९. विकप्पनसिक्खापदवण्णना

३७४. नवमे अपच्चुद्धारणन्ति ‘‘मय्हं सन्तकं परिभुञ्ज वा विस्सज्जेहि वा’’तिआदिना अकतपच्चुद्धारं. येन विनयकम्मं कतन्ति येन सद्धिं विनयकम्मं कतं. तिंसकवण्णनायन्ति निस्सग्गियवण्णनायं. परिभोगेन कायकम्मं, अपच्चुद्धारापनेन वचीकम्मं. सेसमेत्थ उत्तानमेव. सामं विकप्पितस्स अपच्चुद्धारो, विकप्पनुपगचीवरता, परिभोगोति इमानि पनेत्थ तीणि अङ्गानि.

विकप्पनसिक्खापदवण्णना निट्ठिता.