५. चित्तागारवग्गवण्णना
९७८. चित्तागारवग्गस्स पठमे कीळनउपवनन्ति अन्तोनगरे ठितं सन्धाय वुत्तं, कीळनुय्यानन्ति बहिनगरे ठितं सन्धाय. पाटेक्का आपत्तियोति गीवाय परिवट्टनप्पयोगगणनाय आपत्तियो, न उम्मीलनगणनाय. ‘‘अज्झारामे राजागारादीनि करोन्ति, तानि पस्सन्तिया अनापत्ती’’ति वचनतो ‘‘अन्तोआरामे तत्थ तत्थ गन्त्वा नच्चादीनि पस्सितुं लभती’’तिपि सिद्धं.
९८२. दुतियादीनि उत्तानत्थानेव.
१०१५. नवमे हत्थिआदीसु सिप्प-सद्दो पच्चेकं योजेतब्बो, तथा आथब्बणादीसु मन्त-सद्दो. तत्थ आथब्बणमन्तो नाम आथब्बणवेदविहितो परूपघातकरो मन्तो, खीलनमन्तो नाम दारुसारखीलं मन्तेत्वा पथवियं पवेसेत्वा मारणमन्तो, अगदप्पयोगो विसयोजनं. नागमण्डलन्ति सप्पानं पवेसनिवारणत्थं मण्डलबद्धमन्तो.
१०१८. दसमं उत्तानत्थमेव.
चित्तागारवग्गवण्णना निट्ठिता.
१०२१. आरामवग्गे सब्बं उत्तानत्थमेव.
१०६७. गब्भिनिवग्गेपि सब्बं सुविञ्ञेय्यमेव.