवं परमत्थुदकं परमत्थपथवियाति दस्सेति. तदनुरूपपच्चयेहीति अत्तनो आबन्धनानुगुणेहि आबन्धियमानेहि सन्धारणादिकिच्चेहि पुरिमेहि च पथवीआदीहि. अफुसित्वा पतिट्ठा होति, अफुसित्वा आबन्धतीति इमिना फुसितब्बफुसनकभावो आपोधातुयं नत्थीति फोट्ठब्बवसेन उभयधम्मतं आह. अञ्ञमञ्ञं निस्सयता अञ्ञमञ्ञनिस्सयता. अथ वा अञ्ञमञ्ञता च निस्सयता च अञ्ञमञ्ञनिस्सयता. यदि फोट्ठब्बाफोट्ठब्बधातूनं फोट्ठब्बभावेन विना अञ्ञमञ्ञनिस्सयता, पथवीआदीनं कक्खळादिसभावो एव फोट्ठब्बभावोति तब्बिरहेन कथं तेसं आपोधातुया निस्सयादिभावोति आह ‘‘अविनिब्भोगवुत्तीसू’’तिआदि. अञ्ञमञ्ञपच्चयभूतेसूति एतेन उपादारूपं निवत्तेति. अथ वा पुब्बे अट्ठकथाधिप्पाये ठत्वा फोट्ठब्बाफोट्ठब्बधातूनं विसिट्ठं अञ्ञमञ्ञनिस्सयतं वत्वा इदानि अत्तनो अधिप्पाये ठत्वा अविसेसेन तं दस्सेन्तो आह ‘‘अविनिब्भोगवुत्तीसू’’तिआदि. तंयेव अविसिट्ठं अञ्ञमञ्ञनिस्सयतं दळ्हं कत्वा दस्सेन्तो ‘‘नापि सहजातेसू’’तिआदिमाह. तत्थ अफुसनं ताव एककलापगतत्ता न विचारेतब्बं, फुसनं पन कथन्ति? एककलापगतत्ता एव. विसुं सिद्धानंयेव हि विसयमहाभूतानं कायप्पसादनिस्सयभूतेसु फुसनं दिस्सति.
झायतीति परिपच्चति. न उण्हा हुत्वाति एतस्स उण्हसभावा हुत्वाति अयमत्थोति कत्वा ‘‘तेजोसभावतंयेव पटिक्खिपती’’ति वुत्तं. उण्हपटिपक्खत्ता सीतस्स उण्हताय पटिक्खेपे सीततासङ्का सियाति आह ‘‘न सीतत्तं अनुजानाती’’ति. तेजोसभागतंयेव वा सीततायपि दस्सेतुं ‘‘न सीतत्तं अनुजानाती’’ति वुत्तं. तेनेवाह ‘‘तेजो एव हि सीत’’न्ति. मन्दे हि उण्हभावे सीतबुद्धीति तेजो एव हि सीतं. कथं पनेतं विञ्ञायतीति? सीतबुद्धिया अववत्थितभावतो पारापारं विय. तथा हि आतपे ठत्वा छायं पविट्ठानं सीतबुद्धि होति, तत्थेव पथवीगब्भतो निग्गतानं उण्हबुद्धीति. यदि तेजोयेव सीतं, उण्हभावेन सद्धिं सीतभावोपि एकस्मिं कलापे उपलब्भेय्याति आह ‘‘सीतुण्हानञ्चा’’तिआदि. उण्हसीतकलापेसु सीतुण्हानं अप्पवत्ति. द्विन्नं…पे… युज्जति, न आपोधातुवायोधातूनं सीतभावेति अधिप्पायो. आपोधातुया हि वायोधातुया सीतभावे उण्हभावेन सद्धिं एकस्मिं कलापे सीतभावो लब्भेय्य, न पन लब्भति. न चेत्थ आपोधातुअधिके वायोधातुअधिके वा कलापे सीतभावोति सक्का विञ्ञातुं तादिसेपि कत्थचि कलापे अलब्भमानत्ता सीतभावस्साति. खरतादिसभावाधिकस्स भूतसङ्घातस्स दवतादिसभावाधिकतापत्ति भावञ्ञथत्तं. तं पन यथा होति, तं दस्सेतुं ‘‘पच्च…पे… प्पत्ती’’ति आह.
