२. विलेखनसिक्खापदवण्णना

४३८. दुतिये विनयस्स परियापुणनं विनयपरियत्तीति आह ‘‘विनयं परियापुणन्तान’’न्तिआदि. सुगुत्तोति यथा करण्डके पक्खित्तमणिक्खन्धो विय न नस्सति विपत्तिं न पापुणाति, एवं सुट्ठु गोपितो. सुरक्खितोति तस्सेव परियायवचनं. यथा हि किलेसचोरेहि अविलुम्पनीयो होति, एवं सब्बदा सूपट्ठितस्सतिताय सुट्ठु रक्खितो. कुक्कुच्चपकतानन्ति कप्पियाकप्पियं निस्साय उप्पन्नकुक्कुच्चेन अभिभूतानं. सारज्जनं सारदो, ब्यामोहभयं. विगतो सारदो एतस्साति विसारदो. सहधम्मेनाति सकारणेन वचनेन. सुनिग्गहितं निग्गण्हातीति यथा न पुन सीसं उक्खिपन्ति, अथ खो अप्पटिभाना मङ्कुभूतायेव होन्ति, एवं सुट्ठु निग्गण्हाति.

अलज्जिताति य-कारलोपेन निद्देसो, अलज्जितायाति वुत्तं होति. अञ्ञाणतातिआदीसुपि एसेव नयो. मन्दो मोमूहोति अञ्ञाणभावेन मन्दो, अविसयतो मोमूहो, महामूळ्होति अत्थो.

अत्तपच्चत्थिकाति अत्तनो पच्चत्थिका. वज्जिपुत्तका दसवत्थुदीपका. परूपहारअञ्ञाणकङ्खापरवितारणादिवादाति एत्थ ये अरहत्तं पटिजानन्तानं अप्पत्ते पत्तसञ्ञीनं अधिमानिकानं कुहकानं वा अरहत्तं पटिजानन्तानं सुक्कविस्सट्ठिं दिस्वा मारकायिका देवता ‘‘अरहतो असुचिं उपसंहरन्ती’’ति मञ्ञन्ति सेय्यथापि पुब्बसेलिया अपरसेलिया च, ते परूपहारवादा. येसं पन अरहतो इत्थिपुरिसादीनं नामगोत्तादीसु ञाणप्पवत्तिया अभावेन अत्थि अरहतो अञ्ञाणं, तत्थेव सन्निट्ठानाभावेन अत्थि अरहतो कङ्खा, यस्मा चस्स तानि वत्थूनि परे वितारेन्ति पकासेन्ति आचिक्खन्ति, तस्मा अत्थि अरहतो परवितारणाति इमा तिस्सो लद्धियो सेय्यथापि एतरहि पुब्बसेलियानं, ते अञ्ञाणकङ्खापरवितारणवादा. निग्गहो पन नेसं कथावत्थुप्पकरणे वुत्तनयेनेव वेदितब्बो.

चत्तारो मग्गा च फलानि चाति उक्कट्ठनिद्देसवसेन वुत्तं, चतस्सो पटिसम्भिदा तिस्सो विज्जा छ अभिञ्ञाति अयम्पि अधिगमसद्धम्मोयेव. च-कारो वा अवुत्तसम्पिण्डनत्थो दट्ठब्बो. केचि थेराति धम्मकथिका. आहंसूति पंसुकूलिकत्थेरा एवं आहंसु.

कदा पनायं कथा उदपादीति? अयञ्हेत्थ अनुपुब्बिकथा (अ. नि. अट्ठ. १.१.१३०) – इमस्मिं किर दीपे चण्डालतिस्समहाभये सक्को देवराजा महाउळुम्पं मापेत्वा भिक्खूनं आरोचापेसि ‘‘महन्तं भयं भविस्सति, न सम्मा देवो वस्सिस्सति, भिक्खू पच्चयेहि किलमन्ता परियत्तिं सन्धारेतुं न सक्खिस्सन्ति, परतीरं गन्त्वा अय्येहि जीवितं रक्खितुं वट्टति. इमं महाउळुम्पं आरुय्ह गच्छथ भन्ते, येसं एत्थ निसज्जट्ठानं नप्पहोति, ते कट्ठखण्डेपि उरं ठपेत्वा गच्छन्तु, सब्बेसं भयं न भविस्सती’’ति. तदा समुद्दतीरं पत्वा सट्ठि भिक्खू कतिकं कत्वा ‘‘अम्हाकं एत्थ गमनकिच्चं नत्थि, मयं इधेव हुत्वा तेपिटकं रक्खिस्सामा’’ति ततो निवत्तित्वा दक्खिणमलयजनपदं गन्त्वा कन्दमूलपण्णेहि जीविकं कप्पेन्ता वसिंसु, काये वहन्ते निसीदित्वा सज्झायं करोन्ति, अवहन्ते वालिकं उस्सारेत्वा परिवारेत्वा सीसानि एकट्ठाने कत्वा परियत्तिं सम्मसन्ति. इमिना नियामेन द्वादस संवच्छरानि साट्ठकथं तेपिटकं परिपुण्णं कत्वा धारयिंसु.

