१. पठमपाराजिकसिक्खापदवण्णना

६५६. भिक्खुनीविभङ्गे योति यो भिक्खुनीनं विभङ्गो. मिगारनत्ताति मज्झपदलोपेनेतं वुत्तन्ति आह ‘‘मिगारमातुया पन नत्ता होती’’ति. मिगारमाताति विसाखायेतं अधिवचनं. नवकम्माधिट्ठायिकन्ति नवकम्मसंविधायिकं. ब्यञ्जनानं पटिविज्झितब्बो आकारो नातिगम्भीरो, यथासुतं धारणमेव तत्थ करणीयन्ति सतिया ब्यापारो अधिको, पञ्ञा तत्थ गुणीभूताति वुत्तं ‘‘सतिपुब्बङ्गमाय पञ्ञाया’’ति. सति पुब्बङ्गमा एतिस्साति सतिपुब्बङ्गमा. पुब्बङ्गमता चेत्थ पधानभावो ‘‘मनोपुब्बङ्गमा’’तिआदीसु विय. अत्थग्गहणे पन पञ्ञाय ब्यापारो अधिको पटिविज्झितब्बस्स अत्थस्स अतिगम्भीरत्ताति आह ‘‘पञ्ञापुब्बङ्गमाय सतिया’’ति. आलसियविरहिताति कोसज्जरहिता. यथा अञ्ञा कुसीता निसिन्नट्ठाने निसिन्नाव होन्ति, ठितट्ठाने ठिताव, एवं अहुत्वा विप्फारिकेन चित्तेन सब्बकिच्चं निप्फादेति.

सब्बा भिक्खुनियो सत्थुलद्धूपसम्पदा सङ्घतो लद्धूपसम्पदाति दुविधा. गरुधम्मपअग्गहणेन हि लद्धूपसम्पदा महापजापतिगोतमी सत्थुसन्तिकाव लद्धूपसम्पदत्ता सत्थुलद्धूपसम्पदा नाम. सेसा सब्बापि सङ्घतो लद्धूपसम्पदा. तापि एकतोउपसम्पन्ना उभतोउपसम्पन्नाति दुविधा. तत्थ या ता महापजापतिगोतमिया सद्धिं निक्खन्ता पञ्चसता साकियानियो, ता एकतोउपसम्पन्ना भिक्खुसङ्घतो एव लद्धूपसम्पदत्ता, इतरा उभतोउपसम्पन्ना उभतोसङ्घे उपसम्पन्नत्ता. एहिभिक्खुनीभावेन उपसम्पन्ना पन भिक्खुनियो न सन्ति तासं तथा उपसम्पदाय अभावतो. यदि एवं ‘‘एहि भिक्खुनी’’ति इध कस्मा वुत्तन्ति? देसनाय सोतपतितभावतो. अयञ्हि सोतपतितता नाम कत्थचि लब्भमानस्सपि अग्गहणेन होति, यथा अभिधम्मे मनोधातुनिद्देसे (ध. स. १६०-१६१) लब्भमानम्पि झानङ्गं पञ्चविञ्ञाणसोते पतिताय न उद्धटं कत्थचि देसनाय असम्भवतो, यथा तत्थेव वत्थुनिद्देसे (ध. स. ९८४ आदयो) हदयवत्थु. कत्थचि अलब्भमानस्सपि गहणवसेन यथाठितकप्पीनिद्देसे. यथाह –

‘‘कतमो च पुग्गलो ठितकप्पी? अयञ्च पुग्गलो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो अस्स, कप्पस्स च उड्डय्हनवेला अस्स, नेव ताव कप्पो उड्डय्हेय्य, यावायं पुग्गलो न सोतापत्तिफलं सच्छिकरेय्या’’ति (पु. प. १७).

एवमिधापि अलब्भमानगहणवसेन वेदितब्बं. परिकप्पवचनञ्हेतं ‘‘सचे भगवा भिक्खुनीभावयोग्यं कञ्चि मातुगामं ‘एहि भिक्खुनी’ति वदेय्य, एवं भिक्खुनीभावो सिया’’ति.