६५२. एकन्तनचित्तसमुट्ठानादीति आदि-सद्देन एकन्तअनुपादिन्नुपादानियादिं सङ्गण्हाति. पुरिमानम्पीति ‘‘यं वा पनञ्ञम्पी’’ति एतस्मा वचनतो पुरिमानं अनुपादिन्नानं सद्दायतनकायविञ्ञत्तिआदीनं नचित्तसमुट्ठानानञ्च चक्खायतनसोतायतनादीनं. नकम्मस्सकतत्ताभावादिकन्ति नकम्मस्सकतत्ताभावं नचित्तसमुट्ठानभावन्ति एवमादिकं. एकन्ताकम्मजादीसूति आदि-सद्देन एकन्ताचित्तजं गय्हति. ता जरताअनिच्चता. अनेकन्तेसु न गहिताति एकन्ततो अकम्मजेसु सद्दायतनादीसु अचित्तजेसु च चक्खायतनादीसु गहेत्वा चतुसमुट्ठानिकत्ता अनेकन्तेसु रूपायतनादीसु न गहिताति अत्थो.
६६६. अनिप्फन्नत्ताति अञ्ञं अनपेक्खित्वा सभावतो असिद्धत्तं. तस्साति विञ्ञत्तिद्वयस्स.
नोउपादाभाजनीयकथावण्णना निट्ठिता.
दुकनिद्देसवण्णना निट्ठिता.
चतुक्कनिद्देसवण्णना
९६६. ‘‘सब्बं रूपं मनसा विञ्ञात’’न्ति वचनतो यदि विञ्ञाततो अञ्ञं दिट्ठादि न होतीति ‘‘कतमं तं रूपं दिट्ठ’’न्तिआदिना पुच्छा न कता, एवं सन्ते चतुक्कभावो कथन्ति अनुयोगं मनसि कत्वा आह ‘‘दस्सनादिग्गहणविसेसतो’’ति. दस्सनं सवनं मिनित्वा जाननं विजाननञ्चाति एतस्मा दस्सनादिग्गहणविसेसतो. एतेन गाहकभेदेन गहेतब्बभेदोति दस्सेति. इदानि समुखेनपि गहेतब्बभेदो लब्भतीति दस्सेतुं ‘‘दिट्ठा…पे… भावतो’’ति वुत्तं.
पञ्चकनिद्देसवण्णना
९६९. तदिदं नयकरणं छब्बिधादीसु तीसु सङ्गहेसु योजितं.
पकिण्णककथावण्णना
९७५. एकन्ततो नीवरणत्ता मिद्धस्स ‘‘नत्थि नीवरणा’’ति वचनेन गहणन्ति दस्सेतुं ‘‘मिद्धस्सपि नीवरणस्सा’’ति वुत्तं. न च रूपं पहातब्बं निप्परियायप्पहानस्स इध अधिप्पेतत्ता. एत्थ केचि ‘‘नामकायरूपकायगेलञ्ञसभावतो दुविधं मिद्धं. तत्थ पुरिमं ‘नीवरणा’ति वचनेन वुत्तं, इतरं रूपसभाव’’न्ति वदन्ति. तत्थ यं तं अरूपतो अञ्ञं मिद्धं परिकप्पितं, तम्पि नीवरणं मिद्धसभावतो इतरं मिद्धं वियाति परिकप्पितमिद्धस्सपि न सक्का नीवरणभावं निवत्तेतुन्ति तेसं वचनस्स नीवरणप्पहानवचनेन विरोधं दस्सेन्तो ‘‘न च रूपकाय’’न्तिआदिमाह. अथ वा खीणासवानं सोप्पनसभावतो सोप्पस्स च मिद्धहेतुकत्ता अत्थि मिद्धरूपन्ति वादं सन्धाय उत्तरमाह ‘‘न च रूपकायगेलञ्ञ’’न्तिआदिना. तत्थ मिद्धमेव सोप्पहेतूति नायं अवधारणा इच्छिता, सोप्पहेतु एव मिद्धन्ति पन इच्छिताति मिद्धतो अञ्ञोपि सोप्पहेतु अत्थि, को पन सो? रूपकायगेलञ्ञं. न च रूप…पे… वचनतोति योजना दट्ठब्बा.