भये वूपसन्ते सत्तसता भिक्खू अत्तनो गतट्ठाने साट्ठकथे तेपिटके एकक्खरम्पि एकब्यञ्जनम्पि अविनासेत्वा इममेव दीपमागम्म कल्लगामजनपदे मण्डलारामविहारं पविसिंसु. थेरानं आगतपवत्तिं सुत्वा इमस्मिं दीपे ओहीना सट्ठि भिक्खू ‘‘थेरे पस्सिस्सामा’’ति गन्त्वा थेरेहि सद्धिं तेपिटकं सोधेन्ता एकक्खरम्पि एकब्यञ्जनम्पि असमेन्तं नाम न पस्सिंसु. तस्मिं ठाने थेरानं अयं कथा उदपादि ‘‘परियत्ति नु खो सासनस्स मूलं, उदाहु पटिपत्ती’’ति. पंसुकूलिकत्थेरा ‘‘पटिपत्ति मूल’’न्ति आहंसु, धम्मकथिका ‘‘परियत्ती’’ति. अथ ने थेरा ‘‘तुम्हाकं द्विन्नम्पि जनानं वचनमत्तेनेव न सक्का विञ्ञातुं, जिनभासितं सुत्तं आहरथा’’ति आहंसु. सुत्तं आहरितुं न भारोति –

‘‘इमे च, सुभद्द, भिक्खू सम्मा विहरेय्युं, असुञ्ञो लोको अरहन्तेहि अस्सा’’ति (दी. नि. २.२१४). ‘‘पटिपत्तिमूलकं, महाराज, सत्थुसासनं, पटिपत्तिसारकं, महाराज, सत्थुसासनं, पटिपत्ति तिट्ठन्ती तिट्ठती’’ति (मि. प. ४.१.७) –

सुत्तं आहरिंसु.

इमं सुत्तं सुत्वा धम्मकथिका अत्तनो वादट्ठपनत्थाय इमं सुत्तं आहरिंसु –

‘‘याव तिट्ठन्ति सुत्तन्ता, विनयो याव दिप्पति;

ताव दक्खन्ति आलोकं, सूरिये अब्भुट्ठिते यथा.

‘‘सुत्तन्तेसु असन्तेसु, पमुट्ठे विनयम्हि च;

तमो भविस्सति लोके, सूरिये अत्थङ्गते यथा.

‘‘सुत्तन्ते रक्खिते सन्ते, पटिपत्ति होति रक्खिता;

पटिपत्तियं ठितो धीरो, योगक्खेमा न धंसती’’ति.

इमस्मिं सुत्ते आहटे पंसुकूलिकत्थेरा तुण्ही अहेसुं. धम्मकथिकत्थेरानंयेव वचनं पुरतो अहोसि. यथा हि गवसतस्स गवसहस्सस्स वा अन्तरे पवेणिपालिकाय धेनुया असति सो वंसो सा पवेणी न घटीयति, एवमेव आरद्धविपस्सकानं भिक्खूनं सतेपि सहस्सेपि विज्जमाने परियत्तिया असति अरियमग्गपटिवेधो नाम न होति. यथा च निधिकुम्भिया जाननत्थाय पासाणपिट्ठे अक्खरेसु उपनिबद्धेसु याव अक्खरानि धरन्ति, ताव निधिकुम्भी नट्ठा नाम न होति, एवमेव परियत्तिया धरमानाय सासनं अन्तरहितं नाम न होतीति. तस्साधेय्योति तस्सायत्तो.

४३९. सो पनाति सो पातिमोक्खो. सेसमेत्थ उत्तानमेव. गरहितुकामता, उपसम्पन्नस्स सन्तिके सिक्खापदविवण्णनञ्चाति इमानि पनेत्थ द्वे अङ्गानि.

विलेखनसिक्खापदवण्णना निट्ठिता.