कस्मा पन भगवा एवं न कथेसीति? तथा कताधिकारानं अभावतो. ये पन ‘‘अनासन्नासन्निहितभावतो’’ति कारणं वत्वा ‘‘भिक्खू एव हि सत्थु आसन्नचारिनो सदा सन्निहिता च होन्ति, तस्मा ते एव ‘एहिभिक्खू’ति वत्तब्बतं अरहन्ति, न भिक्खुनियो’’ति वदन्ति, तं तेसं मतिमत्तं सत्थु आसन्नदूरभावस्स भब्बाभब्बभावसिद्धत्ता. वुत्तञ्हेतं भगवता –

‘‘सङ्घाटिकण्णे चेपि मे, भिक्खवे, भिक्खु गहेत्वा पिट्ठितो पिट्ठितो अनुबन्धो अस्स पादे पादं निक्खिपन्तो, सो च होति अभिज्झालु कामेसु तिब्बसारागो ब्यापन्नचित्तो पदुट्ठमनसङ्कप्पो मुट्ठस्सति असम्पजानो असमाहितो विब्भन्तचित्तो पाकतिन्द्रियो, अथ खो सो आरकाव मय्हं, अहञ्च तस्स. तं किस्स हेतु? धम्मञ्हि सो, भिक्खवे, भिक्खु न पस्सति, धम्मं अपस्सन्तो न मं पस्सति. योजनसते चेपि सो, भिक्खवे, भिक्खु विहरेय्य, सो च होति अनभिज्झालु कामेसु न तिब्बसारागो अब्यापन्नचित्तो अप्पदुट्ठमनसङ्कप्पो उपट्ठितस्सति सम्पजानो समाहितो एकग्गचित्तो संवुतिन्द्रियो, अथ खो सो सन्तिकेव मय्हं, अहञ्च तस्स. तं किस्स हेतु? धम्मञ्हि सो, भिक्खवे, भिक्खु पस्सति, धम्मं पस्सन्तो मं पस्सती’’ति (इतिवु. ९२).

तस्मा अकारणं देसतो सत्थु आसन्नानासन्नता. अकताधिकारताय पन भिक्खुनीनं एहिभिक्खुनूपसम्पदाय अयोग्यता वेदितब्बा.

यदि एवं यं तं थेरीगाथासु भद्दाय कुण्डलकेसाय वुत्तं –

‘‘निहच्च जाणुं वन्दित्वा, सम्मुखा अञ्जलिं अकं;

एहि भद्देति मं अवच, सा मे आसूपसम्पदा’’ति. (थेरीगा. १०९);

तथा अपदानेपि –

‘‘आयाचितो तदा आह, एहि भद्देति नायको;

तदाहं उपसम्पन्ना, परित्तं तोयमद्दस’’न्ति. (अप. थेरी २.३.४४);

तं कथन्ति? नयिदं एहिभिक्खुनीभावेन उपसम्पदं सन्धाय वुत्तं, उपसम्पदाय पन हेतुभावतो ‘‘या सत्थु आणत्ति, सा मे आसूपसम्पदा’’ति वुत्ता. तथा हि वुत्तं अट्ठकथायं (थेरीगा. अट्ठ. १११) ‘‘एहि भद्दे भिक्खुनुपस्सयं गन्त्वा भिक्खुनीनं सन्तिके पब्बज उपसम्पज्जस्सूति मं अवच आणापेसि, सा सत्थु आणा मय्हं उपसम्पदाय कारणत्ता उपसम्पदा आसि अहोसी’’ति. अपदानगाथायम्पि एवमेव अत्थो गहेतब्बो. तस्मा भिक्खुनीनं एहिभिक्खुनूपसम्पदा नत्थियेवाति निट्ठमेत्थ गन्तब्बं. यथा चेतं सोतपतितवसेन ‘‘एहि भिक्खुनी’’ति वुत्तं, एवं ‘‘तीहि सरणगमनेहि उपसम्पन्नाति भिक्खुनी’’ति इदम्पि सोतपतितवसेनेव वुत्तन्ति दट्ठब्बं सरणगमनूपसम्पदायपि भिक्खुनीनं असम्भवतो.

६५९. भिक्खुविभङ्गे ‘‘कायसंसग्गं सादियेय्या’’ति अवत्वा ‘‘समापज्जेय्या’’ति वुत्तत्ता ‘‘भिक्खु आपत्तिया न कारेतब्बो’’ति वुत्तं. तब्बहुलनयेनाति किरियासमुट्ठानस्सेव बहुलभावतो. दिस्सति हि तब्बहुलनयेन तब्बोहारो यथा ‘‘ब्राह्मणगामो’’ति. ब्राह्मणगामेपि हि अन्तमसो रजकादीनि पञ्च कुलानि सन्ति. साति किरियासमुट्ठानता.

६६२. तथेवाति कायसंसग्गरागेन अवस्सुतोयेवाति अत्थो. सेसमेत्थ उत्तानमेव.

पठमपाराजिकसिक्खापदवण्णना निट्ठिता.