वचीघोसादीति आदि-सद्देन हुंकारादिसद्दो सङ्गय्हति. अङ्गुलिफोटादिसद्दो उतुसमुट्ठानोयेव, चित्तपच्चयो पन होति. रूपभावमत्तानीति जरामरणसभावानं रूपानं तंधम्ममत्तानि, ततो एव न जातिआदिधम्मवन्तानीति आह ‘‘न सयं सभाववन्तानी’’ति. यथा जरा अनिच्चता च रूपभावमत्तं, एवं जातिपीति जातिया रूपभावमत्तताय उपसंहरणत्थो तथा-सद्दो.
तेसं रूपधम्मानं. सङ्खातादि-सद्दो विय अभिनिब्बत्तित-सद्दोपि वत्तमानकालिकोपि होतीति ‘‘अभिनिब्बत्तियमानधम्मक्खणस्मि’’न्ति वुत्तं. एवमपीति यदिपि जिरणभिज्जनभावा जिरणादिसभावानं धम्मानं जनकपच्चयकिच्चानुभावक्खणे अभावतो तप्पच्चयभाववोहारं अभिनिब्बत्तिवोहारञ्च न लभन्ति, एवमपि तेसं उपादिन्नता वत्तब्बाति सम्बन्धो. ‘‘जरामरणं पटिच्चसमुप्पन्न’’न्ति वचनतो तस्स परियायतं विवरति ‘‘तेसं उप्पादे सती’’तिआदिना.
यदि एवन्ति यदि निस्सयपटिबद्धवुत्तिका जातिआदयो, एवं सति. ‘‘महाभूतानं उपादायरूप’’न्ति वचनतो भूतनिस्सितेसु केवलो उपादायवोहारोति उपादाये निस्सितापि अपरेन उपादाय-सद्देन विसेसेत्वा वत्तब्बाति अधिप्पायेन ‘‘उपादायुपादायभावो आपज्जती’’ति आह. कारणकारणेपि कारणे विय वोहारो होति ‘‘चोरेहि गामो दड्ढो’’ति यथाति दस्सेन्तो ‘‘भूत…पे… त्तनतो’’ति आह. इदानि परम्परा विना निप्परियायतो उप्पादादीनं भूतपटिबद्धभावं सह निदस्सनेन दस्सेतुं ‘‘अपि चा’’तिआदिमवोच. विकारपरिच्छेदापि उपादायरूपविकारादिभावे भूतपटिबद्धभावाविनिवत्तितो एकस्मिं कलापे एकेकाव विकारादयोति जीवितिन्द्रियं विय कलापानुपालकं कलापविकारादिभावतो च ‘‘उपादायरूपानि’’इच्चेव वुच्चन्तीति आह ‘‘एवं विका…पे… योजेतब्बानी’’ति.
असङ्खतभावनिवारणत्थं परिनिप्फन्नता वुत्ताति इदं अपरिनिप्फन्नसभाववतो अनुपलब्भमानताय ससविसाणं विय केनचि न सङ्खतन्ति असङ्खतं नाम सियाति इमिस्सा आसङ्काय निवत्तनवसेन वुत्तं. अथ वा रूपविकारादिभावतो रूपभावो विय रूपे सति सन्ति, असति न सन्तीति सिद्धाय पटिच्चसमुप्पन्नताय साधिता परिनिप्फन्नता तेसं सङ्खतभावं साधेन्ती असङ्खतभावं निवारणत्थं जायतीति वुत्तं ‘‘असङ्खतभावनिवारणत्थं परिनिप्फन्नता वुत्ता’’ति.
पकिण्णककथावण्णना निट्ठिता.
रूपकण्डवण्णना निट्ठिता.